संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रीगायत्रीपटलम् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रीगायत्रीपटलम् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रीगायत्रीपटलम् Translation - भाषांतर ॐ अस्य श्रीब्रह्मशापविमोचनमंत्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः कामदुघा गायत्री छंदः ॥ ॐ ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ सवितुः ब्रह्मो मेत्युपासनात्तद्ब्रह्मविदो विदुस्तां प्रयतंति धीराः ॥ सुमनसा वाचा ममाग्रतः ॥ गायत्री त्वं ब्रह्मशापाद्विमुक्ता भव ॥ ॐ विश्वामित्रशापविमोचनमंत्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋषिः ॥ वाग्देहा गायत्री छंदः ॥ भुक्तिमुक्तिप्रदा विश्वामित्रानुगृहीता गायत्री शक्तिः ॥ सविता देवता ॥ विश्वामित्रशपविमोचनार्थे जपे विनियोगः ॥ तत्त्वानि चांगेष्वग्निचितो धियांसः त्रिगर्भा युदुद्भवां देवाश्चोचिरे विश्वसृष्टिम् ॥ तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतो वेदगर्भः ॥ ॐ गायत्री त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ ॐ वसिष्ठशापविमोचनमंत्रस्य वसिष्ठ ऋषिः ॥ विश्वोद्भवा गायत्री छंदः ॥ वसिष्ठानुगृहीता गायत्रीशक्तिर्देवता ॥ वसिष्ठशापविमोचनार्थे जपे विनियोगः ॥ तत्वानि चांगेष्वग्निचितौ धियांसः ध्यायंति विष्णोरायुधानि बिभ्रत् ॥ जनानता सा परमं च शश्वत् गायत्री मासाच्छुरनुत्तमं च धाम ॥ ॐ गायत्री त्वं वसिष्ठशापाद्विमुक्ता भव ॥ सोऽहमर्कमहंज्योतिरर्कः ज्योतिरहं शिवः ॥ आत्मज्योतिरहं शुक्लं शुक्लं ज्योतिरसोहमोम् ॥ अहो विष्णुमहेशेशे दिव्ये सिद्धि सरस्वति ॥ अजरे अमरे चैव दिव्ययोनि नमोऽस्तु ते ॥ शुद्धं गायत्रीध्यानम् ॥ यद्देवैः सुरपूजितं परतरं सामर्थ्यतारात्मकं पुन्नागाम्बुजपुष्पनागबकुलैः केशै शुकैरर्चितम् ॥ नित्यं ध्यानसमस्तदीप्तिकरणं कालाग्निरुद्दीपनं तत्संहारकरं नमामि सततं पातालसंस्थं मुखम् ॥ न्यास । ॐ तत्पादांगुलिपर्वभ्यां नमः ॥ ॐ स पादांगुलिभ्यो नमः ॥ ॐ वि जंघाभ्यां न० ॥ ॐ तुर्जानुभ्यां नमः ॥ ॐ व ऊरुभ्यां नमः ॥ ॐ रे शिश्नाय नमः ॥ ॐ णि वृषणाभ्यां नमः ॥ ॐ यं कट्यै नमः ॥ ॐ भर्नाभ्यै नमः ॥ ॐ गो उदराय नमः ॥ ॐ दे स्तनाभ्यां नमः ॥ ॐ व उरसे नमः ॥ ॐ स्य कण्ठाय नमः ॥ ॐ धी दंतेभ्यो नमः ॥ ॐ म तालुने नमः ॥ ॐ हि नासिकायै नमः ॥ ॐ धि नेत्राभ्यां नमः ॥ ॐ यो भ्रूभ्यां यो ललाटाय नमः ॥ ॐ नः पूर्वमुखाय नमः ॥ ॐ प्र दक्षिणमुखाय नमः ॥ ॐ चो पश्चिममुखाय नमः ॥ ॐ द उत्तरमुखाय नमः ॥ ॐ यात् मूर्ध्ने नमः ॥ इति वर्णन्यासः ॥ ॐ तत्सवितुरंगुष्ठाभ्यां नमः ॥ वरेण्यं तर्ज्जनीभ्यां नमः ॥ ॐ भर्गोदेवस्य मध्यमाभ्यां नमः ॥ ॐ धीमहि अनामिकाभ्यां नमः ॥ ॐ धियो यो नः कनिष्ठिकाभ्यां नमः ॥ ॐ प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ अथ देहन्यासः ॥ ॐ भूः पादयोः ॥ ॐ भुवः जान्वोः ॥ ॐ स्वः नाभौ ॥ ॐ महः हृदये ॥ ॐ जनः कण्ठे ॥ ॐ तपः ललाटे ॥ ॐ सत्यं मूर्ध्नि ॥ ॐ तत्पादयोः ॥ ॐ सवितुर्जान्वोः ॥ ॐ वरेण्यं स्कंधयोः ॥ ॐ भर्गो हृदये ॥ ॐ देवस्य कण्ठे ॥ ॐ धीमहि वक्त्रे ॥ ॐ धियो यो नेत्रे ॥ ॐ नः मुखे ॥ ॐ प्रचोदयात् ॥ अस्त्राय फट् ॥ ॐ आपः अंगुष्ठाभ्यां नमः ॥ ॐ ज्योतिस्तर्जनीभ्यां नमः ॥ ॐ रसो मध्यमाभ्यां नमः ॥ ॐ अमृतम् अनामिकाभ्यां नमः ॥ ॐ ब्रह्म कनिष्ठिकाभ्यां नमः ॥ ॐ भूर्भुवः स्वरोम् करतलकरपृष्ठाभ्यां नमः ॥ ॐ अग्नये हृदयाय नमः ॥ ॐ वायवे शिरसे स्वाहा ॥ ॐ सूर्याय शिखायै वषट् ॥ ॐ ब्रह्मणे कवचाय हुम् ॥ ॐ विष्णवे नेत्रत्रयाय वौषट् ॥ ॐ रुद्राय अस्त्राय फट् ॥ इति न्यासः ॥ अथ वेदादिगीतायाः प्रसादजननं विधिम् ॥ गायत्र्याः संप्रवक्ष्यामि धर्मार्थकाममोक्षदम् ॥१॥नित्यनैमित्तिके काम्ये तृतीये तपवर्द्धने ॥ गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥२॥मध्याह्ने मितभुड्मौनी त्रिस्थानार्चनतत्परः ॥ जपेल्लक्षत्रयं धीमान्नान्यमानसकस्तु यः ॥३॥कर्मभिर्यो जपेत्पश्चात्क्रमशः स्वेच्छयापि वा ॥ यावत्कार्यं न कुर्वीत न लोपेत्तावता व्रतम् ॥४॥आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् ॥५॥त्रिरात्रोपोषितः सम्यग्घृतं हुत्वा सहस्रशः ॥ सहस्रं लाभमाप्नोति हुत्वाग्नौ खदिरेंधनम् ॥६॥पालाशैः समिधैश्चैव घृताक्तानां हुताशने ॥ सहस्रं लाभमाप्नोति राहुसूर्यसमागमे ॥७॥हुत्वा तु खदिरं वह्नौ घृताक्तं रक्तचन्दनम् ॥ सहस्रहेममाप्नोति राहुचन्द्रसमागमे ॥८॥रक्तचन्दनमिश्रं तु सघृतं हव्यवाहने ॥ हुत्वा गोमयमाप्नोति सहस्रं गोमयं द्विजः ॥९॥जातीचंपकराजार्ककुसुमानां सहस्रशः ॥ हुत्वा वस्त्रमवाप्नोति घृताक्तानां हुताशने ॥१०॥सोर्यमंडलबिम्बे च हुत्वा तोयं सहस्रशः ॥ सहस्रं प्राप्नुयाद्धैमं रौप्यमिंदुमये हुते ॥११॥अलक्ष्मीपापसंयुक्ते मलव्याधिविनाशके ॥ मुच्येत्सहस्रजाप्येन स्नायाद्यस्तु जलेन वै ॥१२॥गोघृतेन सहस्रेण लोध्रेण जुहुयुआद्यदि ॥ चौराग्निमारुतोत्थानि भयानि न भवंति वै ॥१३॥क्षीराहारो जपेल्लक्षमपमृत्युमपोहति ॥ घृताशी प्राप्नुयान्मेधां बहुविज्ञानसंचयात् ॥१४॥हुत्वा वेतसपत्राणि घृताक्तानि हुताशने ॥ लक्षाधिपस्यपदवीं सार्वभौमं न संशयः ॥१५॥लक्षेण भस्महोमस्य हुत्वा ह्युत्तिष्ठते जलात् ॥ आदित्याभिमुखं स्थित्वा नाभिमात्रजले शुचौ ॥१६॥गर्भपातादिप्रदराश्चान्ये स्त्रीणां महारुजः ॥ नाशमेष्यंति ते सर्वे मृतवत्सादिदुःखदाः ॥१७॥तिलानां लक्षहोमेन घृताक्तानां हुताशने ॥ सर्वकामसमृद्धात्मा परं स्थानमवाप्नुयात् ॥१८॥यवानां लक्षहोमेन घृताक्तानां हुताशने ॥ सर्वकामसमृद्धात्मा परां सिद्धिमवाप्नुयात् ॥१९॥घृतस्याहुतिलक्षेण सर्वान्कामानवाप्नुयात् ॥ पंचगव्याशनो लक्षं जपेज्जातिस्मृतिर्भवेत् ॥२०॥तदैव ह्यनले हुत्वा प्रपनोति वहुसाधनम् ॥ अन्नादिहवनान्नित्यमन्नाद्यं च भवेत्सदा ॥२१॥जुहुयात्सर्वसाध्यानामाहुत्यायुतसंख्यया ॥ रक्तसिद्धार्थकान्हुत्वा सर्वान्साधयते रिपून् ॥२२॥लवणं मधुसंयुक्तं हुत्वा सर्ववशी भवेत् ॥ हुत्वा तु करवीराणि रक्तानि ज्वालयेज्ज्वरम् ॥२३॥हुत्वा भाल्लातकं तैलं देशादेव प्रचालयेत् ॥ हुत्वा तु निंबपत्राणि विद्वेषशांतये नृणाम् ॥२४॥रक्तानां तंदुलानां च घृताक्तानां हुताशने । हुत्वा बलमवाप्नोति शत्रुभिर्न स जीयते ॥२५॥प्रत्यानयनसिद्ध्यर्थं मधुसर्पिःसमन्वितम् ॥ गवां क्षीरं प्रदीप्तेऽग्नौ जुह्वतस्तत्प्रशाम्यति ॥२६॥ब्रह्मचारी जिताहारो यः सहस्रत्रयं जपेत् ॥ संवत्सरेण लभत धनैश्वर्यं न संशयः ॥२७॥शमीबिल्वपलाशानामर्कस्य तु विशेषतः ॥ पुष्पाणां समिधश्चैव हुत्वा हेममवाप्नुयात् ॥२८॥आब्रह्मत्र्यंबकादीनां यस्यायतनमाश्रितः ॥ जपेल्लक्षं निराहारः स तस्य वरदो भवेत् ॥२९॥बिल्वानां लक्षहोमेन घृताक्तानां हुताशने ॥ परां श्रियमवाप्नोति यदि न भ्रूणहा भवेत् ॥३०॥पद्मानां लक्षहोमेन घृताक्तानां हुताशने ॥ प्राप्नोति राज्यमखिलं सुसंपन्नमकंटकम् ॥३१॥पंचविंशतिलक्षेण दधिक्षीरं हुताशने ॥ स्वदेहे सिद्ध्यते जंतुः कौशिकस्य मतं तथा ॥३२॥एकाहं पंचगव्याशी एकाहं मारुताशनः ॥ एकाहं च द्विजोऽन्नाशी गायत्रीजप उच्यते ॥३३॥महारोगा विनश्यंति लक्षजप्यानुभावतः ॥ स्नात्वा शतेन गायत्र्याः शतमंतर्जले जपेत् ॥३४॥शतेन यस्त्वपः पीत्वा सर्वपापैः प्रमुच्यते ॥ गोघ्नः पितृघ्नमातृघनु ब्रह्महा गुरुतल्पगः ॥३५॥स्वर्णहारी तैलहारी यस्तु विप्रः सुरां पिबेत् ॥ चंदनद्वयसंयुक्तं कर्पूरं तंडुलं यवम् ॥३६॥लवंगं सुफलं चाज्यं सिता चाम्रस्य दारुकैः ॥ अयं न्यूनविधिः प्रोक्तो गायत्र्याः प्रीतिकारकः ॥३७॥एवंकृते महासौख्यं प्राप्नोति साधको ध्रुवम् अन्नाज्यभोजनं हुत्वा कृत्वा वा कर्मगर्हितम् ॥३८॥न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥ येचास्य उत्थिता लोके गृहाः सूर्यादयो भुवि ॥ ते यांति सौम्यतां सर्वे शिवे इति न संशयः ॥३९॥ इति श्रीगायत्रीपटलं समाप्तम् ॥॥ इति श्रीपरिशिष्ठप्रकरणं समाप्तम् ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP