संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीगायत्रीसहस्रनामावलिः

श्रीगायत्रीसहस्रनामावलिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ ॐ श्रीगणेशाय नमः ॥ ॐ श्रीगायत्रीदेव्यै नमः ॥
॥ ॐ श्रीशारदायै नमः ॥ ॐ श्रीमहालक्ष्म्यै नमः ॥

नारद उवाच ॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ श्रुतिस्मृतिपुराणानां रहत्यं त्वन्मुखाच्छ्रुतम् ॥१॥
सर्वपापहरं देव येन विद्या प्रवर्तते ॥ केन वा ब्रह्मविज्ञानं किंनु वा मोक्षसाधनम् ॥२॥
ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् ॥ ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥३॥
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ॥ श्रीनारायण उवाच ॥ साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥४॥
श्रृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्त्र्कम् ॥ नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥५॥
सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते ॥ अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥६॥
छन्दोऽनुष्टुप्तथा दैवी गायत्री देवता स्मृता ॥ हलो बीजानि तस्यै स्वराः शक्तय ईरिताः ॥७॥
अंगन्यासकरन्यासाबुच्येते मातृकाक्षरैः ॥ अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥८॥
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां, रक्तां रक्तनवस्रजां मणिगणैर्युक्तां कुमारीमिमाम् ॥ गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां, पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥९॥
हस्ते जलमादाय अस्य श्रीयात्रीसहस्रनामस्तोत्रमन्त्रस्य ब्रह्माऋषिः । अनुष्टुप् छन्दः । दैवी गायत्रीदेवता । हलो बेजानि । स्वराः शक्तयः । श्रीभगवतीगायत्रीदेव्यै सहस्रबिल्वपत्रसमर्पणे ( तुलसीदलसमर्पणे पुष्पसमर्पणे वा ) विनियोगः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP