संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १२४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १२४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।यथा सत्त्वमुपेक्ष्य स्वं शनैर्विप्रो दुरीहया ।अङ्गीकरोति शूद्रत्वं तथा जीवत्वमीश्वरः ॥१॥भूतानि द्विविधान्येव प्रतिसर्गे स्फुरन्ति वै ।आद्यविस्पन्दजातानि तानि निष्कारणानि वै ॥२॥ईश्वरात्समुपागत्य पुनर्जन्मान्तराणि च ।भूतान्यनुभवत्यङ्ग स्वकृतैरेव कर्मभिः ॥३॥कार्यकारणभावोऽयमीदृशो जन्मकर्मणोः ।अकारणमुपायान्ति सर्वे जीवा परात्पदात् ॥४॥पश्चात्तेषां स्वकर्माणि कारणं सुखदुःखयोः ।आत्मज्ञानात्समुत्पन्नः संकल्पः कर्मकारणम् ॥५॥संकल्पित्वं हि बन्धस्य कारणं तत्परित्यज ।मोक्षस्तु निःसंकल्पित्वं तदभ्यासपरो भव ॥६॥सावधानो भव त्वं च ग्राह्यग्राहकसंभ्रमे ।अजस्रमेव संकल्पदशाः परिहरञ्छनैः ॥७॥मा भव ग्राह्यभावात्मा ग्राह्यकात्मा च मा भव ।भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥८॥अजस्रं यं यमेवार्थं पतत्यक्षगणोऽनघ ।बध्यते तत्र रागेण तत्रारागेण मुच्यते ॥९॥किंचिद्यद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ ।न किंचिद्रोचते चित्ते तन्मुक्तोऽसि भवस्थितौ ॥१०॥तस्मात्पदार्थनिचयात्सह स्थावरजङ्गमात् ।तृणादेर्देवकायान्तान्मा किंचित्तव रोचताम् ॥११॥यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।न कर्तासि न भोक्तासि तत्र मुक्तमतिः शमी ॥१२॥सन्तोऽतीतं न शोचन्ति भविष्यच्चिन्तयन्ति नो ।वर्तमानं च गृह्णन्ति कर्म प्राप्तमखण्डितम् ॥१३॥मनसि ग्रथिता भावास्तृष्णामोहमदादयः ।मनसैव मनो राम च्छेदनीयं विजानता ॥१४॥विवेकेनातितीक्ष्णेन बलादय इवायसा ।मनसैव मनश्छिन्धि सर्वभ्रमस्य शान्तये ॥१५॥क्षालयन्ति मलेनैव मलं क्षालनकोविदाः ।वारयन्त्यस्त्रमस्त्रेण विषं प्रति विषेण च ॥१६॥जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि च ।तत्रास्य यत्परं रूपं तद्भज द्वे परित्यज ॥१७॥पाणिपादमयो योऽयं देहो भोगाय वल्गति ।भोगार्थमेतज्जीवस्य रूपं स्थूलमिहास्थितम् ॥१८॥स्वसंकल्पमयाकारं यावत्संसारभावि यत् ।चित्तं तद्विद्धि जीवस्य रूपं रामातिवाहिकम् ॥१९॥आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम् ।यत्तद्विद्धि परं रूपं तृतीयं विश्वरूपकम् ॥२०॥एतत्तुर्यपदं शुद्धमत्र बद्धपदो भव ।संपरित्यज्य पूर्वे द्वे मा तत्रात्ममतिर्भव ॥२१॥श्रीराम उवाच ।जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्वप्यलक्षितम् ।तुर्यं ब्रूहि विशेषेण विविच्य मुनिनायक ॥२२॥श्रीवसिष्ठ उवाच ।अहंभावानहंभावौ त्यक्त्वा सदसती तथा ।यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥२३॥या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः ।साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते ॥२४॥नैतज्जाग्रन्न च स्वप्नं संकल्पानामसंभवात् ।सुषुप्तभावो नाप्येतदभावाज्जडता स्थितेः ॥२५॥शान्तं सम्यक्प्रबुद्धानां यथास्थितमिदं जगत् ।विलीनं तुर्यमेवाहुरबुद्धानां स्थिरं स्थितम् ॥२६॥अहंकारकलात्यागे समतायाः समुद्भवे ।विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥२७॥अथेमं श्रृणु दृष्टान्तं कथ्यमानं मयाधुना ।प्रबुद्धोऽपि यथा बोधमुपैषि विबुधोपम ॥२८॥कस्मिंश्चित्काननाभोगे महामौनं व्यवस्थितम् ।दृष्ट्वाद्भुतमिदं किंचिन्मुनिं पप्रच्छ लुब्धकः ॥२९॥पश्चादुपगतो बाणभिन्नं मृगमभिद्रुतम् ।मुने मदीयबाणेन विद्धो मृग इहागतः ॥३०॥क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः ।समशीला वयं साधो मुनयो वनवासिनः ॥३१॥नास्माकमस्त्यहंकारो व्यवहारेषु यः क्षमः ।सर्वाणीन्द्रियकर्माणि करोति हि सखे मनः ॥३२॥अहंकारमयं तन्मे नूनं प्रगलितं चिरम् ।जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन ॥३३॥तुर्य एव हि तिष्ठेऽहं तत्र दृश्यं न विद्यते ।इति तस्य वचः श्रुत्वा मुनिनाथस्य राघव ॥३४॥लुब्धकोऽर्थमविज्ञाय जगामाभिमतां दिशम् ।अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा ॥३५॥निर्विकल्पा हि चित्तुर्यं तदेवास्तीह नेतरत् ।जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः ॥३६॥घोरं शान्तं च मूढं च आत्मचित्तमिहास्थितम् ।घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् ॥३७॥मूढं सुषुप्तभावस्थं त्रिभिर्हीनं मृतं भवेत् ।यच्च चित्तं मृतं तत्र सत्त्वमेकं स्थितं समम् ।तदेव योगिनः सर्वे यत्नात्संपादयन्ति हि ॥३८॥समस्तसंकल्पविलासमुक्तंतुर्ये पदे तिष्ठ निरामयात्मा ।यत्र स्थिताः साधु सदैव मुक्ताःप्रशान्तमेदा मुनयो महान्तः ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० मृगव्याधीयं नाम चतुर्विंशत्यधिकशततमः सर्गः ॥१२४॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP