संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः Translation - भाषांतर “ सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् ॥ पञ्चाब्दात्प्रागथोर्द्ध्वं तु गर्भिण्यामपि कारयेत् ॥ सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते ॥ ” पुत्रस्य मातरि गर्भिण्यां पञ्चाब्दात् प्राक् चूडाकर्म कारयेदूर्द्ध्वं तु न कारयेदित्येवार्थः ॥ तथा कैश्चिदुदाहृतस्य - “ सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेत् ॥ ” इति वचनस्य समूलत्वेऽपि सहितयोर्मौञ्जीचूडाकर्मणोर्न निषेधः कित्नु प्रत्येकं निषेधः ॥ प्रकारान्तरेण वशिष्ठोऽपि निषेधं वक्ति ॥ “ गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म च ॥ पञ्चमासादधः कुर्यादत ऊर्द्ध्वं न कारयेत् ॥ ” आपञ्चमासं कार्यमित्यर्थः । कात्यायनस्तु ॥ “ कुले ऋतुत्रयादर्वाङ् मण्डनान्न तु मुण्डनम् ॥ प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम् ॥ ” ऋतुत्रयशब्देन षण्मासा बोध्याः ॥ कुलशब्देन पुरुषत्रयपर्यन्तं स्वगोत्रिणः प्रतिकूलं ज्ञेयम् ॥ अत्र प्रवेशनिर्गमशब्दयोरर्थं कात्यायनः स्वयमेव कथयति ॥ “ पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः ॥ मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम् ॥ ” अयं निष्कर्षः ॥ एकस्य पुत्रस्य पूर्वं निर्वृत्तस्य मौञ्जीविवाहोभयान्ततरवाचकमण्डनकर्मणो द्वितीयस्य चूडाकर्मरूपं मुण्डनाख्यं ( चौलं ) कर्म षण्मासाभ्यन्तरे न विधेयम् । तथैव पुत्रोद्वाहनरूपं प्रवेशाख्यं कर्म कृत्वा पुत्र्युद्वाहरूपं निर्गमाख्यं कर्मापि षण्मासाभ्यन्तरे न विधेयम् ॥ तथैव विवाहमौञ्जीचूडाकर्मरूपमङ्गलत्रयमपि न कर्तव्यम् ॥ परञ्च ॥ “ मौञ्जी चोभयतः कार्या यतो मौञ्जी न मुण्डनम् । अभिन्नवत्सरेऽपि स्यात्तदहस्तत्र भेदयेत् ॥ अभेदे तु विनाशः स्यान्न कुर्यादेकमण्डपे ॥ ” वर्षभेदं विनापि दिवसभेदेनोभयतश्चौलात् प्रागूर्द्ध्वं मौञ्जीकर्मणो न दोषः ॥ “ भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा ॥ एकस्मिन्मण्डपे चैव न कुर्यान्मण्डनद्वयम् ॥ ” एतद्वचनमेकोदरप्रसूतविषयमित्यवगम्यते ॥ अथ विवाहादिशुभकर्मारंभदिवसे तदूर्द्ध्वं वा कर्मकर्तुः स्त्रियो रजोदर्शने सन्निहितमुहूर्तान्तरालाभे श्रीशान्तिं विधाय चौलादि सव विधेयम् ॥ तत्कारिकानिबन्धे स्पष्टीकृतम् ॥ यथा - “ सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकम् ॥ प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुद्ध्यति ॥ तथैव अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते । श्रियं संपूज्य तत् कुर्यात् वृत्रहत्याभयंकरीम् ॥ हैमीं माषमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् ॥ प्रत्यर्चं पायसं हुत्वाऽभिषिच्य शुभमाचरेत् ॥ ” इत्यादिवचनैः सूतिकोदक्ययोरपि शुद्धिः कथिता ॥ उदक्याशब्देन रजस्वला बोध्या । परञ्च सन्निहितमुहूर्तान्तरालाभे एव पूर्वोक्ता व्यवस्थेति बोध्यम् ॥ तथैव ॥ केचन भाविप्रतिबन्धकानां निवृत्त्यर्थं नान्दीश्राद्धम् अपकृष्य कुर्वन्ति परञ्च तस्यापि प्रयोगरत्नेऽवधिः कथितः ॥ “ एकविंशत्यहर्यज्ञे विवाहे दश वासराः । त्रिषट् चौलोपनयने नान्दीश्राद्धं विधीयते ॥ ” तथा च पारिजाते - सन्निहितमुहूर्तान्तरालाभे विवाहार्थमुपयोगिसामग्र्यां कृतायाञ्च सूतकिनोऽपि विष्णुनाऽधिकारार्थमुक्तम् ॥ “ अनारब्धविशुद्धर्थं कूष्माण्डैर्जुहुयाद् घृतम् । गां दद्यात्पञ्चगव्याशी ततः शुद्ध्यति सूतकी ॥१॥संकटे समनुप्राप्ते सूतके समुपस्थिते । कूष्माण्डीभिर्घृतं हुत्वा गाश्च दद्यात्पयस्विनीः ॥२॥चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् ॥ यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रिया ॥३॥ ” एवं संकटप्राप्तौ शुर्द्धि विधाय विवाहादौ सङ्कल्पितान्नभोजनेऽपि न दोषः ॥ तथैव कन्याया विवाहात्प्राग् रजोदर्शने जाते तस्या विवाहयोग्यतासंपादनार्थमुपायमाहाश्वलायनः ॥ “ पिता ऋतून्स्वपुत्र्यास्तु गणयेदादितः सुधीः ॥ दानावधिं गृहे यत्नात् पालयेच्च रजोवतीम् ॥ दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि । दातव्यैकाऽपि यत्नेन दाने तस्या यथाविधि ॥ दद्याद्वा ब्राह्मणेष्वन्नमतिनिः स्वः सदक्षिणम् ॥ तस्यातीतर्तुसङ्ख्येषु वराय प्रतिपादयेत् ॥ उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः । अदृष्टरजसे दद्यात् कन्यायै रत्नभूषणम् ॥ तामुद्वहन्वरश्चापि कूष्माण्डैर्जुहुयाद् द्विजः ॥ ” इत्यादिवचनैः स्पष्टतया विवाहात्प्राग् दृष्टरजस्कायाः स्वकन्याया विवाहे शुद्ध्यर्थ तस्याः पिता शक्तश्चेदादित आविवाहं यावदृतुसंख्याः तावतीः पयस्विनीर्गाः दद्यात् । तावन्गोमूल्यं वा । अशक्तोऽपि यथाशक्त्येकां गां गोमूल्यं वा दद्यात् ॥ परञ्च तस्याः पिता अतिनिःस्वश्चेत् स्वकन्याया ऋतुसंख्येषु ब्राह्मणेषु सदक्षिणम् अन्नं दत्त्वा पश्चात्विवाहं कुर्यात् ॥ तथैव दृष्टरजस्कायाः स्वकन्यायाः शुद्ध्यर्थं स्वां कन्यां विवाहात्प्राक् दिनत्रयम् उपवासं कारयित्वा उपवासान्ते च गव्यं पयः पाययित्वा अदृष्टरजस्कायै कन्यायै ( कुमार्यै ) यथाविभवं वस्त्राभूषणादिकञ्च कन्याहस्तेन दापयित्वा स्वकन्याया विवाहयोग्यता पितुर्भवति कन्यायाश्च ॥ तथैव वरेणापि स्वस्य वृषलीपतित्वादिदोषनिवृत्त्यर्थं कूष्माण्डीभिर्मन्त्रैराज्येन होमं विधाय तया सह विवाहः कार्यः ॥ यज्ञपार्श्वे तु यदा विवाहासंबन्धिहोमकर्मणि प्रवृत्ते तदैव कदाचित् तस्या रजोदर्शने जाते - “ विवाहवितते तन्त्रे होमकाल उपस्थिते । कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः । स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि ॥ युंजानमाहुतिं हुत्वा ततस्तन्त्रं प्रवर्तयेत् ॥ ” “ अन्यच्च - पत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ॥ नचैकजन्ययोः पुंसोर्ह्येकजन्ये च कन्यके ॥ नैवं कदाचिदुद्वाहो प्रदद्यात्तु कदाचन ॥ ” प्रत्युद्वाहशब्देन यस्य पुत्राय स्वकन्या दत्ता तस्य कन्यया सह स्वपुत्रस्योद्वाहः प्रत्युद्वाहो ज्ञेयः ॥ तथैव पारिजाते स्मृत्यन्तरे च । “ एकोदरीकरतलग्रहणं यदि स्यादेकोदरस्थवरयोर्जलनाशनञ्च । एकाद्बके तु विधवा नितरां तु कन्या नद्यन्तरेऽपि शुभदं पृथुशैलरोधे ॥ ” तथैव पारिजाते गार्ग्यः ॥ “ विवाहस्त्वेकजन्यानामेकास्मिन्नुदये जले । नाशं करोत्येकवर्षे स्यादेका विधवा तयोः ॥ तथैव । एकमातृजयोरकेवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते ॥ ” एतेन त्वेकास्मिन्दिवसे वत्सरे चैकस्मिन्गृहेऽपि भिन्नोदरमातृजयोः कर्त्रभेदेन नोद्वाहप्रतिषेधः ॥ परञ्च “ ऋतुत्रयस्य मध्ये चेदन्याद्बस्य प्रवेशनम् ॥ तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते ॥ ” स्वपुत्र्याः विवाहानन्तरमृतुत्रयस्य मध्येऽन्याब्दस्य प्रवेशने तु स्वपुत्रस्य स्वपुत्र्या वा विवाहे न कश्चिच्छास्त्रोक्तिबाधः ॥ मदनरत्ने विशेषः ॥ “ मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मङ्गलम् ॥ ऋतुत्रयं पुनर्यावन्न कुर्याल्लघुमङ्गलम् ॥ इति नारदस्य वचनसामर्थ्याज्ज्येष्ठमङ्गलानन्तरं विवाहभिन्नं भिन्नैकमातृकयोरपि यज्ञोपवीतादि लघुमङ्गलम् ऋतुत्रयस्य मध्ये न कुर्यादिति विशेषोक्तिः । परञ्च ऋतुत्रयस्य मध्ये चेदिति पूर्वोक्तवचनादेकोदरप्रसूतस्यापि ऋतुत्रयस्य मध्येऽब्दभेदे नोद्वाहस्य निषेध इत्यप्यवगम्यते । परञ्च तस्मिन्नेव श्लोके ‘ विवाहस्तु प्रशस्यते ’ इति चतुर्थपदस्य मध्ये तुशब्दोपादानाद्विवाहभिन्नमेकोदर प्रसूतस्य मङ्गलद्वयमब्दभेदेऽपि न भवतीति रुद्रकल्पद्रुमकाराः ॥ तत्रैव मिहिरस्तु - “ पुत्रीपयनादूर्द्ध्वं षण्मासाभ्यन्तरे तथा ॥ पुत्र्युद्वाहनं कुर्वीत विवाहाद्व्रतबन्धनम् ॥ ” अयं मिहिराचार्यस्य श्लोकोऽपि पूर्वोक्तस्य “ कुले ऋतुत्रयादर्वागि ”ति कात्यायनस्य श्लोकभावार्थेन सह सुसम्बद्ध एवेति दृश्यते ॥ मोञ्जीकर्मणस्तूभयतो न दोष इत्यपि ध्वन्यते ॥ ननु “ एकमातृकयोरेकवत्सरे० ” इत्यादिपूर्वोक्तवचनेनैकोदरप्रसूतानां समानक्रियाया एकवत्सरे षण्मासाभ्यन्तरे च निषेधस्य सत्त्वेऽपि तथैव ऋतुत्रयस्य मध्येऽन्याब्दस्य प्रवेशे प्रतिप्रसवेऽपि “ उद्वाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं हि जातु ॥ यावच्चतुर्थीदिनमत्र सर्वं समाप्य चान्योद्वहनं विदध्यात् ” ॥ इति कपर्द्दिकारिकावचनं तथैव “ पुत्रीपरिणयादूर्द्ध्वं यावद्दिनचतुष्टयम् ॥ पुत्र्यन्तरस्य कुर्वीत नोद्वाह इति सूरयः ” इति वराहमिहिरस्य वचनञ्चैकवत्सरे षण्मासाभ्यन्तरेऽन्याब्दस्याप्रवेशनेऽपि पुत्र्युद्वाहानन्तरं व्यतीतेषु चतुर्षु दिनेषु द्वितीयपुत्र्या उद्वाहे न दोष इत्येतदर्थमेवेति चेन्न । “ विवाहस्त्वेकजातानां षण्मासाभ्यन्तरे यदि ॥ असंशयं त्रिभिर्वषैंस्तत्रैका विधवा भवेत् ॥ ” इति वराहमिहिरस्यैव ‘ षण्मासाभ्यन्तरे ’ इतिबलवत्तरनिषेधस्य जागरूकत्वात् तथैव पूर्वोक्तवचनानां वैयर्थ्यापत्तेश्च ॥ परश्च समानोदरस्य षण्मासाभ्यन्तरे स्वस्यैव निषेधवचनस्य सत्त्वेऽपि “ उद्वाह्य पुत्रीम्० ” इति कपर्द्दिकारिकाश्लोकस्य तथैव “ पुत्रीपरिणयादूर्द्ध्वम्० ” इति वराहमिहिरश्लोकस्य पुनरुच्चारणं षण्मासाभ्यन्तरेऽन्याब्दस्याप्रवेशेऽ प्यतिसङ्कटे चतुर्षु दिनेषु व्यतीतेषु पुत्र्युद्वाहनानन्तरं द्वितीयपुत्र्या उद्वाहप्रतिप्रसवार्थ मेवेति ज्ञायते ॥ अन्यथोभयोर्वचनयोर्वैयर्थापत्तेः ॥ अतिसङ्कटे समानोदरस्य कर्तृभेदेन मण्डपादिभेदेनाऽऽचार्यभेदेन च विवाहः प्रतिपादित एव ॥ यमलयोस्तु - “ एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा ॥ कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः ॥ तथैव । द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु ॥ आवश्यकं शोभनमुत्सुको वा द्वारेऽथ वाऽऽचार्यविभेदतो वा ॥ ” इति पूर्वोक्तानि नारदवशिष्ठादीनां वचनप्रमाणान्यालोच्य यथावकाशं देशकालाद्यानुसारं तत्र तत्र कार्यं न समग्रं शास्त्रसम्मतं कर्तुं कोऽपि समर्थ इत्येवास्माकं प्रतिभाति ॥ वरस्य कन्यायाश्चोभयोः कुले कस्य चिन्मृतिश्चेत् तत्र किं विधेयमित्यत्र मेधातिथिराह । “ वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः ॥ तदा संवत्सरादूर्द्ध्वं विवाहः शुभदो भवेत् ॥ पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ॥ प्रवेशान्निर्गमस्तद्वत्तथा मण्डनमुण्डने ॥ प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम् ॥ आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत् ॥ ” तथैव स्मृतिरत्नावल्याम् - “ पितुरब्दमिहाशौचं तदर्द्धं मातुरेव च ॥ मासत्रयं तु भार्यायास्तदर्द्धं भ्रातृपुत्रयोः ॥ अन्येषां तु सपिण्डानामाशौचं माससम्मितम् ॥ तदन्ते शान्तिकं कृत्वा ततो लग्नं विधीयते ॥ ” ज्योतिःशास्त्रे तु । “ प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा ॥ शान्तिं विधाय गां दत्वा वाग्दानादि चरेद्बुधः ॥ ” स्मृत्यन्तरे । “ प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् ॥ प्रतिकूलेऽपि कर्तव्यं केऽप्याहुर्बहुसंप्लवे ॥ प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् ॥ विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ तथैव । दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसङ्कटे ॥ प्रौढायामपि कन्यायां नानुकूल प्रतीक्ष्यते ॥ दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासीनस्थितस्यापि प्रातिकूल्यं न विद्यते ॥ सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिना ॥ शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ अकृत्वा शान्तिकं यस्तु निषिद्धे सति दारुणे ॥ प्रकरोति शुभं कर्म विघ्नस्तस्य पदे पदे ॥ ” अपि च । “ प्रतिकूले तु संप्राप्ते विवाहं नैव कारयेत् ॥ अन्ते दोषविनाशाय कुर्याच्छान्तिमिमां शुभाम् ॥ ” स्मृतिचन्द्रिकायाम् । “ कृते वाड्निश्चये पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः ॥ तदा न मङ्गलं कार्यं नारीवैधव्यदं ध्रुवम् ॥ वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः ॥ तदोद्वाहो नैव कार्यः स्ववंशक्षयदोषतः ॥ ” पूर्वोक्तविवाहादिशुभकर्मप्रतिकूलप्रदर्शकश्लोकानां समीचीना रुद्रकल्पद्रुमकारैर्व्याख्या कृता परञ्च तस्या अतिविस्तृतत्वान्नात्र सर्वोद्धर्तुं शक्यते ॥ परञ्च विवाहादिशुभकर्मणः प्रारम्भे वाङ्निश्चये च जाते यदोभयोः कुलयोर्मध्ये कस्यचिन्मृतिरूपं प्रातिकूल्यं भाग्यवशाज्ज्तञ्चेदथवा दुर्भिक्षादिप्रातिकूल्ये प्राप्ते सर्वतः प्रतिकूलस्य समीक्षां कृत्वा प्रातिकूल्योत्पादककर्मणां यथाशक्ति तत्तत्कर्मणि शास्त्रोक्तं कर्म निर्वर्त्य शास्त्रसम्मतं देशकालसम्पतञ्चाचरेत् ॥ एवं प्रतिबन्धकनिर्णयविधायकशास्त्राणामालोचनेनास्माकं शास्त्रव्यवहारः सर्वथा लोकप्रकृतिप्रवृत्तिपर्यालोचनपुरःसरः सरतो बन्धनरूपोऽपि निर्बन्धः कुत्र कुत्र च सङ्कुचिततत्त्वसमृद्धोऽपि अबाधितराजमार्ग इव विस्तृतः प्रतिभाति ॥ तथैव च स्मृत्याद्यनेकधर्मनिर्णायकग्रन्थेषु सम्यङ्निर्णीतोऽपि दरीदृश्यते ॥॥ इति कर्मारम्भप्रतिबन्धकनिर्णयसंग्रहः समाप्तः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP