संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः Translation - भाषांतर एवं निर्मितासु सप्तधारासु दक्षिणत आरभ्योदक्संस्थं श्र्यादिसप्तवसोर्धाराणामावाहनं कार्यम् । यथा - ॐ मनसxकाममाकूतिंव्वाचx सत्त्यमशीय ॥ पशूनाxरूपमन्नस्यरसोवशxश्री x श्रयताम्मयिस्वाहा ॥४/३९॥ ॐ भू० श्रियै नमः श्रियम् आ० स्था० ॥१॥ॐ श्रीश्च्चतेलक्ष्मीश्च्चपत्क्न्यावहोरात्त्रेपार्श्र्श्र्वनक्षत्राणिरूपमश्र्श्र्चिनौव्व्यात्तम् ॥ इष्ण्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण ॥२२/३१॥ ॐ भू० लक्ष्म्यै नमः लक्ष्मीम् आ० स्था० ॥२॥ ॐ इहरतिरिहरमद्ध्वमिहधृतिरिहस्वधृतिx स्वाहा ॥ उपसृजन्धरुणम्मात्त्रे धरुणोमातरन्धयन् ॥ रायस्प्पोषमस्म्मासु दीधरत्त्स्वाहां ॥५१/८॥ ॐ भू० धृत्यै नमः धृतिम् आ० स्था० ॥३॥ॐ मेधाम्मेव्वरुणो ददातुमेधामग्निxप्प्रजापतिx ॥ मेधामिन्द्रश्च्च व्वायुश्च्च मेधान्धाताददातुमेस्वाहां ॥१५/३२॥ ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥४॥ॐ देवी जोष्ट्रीसरस्वत्त्यश्श्विनेन्द्रमवर्द्धयन् ॥ श्रोत्त्रन्नकर्ण्णयोर्व्यशोजोष्ट्रीब्भ्यान्दधुरिन्द्रियंव्वसुवनेव्वसुधेयस्यव्वयन्तुयज ॥५१/२१॥ ॐ भू० पुष्ट्यै नमः पुष्टिम् आ० स्था० ॥५॥ॐ व्व्रतेनदीक्क्षामाप्प्नोतिदीक्षयाप्प्नोतिदक्क्षिणाम् ॥ दक्क्षिणाश्श्रद्धामाप्प्नोति श्रद्धयासत्त्यमाप्प्यते ॥३०/१९॥ ॐ भू० श्रद्धायै० नमः श्रद्धाम् आ० स्था० ॥६॥ॐ देवीस्तिस्रस्तिस्रोदेवीxपतिमिन्द्रमवर्द्धयन् ॥ अस्पृक्षद्द्भारतीदिवxरुद्द्रैर्य्यज्ज्ञxसरस्वस्तीडाव्वसुमती गृहान्न्वसुवनेव्वसुधेयस्यव्व्यन्तुxज ॥१८/२८॥ ॐ भू० सरस्वत्यै नमः सरस्वतीम् आ० स्था० ॥७॥ॐ मनोजूति० ॥१३/२॥ ॐ भू० श्र्यादिसप्तवसोर्धाराः सुप्रतिष्ठिता वरदा भवत ॥ ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः इत्यनेन दशोपचारैः पूजयेत् ॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । पादयोः पाद्यं समर्पयामि ॥१॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । हस्तयोरर्ध्यं सम० ॥२॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । आचमनीयं सम० ॥३॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । स्नानं समर्पयामि ॥४॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । वस्त्रं समर्पयामि ॥५॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । चन्दनार्थे कुंकुमं सम० ॥६॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । दूर्वाङ्कुरान्रक्तपुष्पाणि च सम० ॥७॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । गुडधूपं समर्पयामि ॥८॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । घृतदीपं दर्शयामि ॥९॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । गुडसर्पिभ्यां नैवेद्यं निवेदयामि ॥१०॥नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्तं पद्माकारं कृत्वा दक्षिणहस्तेन पञ्च प्राणाहुतीर्दद्यात् । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥ इति नैवेद्यं स० ॥ विशेषार्घ्यः ॥ एकस्मिन्पात्रे दद्यात् ॥ प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम् ॥ अनेन सफलार्घ्येण वरदाः सन्तु सर्वदा ॥ ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः विशेषार्घ्यं सम० ॥ ततः स्तुतिपाठः ॥ यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः । कुर्वन्तु कार्यमाखिलं निर्विघ्नेन क्रतूद्भवम् ॥१॥ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया कौमारी रिपुदर्प्पनाशनकरी चक्रायुधा वैष्णवी ॥ वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥२॥ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः प्रार्थनापूर्वकं स्तुतिपाठं समर्पयामि ॥ हस्ते जलं गृहीत्वा । अनया पूजया श्र्यादिसप्तवसोर्धारादेवताः प्रीयन्तां न मम ॥॥ इति श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः समाप्तः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP