संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्यध्यात्मविचित्राभिः कथाभिस्तौ परस्परम् ।आसाते वेद्यवेत्तारौ मुहूर्तत्रितयं वने ॥१॥तत उत्थाय कस्मिंश्चित्सानौ सरससारसे ।सरोवरे वने चैव विहृतौ नन्दने वने ॥२॥तेनाचारेण ताभिश्च कथाभिस्तौ वने ततः ।नीतवन्तौ दिनान्यष्टौ तासु काननवीथिषु ॥३॥अथ कुम्भ उवाचान्यद्वनं यावो गिराविति ।तदोमिति नृपो मत्वा तावुभौ प्रविचेरतुः ॥४॥वनान्यनेकरूपाणि जङ्गलानि तटानि च ।सरांसि गुल्मजालानि श्रृङ्गाणि गहनानि च ॥५॥नदीर्देशांस्तथा ग्रामान्नगराणि वनानि च ।मञ्जुघोषान्गिरीन्कुञ्जांस्तीर्थान्यायतनानि च ॥६॥सममेव समस्नेहौ समवेतौ स्थितावुभौ ।समसत्त्वौ समोत्साहौ शंसन्तौ तस्थतुः सदा ॥७॥आनर्चतुः पितृन्देवान्बुभुजाते च राघव ।समं तप्ते च सिक्ते च समबुद्धी बभूवतुः ॥८॥तमालवनखण्डेषु मन्दारगहनेषु च ।दंपती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः ॥९॥इदं गेहमिदं नेति विकल्पकलना मनः ।न जहार तयो राम वात्येव विबुधाचलम् ॥१०॥विचेरतुस्तौ सुहृदौ क्वचिद्धूलिविधूसरौ ।क्वचिच्चन्दनदिग्धाङ्गौ क्वचिद्भस्मानुरञ्जितौ ॥११॥क्वचिद्दिव्याम्बरधरौ चित्राम्बरधरौ क्वचित् ।क्वचित्पल्लवसंछन्नौ क्वचित्कुसुममण्डितौ ॥१२॥दिनैः कतिपयैरेव समचित्ततया तया ।सत्त्वोदात्ततया चैव राजा कुम्भवदाबभौ ॥१३॥अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् ।दृष्ट्वा शोभामुपगतं चिन्तयामास मानिनी ॥१४॥अयं पतिरदीनात्मा रम्याश्च वनभूमयः ।इयं स्थितिरनायासा या न कामेन वञ्चिता ॥१५॥जीवन्मुक्तधियां भोगं यथाप्राप्तमतिष्ठताम् ।एकाग्रहात्मिका तुच्छा मूढतैवोदिता भवेत् ॥१६॥निजः पतिरुदारात्मा निराधिश्च नवं वयः ।गृहाणि पुष्पजालानि सा हता या न कामिनी ॥१७॥वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिया ।रमते या न निर्दुःखा सा हतैव दुरङ्गना ॥१८॥रम्यं विवाहितं कान्तं पतिमासाद्य निर्जने ।स्त्री सती या न रमते तां धिगस्तु दुरङ्गनाम् ॥१९॥समुज्झता यथाप्राप्तमपि वेद्यविदा सदा ।अनिन्द्यं समुदारार्थं किं तज्ज्ञेन कृतं भवेत् ॥२०॥तत्किंचिद्रचयाम्याशु प्रपञ्चं प्रेक्षया वने ।येनायं भूपतिर्भर्ता रमते मयि मानदः ॥२१॥इति संचिन्त्य चूडाला कुम्भवेषधरा पतिम् ।प्राह काननगुल्मस्था कोकिलं कोकिला यथा ॥२२॥कुम्भ उवाच ।चैत्रमासस्य शुक्लोऽयं प्रतिपद्दिवसो महान् ।अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः ॥२३॥संनिधानं मया तत्र कर्तव्यं पितुरग्रतः ।यथास्थिता हि नियतिर्न संत्याज्या कदाचन ॥२४॥प्रतिपालयितव्यं मे त्वयेह च वनावनौ ।क्रीडता नवपुष्पायां समुद्वेगमगच्छता ॥२५॥आगच्छामि दिनान्तेऽद्य निर्विकल्पं नभस्तलात् ।सर्गादतितरामेव त्वत्सङ्गो मम तुष्टये ॥२६॥इत्युक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् ।प्रीतये स्वामिव प्रीतिं कान्तां नन्दनवृक्षजाम् ॥२७॥आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ ।षुप्लुवेऽथ वनाद्वयोम शरन्मुखपयोदवत् ॥२८॥पुष्पाञ्जलिं जहौ व्योम व्रजन्कुसुमदामजम् ।विसारि वनवातेन हिमं हैम इवाम्बुदः ॥२९॥शिखिध्वजो व्रजन्तं तं ददर्शाऽऽदर्शनं तदा ।उन्निद्रोऽब्दं यथा बर्ही धीमत्प्रीतिर्हि दुस्त्यजा ॥३०॥शिखिध्वजदृशामन्ते व्योम्नि कुम्भवपुर्जहौ ।शान्तावर्तेव वारिश्रीर्मुग्धा स्वं रूपमाययौ ॥३१॥प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् ।स्फुरत्पताकमात्मीयं स्वर्गरम्यं दिवः पथा ॥३२॥अन्तःपुरमदृश्यैव विवेश ललनाकुलम् ।मधुमासमहालक्ष्मीर्लसल्लतमिव द्रुमम् ॥३३॥राजकार्याणि सर्वाणि तत्र संपाद्य सत्वरम् ।शिखिध्वजस्य पुरतः पपात फलपुष्पवत् ॥३४॥तत्र कालद्युति मुखं चकाराखिन्नमानसा ।इन्दुं सनीहारमिव श्यामा खिन्नमिवाम्बुजम् ॥३५॥तं दृष्ट्वा तादृशाकारं समुत्तस्थौ शिखिध्वजः ।बभूव खिन्नचेताश्च समुवाचेदमादृतः ॥३६॥देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे ।कुम्भस्त्वं त्यज संरम्भमिदमासनमास्यताम् ॥३७॥सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् ।नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम् ॥३८॥श्रीवसिष्ठ उवाच ।तेन क्ष्मापतिनेत्युक्ते कुम्भ आहासने विशन् ।गिरा विषण्णया शीर्णवंशस्वनसमानया ॥३९॥यावद्देहमवस्थासु समचित्ततयैव ये ।कर्मेन्द्रियैर्न तिष्ठन्ति न ते तत्त्वविदः शठाः ॥४०॥ये ह्यतत्त्वविदो मूढा राजन्बालतयैव ते ।अवस्थाभ्यः पलायन्ते गृहीताभ्यः स्वभावतः ॥४१॥यावत्तिलं यथा तैलं यावद्देहं तथा दशा ।यो न देहदशामेति स च्छिनत्त्यसिनाम्बरम् ॥४२॥एष देहदशादुःखपरित्यागो ह्यनुत्तमः ।यत्साम्यं चेतसो योगान्न तु कर्मेन्द्रियस्थितेः ॥४३॥यावद्देहं यथाचारं दशास्वङ्ग विजानता ।कर्मेन्द्रियैर्हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित् ॥४४॥परमेष्ठिप्रभृतयः सर्व एवोदिताशयाः ।देहावस्थासु तिष्ठन्ति नियतेरेष निश्चयः ॥४५॥अज्ञतत्त्वज्ञभूतानि दृश्यजातमिदं हि यत् ।तत्सर्वमेव नियतिं धावत्यम्बु यथाम्बुधिम् ॥४६॥तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च ।नियतिं यापयन्तीमां यावद्देहमखण्डिताम् ॥४७॥अज्ञास्तु सर्वक्षोभेण सुखदुःखदशाहताः ।नियतिं यापयन्त्यङ्ग देहलक्षैर्विखण्डिताम् ॥४८॥इत्थं सुखेषु ननु दुःखदशासु चेत्थंस्थातव्यमित्यधिगतं यदिहाङ्ग जीवैः ।अज्ञज्ञभूतनिवहस्फुरितस्तदेवंदुर्लंघ्य एष नियतो नियतेर्विलासः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निवा० पू० चू० जीवन्मुक्तव्यवहारप्रतिपादनं नाम चतुरधिकशततमः सर्गः ॥१०४॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP