संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ५५

निर्वाणप्रकरणं - सर्गः ५५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीभगवानुवाच ।
न कुर्याद्भोगसंत्यागं न कुर्याद्भोगभावनम् ।
स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना ॥१॥
अनात्मन्यात्मतां देहे मा भावय भवात्मनि ।
आत्मन्येवात्मतां सत्ये भावयाऽभवरूपिणि ॥२॥
देहनाशे महाबाहो न किंचिदपि नश्यति ।
आत्मनाशो हि नाशः स्यान्न चात्मा नश्यति ध्रुवः ॥३॥
न हि शीर्यत्यचित्तात्मा त्यक्तसर्वपरिग्रहः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४॥
आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।
मौर्ख्यस्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥५॥
परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।
सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥६॥
अविनाशमनाद्यन्तमात्मानमजरं विदुः ।
नश्यत्यात्मेति दुर्बोधो मा तवास्त्विह दुःखदः ॥७॥
न तथा परिपश्यन्ति विदितात्मान उत्तमाः ।
पश्यन्त्यनात्मनात्मानं स्वमात्मन्यात्ममानिनः ॥८॥
अर्जुन उवाच ।
एवं चेत्त्रिजगन्नाथ मूढानामपि मानद ।
देहनाशे समुत्पन्ने इष्टं नष्टं न किंचन ॥९॥
श्रीभगवानुवाच ।
एवमेतन्महाबाहो न किंचिन्नश्यति क्वचित् ।
आत्मैवास्त्यविनाशात्मा किं तस्य क्व विनश्यति ॥१०॥
इदं नष्टमिदं युक्तमिति मोहभ्रमादृते ।
अन्यत्तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा ॥११॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१२॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१३॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१४॥
आत्मा चैकोऽस्ति न द्वित्वमसतः संभवः कुतः ।
अविनाशस्त्वनन्तोऽसौ सतो नाशो न विद्यते ॥१५॥
द्वित्वैकत्वपरित्यागे शेषं यत्परिशिष्यते ।
शान्तं सदसतोर्मध्यं तदस्तीह परं पदम् ॥१६॥
अर्जुन उवाच ।
तन्मृतोऽस्मीति भगवन्किंकृता तु नृणां स्थितिः ।
कथं स्थितौ च लोकानां तौ स्वर्गनरकौ प्रभो ॥१७॥
श्रीभगवानुवाच ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एतत्तन्मात्रजालात्मा जीवो देहेषु तिष्ठति ॥१८॥
स कृष्यते वासनया रज्वेव पशुपोतकः ।
स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा ॥१९॥
स कालदेशतो देहाज्जर्जरत्वमुपागतात् ।
वासनावशतो याति प्लक्षपर्णाद्रसो यथा ॥२०॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥२१॥
वासनावत्त्वमेवास्य देहो नेतरयुक्तिजः ।
क्षीयते वासनात्यागे क्षीणे भवति तत्पदम् ॥२२॥
वासनावान्परापुष्टो भूत्वा भ्राम्यति योनिषु ।
जीवो भ्रमभराभारो मायापुरुषको यथा ॥२३॥
अक्षस्वभावानखिलाञ्छरीराद्वासनावशः ।
जीवो गृहीत्वा संयाति पुष्पाद्गन्धमिवानिलः ॥२४॥
देहो निस्पन्दतामेति जीवे कौन्तेय निर्गते ।
निस्पन्दावयवाभोगः शान्तवात इव द्रुमः ॥२५॥
अचेष्टं छेदभेदादिदोषैरायात्यदृश्यताम् ।
मृत इत्युच्यते तेन देहो विगतजीवितः ॥२६॥
स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते ।
तं तं स्ववासनाभ्यासात्पश्यत्याकारमाततम् ॥२७॥
अयं देहो हि जीवेन त्वसन्नेवावलोकितः ।
अस्य नाशे त्वमप्येवं पश्य मा वा सुषुप्तवत् ॥२८॥
यथैव पश्यत्याकारांस्तेषां नाशांस्तथैव सः ।
आदिसर्गे भावनया किलैष्वेवं विभावतः ॥२९॥
झटित्युद्भवकाले हि यद्यथा दृश्यते पुरः ।
आनिपातं तदेवास्या अविनाभाविसंविदः ॥३०॥
प्राक्तनं वासनामूलं पुरुषार्थेन जीयते ।
यत्नेनाद्यतनेनाशु ह्यस्तनायतनं यथा ॥३१॥
य एव पुरुषार्थेन दृष्टो बलवता क्षणात् ।
पूर्वोत्तरविशेषांशः स एव जयति स्फुटम् ॥३२॥
अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले ।
पौरुषं हि यथाशास्त्रमतस्त्याज्यं न धीमता ॥३३॥
नरकस्वर्गसर्गादिवासनावशतोऽभितः ।
प्रपश्यति चिराभ्यस्तं जीवो जरठमोहधीः ॥३४॥
अर्जुन उवाच ।
नरकस्वर्गसर्गादिसंभ्रमेषु जगत्पते ।
किमस्य कारणं ब्रूहि जीवस्य जगतः स्थितेः ॥३५॥
श्रीभगवानुवाच ।
स्वप्नोपमाना तेनेह श्रेयसे वासना क्षयः ।
चिराभ्यासवशात्प्रौढा संसारभ्रमकारिणी ॥३६॥
अर्जुन उवाच ।
किमुत्था देवदेवेश क्षीयते वासना कथम् ।
श्रीभगवानुवाच ।
मौर्ख्यमोहसमुत्थाना त्वनात्मन्यात्मभावना ।
आत्मज्ञानान्महाबोधाद्विलयं याति वासना ॥३७॥
भावितात्मासि कौन्तेय सत्यं विज्ञातवानसि ।
अयं सोहं जना एते मयेति त्यज वासनाम् ॥३८॥
अर्जुन उवाच ।
वासनाविलये जीवो विलीनो भवति स्वयम् ।
यो हि यत्सत्तयोच्छूनस्तन्नाशात्स विलीयते ॥३९॥
जीवे विलयमायाते देशकालान्यथाकृतौ ।
कोऽसौ भाजनतामेति जन्मनो मरणस्य च ॥४०॥
श्रीभगवानुवाच ।
स्वयं कल्पितसंकल्पमात्मरूपं यदाविलम् ।
तदेव वासनाकारं जीवं विद्धि महामते ॥४१॥
अनायत्तमसंकल्पमात्मरूपं यदव्ययम् ।
प्रबोधाद्वासनामुक्तं तन्मोक्षं विद्धि भारत ॥४२॥
जीवन्नेव महाबाहो तत्त्वं प्रेक्ष यथास्थितम् ।
वासनावागुरोन्मुक्तो मुक्त इत्यभिधीयते ॥४३॥
यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सः ।
सर्वज्ञोऽप्यभितो बद्धः पञ्जरस्थो यथा खगः ॥४४॥
दुर्दर्शनस्य गगने शिखिपिच्छिकेव
सूक्ष्मा परिस्फुरति यस्य तु वासनान्तः ।
मुक्तः स एव भवतीह हि वासनैव
बन्धो न यस्य ननु तत्क्षय एव मोक्षः ॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने जीवतत्त्वनिर्णयो नाम पञ्चपञ्चाशः सर्गः ॥५५॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP