संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| निर्णयसंग्रहः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् निर्णयसंग्रहः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत निर्णयसंग्रहः Translation - भाषांतर कर्मारंभप्रतिबन्धकनिमित्तकानामनेकत्वेऽप्यावश्यकप्रतिबन्धकप्रतिप्रसवोक्ति सहितो रुद्रकल्पद्रुमाद्यनुसारी निर्णयसंग्रहः ॥न धार्मिककृत्येषु मुहूर्तादीनामीक्षणस्यावश्यकता ॥ नानध्यायकृतप्रतिबन्धः ॥ न कर्मारब्धे सत्याशौचसंपातज्ञातेऽपि मध्ये तस्य त्यागः ॥ इत्यादिविषये प्रमाणान्युपलभ्यन्ते ॥ स्वेष्टं समीक्षमाणेन केनापि विबुधेन “ मनुष्यशरीरस्य अस्थिरत्वात् किञ्चित्कालानन्तरं किं भविष्यतीत्यादिज्ञानस्याज्ञानाच्च श्वः श्वः करिष्यामि ” इति उपासनायां धार्मिकेषु कृत्येषु च कालान्तरप्रतीक्षा न कदापि कर्तव्येति मनुष्यस्य मुख्यो धर्मः, मनुष्याणां श्वःसंबन्धिज्ञानाभावात् न कोऽपि तद्वेत्तीति ज्ञानाच्च ॥ एवमायुषोऽस्थिरत्वं जीवनसंबन्धिज्ञानाभावञ्चैवं विचार्य परशुरामेणाप्युक्तम् ॥ “ यदैव जायते वित्तं चित्तं श्रद्धासमन्वितम् ॥ तदैव पुण्यकालोऽयं यतोऽनियतजीवितम् ॥ ” अतः सर्वेषु जपहोमादिकेष्वन्यसर्वधर्मकृत्येषु च न मुहूर्तावलोकनापेक्षा न तत्कालावध्यवस्थानं शरीरस्येति स्वतो दर्शनात् ॥ परञ्च सति संभवे तु सर्वं कर्म मुहूर्तादिकं दृष्ट्वैव कर्तव्यम् ॥ यत्तु - “ अल्पं जपेदनध्याये पर्वण्यल्पतरं जपेत् ॥ वेदॉंश्चैव तथा रुद्रान्स्वाध्याये केवलं जपेत् ॥ ” तथैव - “ इन्दोर्वृद्धिक्षये प्राप्ते ब्रह्मयज्ञं न कारयेत् ॥ न जपेद्वैदिकं जाप्यं गायत्र्यष्टोत्तरं शतम् ॥ ” इत्यादिपरशुरामप्रभृतिशिष्टवचनान्यनध्यायदिवसान् वर्जयित्वा स्वाध्याये एव विशिष्टजपपूजापराणि । तथैवानध्यायदिवसे तु अल्पाल्पतरं जपं वेदानध्ययनञ्चानुष्ठेयमिति चेन्न ॥ “ दशोत्तरोत्तरगुणः प्रकाशोपांशुमानसः ॥ जपो वेदोपनिषदां य उक्तः सर्वपापहा ॥ अनध्यायेऽप्ययं कार्य इत्याह भगवान् मनुः ॥ ” तथैव मनोर्द्वितीयं वचनम् ॥ “ वेदोपकरणे चैव जपे चैव तु नित्यके ॥ नानुरोधोऽस्त्यनध्याये होममंत्रेषु चैव हि ॥ ” ( अत्र वेदोपकरनशब्देन प्रतिवार्षिकं क्रियमाणं उपाकर्म ज्ञेयम् ॥ ) इति पूर्वोक्ताङ्गिरसवचनप्रामाण्यान्नित्यक्रियमाणस्य सहस्रप्रभृत्यष्टोत्तरशतगायत्रीमंत्रजपस्य सर्वथाऽनध्यायदिवसेऽपि अनुष्ठेयदर्शनात् ॥ “ अनध्यायेऽप्ययं कार्यः । जपे चैव तु नित्यके ॥ ” इत्यादिपूर्वोक्तेश्च ॥ परञ्चानध्यायवाचकानामष्टम्यादीनां नानध्यायवाचकत्वं किन्तु आत्मनोप देशस्य च यत्र अशुचित्वं तदेव द्वावनध्यायौ सर्वैर्ज्ञेयौ ॥ अतः सर्वत्र स्मृत्युक्ताः परशुरामेणोदाहृतश्चान्येऽप्यनध्यायाः स्वाध्याय विषया एव बोद्ध्याः ॥ परञ्च येन केनापि कादाचित्कमनियमतः श्रीमहारुद्रप्रभृतिजपहोमादिकं क्रियते चेत्तेन न कदाप्यनध्यायदिवसे तस्य प्रारम्भः स्वाध्यायो वा कार्य इत्येव निष्कर्षः ॥ अतस्तदर्थमेव मुहूर्तादिविधायकशास्त्रैरनध्यायदिवसे शुभे मुहूर्ते इत्यादिकं मुहूर्तप्रकरणे कथ्यते ॥ अपि च यैर्नियमेन जपहोमदेवार्चनादिधार्मिकं कर्म प्रत्यहं क्रियते तेषां तु आशौचप्रवृत्तेः प्राक् देवार्चनाद्युपक्रमे तदसमाप्तेर्मध्येऽपि आशौचेऽ न्यद्वारा ज्ञाते सति तत्तज्जपहोमदेवार्चनादिकं समाप्यैव आशौचनिमित्तं स्नानादिकं कर्तव्यम् न त्वाशौचसंपातदर्शनादसमाप्यैव जपहोमदेवार्चनादीनां त्यागो विधेयः ॥ तैस्तु आशौचादिज्ञातेऽपि आशौचमध्ये सर्वमासमाप्ति नियमेनानुष्ठीयमानं जप होमदेवार्चनादिकं विधेयमेव ॥ नात्र तेषामपवित्रता शास्त्रोक्तिविरोधश्च ॥ लघुविष्णुस्तु नित्यनैमित्तिकेषु जपविवाहयज्ञयागादिसर्वकर्मसु नाशौचसंपात इति कथयति ॥ यथा“ व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ॥ आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ प्रारंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः ॥ नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ ” यज्ञे ब्राह्मणादीनामामधुपर्कान्तं पूजनं वरणशब्देन ज्ञेयम् ॥ यथा - गृहीतमधुपर्कस्य यजमानाच्च ऋत्विज्ञः ॥ इति ॥ तथैव - ऋत्विजां दीक्षितानाञ्च यज्ञियं कर्म कुर्वताम् इत्यादियाज्ञवल्क्योक्तेश्च ॥ अतस्तत्र तत्र प्रारब्धकर्मणः स्वीयाद्यापदार्थावधारणमेव प्रारंभशब्देन ग्रहणीयम् ॥ यथा - विवाहे कन्यापितुः कन्याप्रदानसङ्कल्पः प्रारंभः ॥ वरस्य तदूर्द्ध्वं पाणिग्रहणहोमादिकं कर्म प्रारंभः ॥ श्राद्धकर्तुः श्राद्धार्थं पाकस्य निष्पत्तिक्रियारंभ एव प्रारंभः ॥ तथैव श्राद्धभोक्तुः भोजनार्थं लब्धनिमंत्रणं प्रारंभः ॥ इति पूर्वोक्ता सर्वव्यवस्था कालतत्त्वविवेचनकारादिभिरेव कृतेति ज्ञेया ॥ परञ्च स्वकृतधर्मप्रकाशे शंकरादयस्तु यदा आशौचज्ञानात्पूर्वं पाकनिष्पत्तिकृतसङ्कल्पतानिमंत्रणानां त्रयाणां समुच्चये जाते सत्येव श्राद्धे आशौचाभाव एवेति कथयन्ति ॥ एकेनापि न्यूने श्राद्धे सत्याशौचज्ञाते न कदापि श्राद्धं कर्तव्यम् ॥ तत्र आशौचाभावप्रतिषेधप्रतिपादकतत्तत्स्मृतिवचनेषु पाकनिष्पात्तिप्रभृतिनिमंत्रणान्तानां त्रयाणामेव समुच्चयेनोपादानात् ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP