संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
गायत्रीकवचं

गायत्रीकवचं

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मसंध्या तु मे पश्चादुत्तरस्यां सरस्वती ॥१॥
पावकीं च दिशं रक्षेत्पावमानी विलासिनी । दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी ॥२॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेत्सर्वाङ्गे भुवनेश्वरी ॥३॥
तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् । वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥४॥
देवस्य मे तु हृदयं धीमहीति च गल्लयोः । धियःपदं च मे नेत्रे यःपदं मे ललाटके ॥५॥
नःपदं पातु मे मूर्ध्नि शिखायां मे प्रचोदयात् । तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥६॥
चक्षुषी तु विकारार्णं तुकारस्तु कपोलयोः । नासापुटे र्वकारश्च रेकारस्तु मुखे तथा ॥७॥
णिकार ऊर्ध्व ओष्ठे तु यकारस्त्वधरोष्ठके । आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥८॥
देकारः कण्ठदेशे तु वकारः स्कन्धदेशके । स्यकारो दक्षिणे हस्ते धीकारी वामहस्तके ॥९॥
मकारो हृदयं रक्षेद्धिकार उदरे तथा । धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥१०॥
गुह्यं रक्षतु योकार ऊरुणी नःपदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम् ॥११॥
दकारो गुल्फदेशेषु याकारः पादयुग्मकम् । तकारव्यञ्जनं चैव देवताभ्यो नमो नमः ॥१२॥
इदं तु कवचं दिव्यं बद्ध्वा शत्रून्विनाशयेत् । चतुःषष्टिकला विद्या अङ्गाद्यखिलपातकैः ॥ मुच्यते सर्वपापेभ्यः परं ब्रह्माधिकच्छति ॥१३॥
इति गायत्रीकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP