संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः Translation - भाषांतर यजमानो वृतानां ब्राह्मणानां मधुपर्कार्चनार्थं स्वस्य दक्षिणभागे अर्च्यसङ्ख्याकानि युग्माविष्टरादीनि गन्धाक्षतपुष्पमालायुग्मोपवीतोष्णिषालङ्करणछत्रोपानत्कमण्डलुकांस्यपात्रप्रभृतिवरणद्रव्याणि स्थापयित्वा स्वयमुदङ्मुख एव प्राङ्मुखोपविष्टानां सर्वेषाम् आचार्याद्यृत्विजां मधुपर्कार्चनमाचरेत् ॥ तद्यथा । यजमानः आचमनं प्राणायामञ्च विधाय । हस्ते जलं गृहीत्वा । अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि वृतानाम् आचार्यादीनां सर्वेषाम् ऋत्विजां मधुपर्कार्चनं करिष्ये ॥ इति संकल्प्य ततः करसंपुटौ कृत्वा वदेत् ॥ साधु भवन्तः आसताम् । अर्चयिष्यामो भवतः । अर्चय इति विप्रा वदेयुः ॥ ततो यजमानः स्वहस्ते उदगग्रान् विष्टरान् गृह्णीयात् ॥ अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । विष्टराः विष्टराः ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विप्राः प्रतिब्रूयुः ॥ एवं यजमानेन दत्तं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा ॥ ॐ वर्ष्मोस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति । इति मंत्रान्ते स्वस्य स्वस्यासनस्याधोभागे उदगग्रं निधाय तस्योपरि उपविशेयुः ॥ ततः पूर्ववत् यजमानः स्वहस्ते सजलं पाद्यपात्रं गृहीत्वा तिष्ठेत् ॥ तथैवार्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । पादार्थमुदकानि पादार्थमुदकानि पादार्थमुदकानि ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विर्पाः प्रतिब्रूयुः ॥ तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तं पादार्थमुदकपूरितं पाद्यपात्रं स्वस्वहस्ताभ्यां गृहीत्वा । ॐ विराजोदोहोसि विराजोदोहमशीयमयि पाद्यायै विराजोदोहः ॥ इति मन्त्रेण स्वयमेव स्वकीयं स्वकीयं दक्षिणं पादं प्रक्षाल्य पुनर्मन्त्रावृत्त्या वामपादं प्रक्षालयेयुः ॥ ततः पूर्ववत् यजमानः उदगग्रं प्रागग्रं वा द्वितीयं विष्टरम् आदाय तिष्ठेत् ॥ तथैव अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । विष्टराः विष्टराः विष्टराः ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विप्राः प्रतिब्रूयः ॥ एवं यजमानेन दत्तं द्वितीयं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वस्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा । ॐ वर्ष्मोस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति । इति मन्त्रेण स्वस्वपादयोरधोभागे उदगग्रं निधाय तस्योपरि पादौ स्थापयेयुः ॥ ततः पूर्ववत् यजमानो गन्धाक्षतपुष्पादिसहितं सजलम् अर्घपात्रं स्वदक्षिणहस्ते आदाय तिष्ठेत् । ततः अर्च्यानां कश्चन विप्र आचार्यो वा ब्रूयात् ॥ अर्घाः अर्घाः अर्घाः ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ आचार्यदयः - ॐ आपस्थ युष्माभिः सर्वान्कामानवाप्नवानि । इति मन्त्रं पठन्तः ‘ प्रतिगृह्णीम ’ इति प्रतिब्रूयः ॥ एवम् आचार्यादयः सर्वे ऋत्विजः स्वस्वहस्ताभ्याम् अर्घपात्रम् गृहीत्वा तत्पात्रं स्वस्य मस्तकं नीत्वा शिरसाऽभिवन्द्य तदर्घपात्रं निनयन् ( नामयन् ) यजमानेन दत्तम् अर्घपात्रस्थं जलं, ॐ समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टाऽअस्माकं वीरा मा परासेचिमत्पयः । इति मन्त्रं पठन्तः स्वसमीपे स्थापिते पात्रान्तरे प्रक्षिपेयुः ॥ ततो यजमान एवमेव जलपूरितम् आचमनीयपात्रं स्वदक्षिणहस्ते गृहीत्वा तिष्ठेत् ॥ तथैव पूर्ववत् अर्च्यानां कश्चन विप्र आचार्यो वा ब्रूयात् । आचमनीयानि आचमनीयानि आचमनीयानि ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ प्रतिगृह्णीम इति विप्रा प्रतिब्रूयः ॥ तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तम् आचमनीयपात्रं स्वदक्षिणहस्ते आदाय वामहस्ते गृहीत्वा तत्पात्राद्दक्षिणहस्ते जलम् आदाय । ॐ आमागन्यशसा सxसृजवर्चसा ॥ तम्मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिन्तनूनाम् ॥ इति मन्त्रेण स्वदक्षिणहस्तस्थं तज्जलं पीत्वा पुनस्तूष्णीं द्विवारं जलं पात्राद्दक्षिणहस्ते गृहीत्वा पिबेयुः ॥ अथ मधुपर्कः ॥ एकस्मिन् कांस्यपात्रे दधिमधुघृतानि एकीकृत्य तत्पात्रम् अन्येन पात्रेण पिधाय तन्मधुपर्कपात्रं यजमानः स्वदक्षिणहस्ते आदाय तिष्ठेत् ॥ पूर्ववत् अर्च्यानां कश्चिद्विप्र आचार्यो वा ब्रूयात् । मधुपर्काः मधुपर्काः मधुपर्काः ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ ततो यजमानहस्तस्थं तन्मधुपर्कपात्रः, ॐ मित्रस्य त्वा चक्षुषा प्रतीक्षे । इति मंत्रेण आचार्यादयः सर्वे ऋत्विजः प्रतीक्षन्तः । ॐ देवस्य त्त्वा सवितुx प्रसवेश्श्विनोर्ब्बाहुब्भ्याम्पूष्ण्णो हस्ताब्भ्याम् ॥२२/५॥ इति मन्त्रेण ‘ प्रतिगृह्णीमः ’ । इति प्रत्युक्त्वा मधुपर्कपात्रं स्वस्वदक्षिणहस्ते गृह्णीयुः ॥ ततः सव्ये ( वामे ) पाणौ कृत्वा मधुपर्कपात्रस्योपरि आच्छादितं पात्रम् अपाकृत्य मधुपर्कं, स्वस्वदक्षिणहस्तस्य अनामिकया ॐ नमः श्यावास्यायान्नशने यत्तऽआविद्ध तत्ते निष्क्रुन्तामि ॥ इति मन्त्रेण प्रदक्षिणमालोड्य किञ्चिन्मधुपर्कं तूष्णीमनामिकया प्रागुदग्वा बहिः प्रक्षिपेयुः ॥ एवं पुनः द्विवारम् - ॐ नमः श्यावासायान्निति मंत्रं पठित्वा प्रदक्षिणमालोड्ये अनामिकया बहिः प्रक्षिपेयुः ॥ ततो मधुपर्कप्राशनम् ॥ तत आचार्यादयः सर्वे ऋत्विजः स्वस्वदक्षिणहस्तस्यानामिकाङ्गुष्ठेन मधुपर्कं गृहीत्वा । ॐ यन्मधुनो मधव्यं परमxरूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादिसानि ॥ इति मंत्रेण किंचित् प्राशयेयुः ॥ एवं पुनर्द्विवारं स्वस्वदक्षिणहस्तानामिकांगुष्ठेन मधुपर्कं गृहीत्वा ॐ यन्मधुनो मधव्यम्० इति मन्त्रेण किञ्चित् प्राशयेयुः ॥ ( अवशिष्टं प्रागसंचरे निनयेयुः पुत्राय शिष्याय वा दद्यात् सर्वं वा प्राश्नीया ॥ ) तत आचमनम् ॥ ततः सर्वे आचार्यादय ऋत्विजो मधुपर्कप्राशननन्तरम् आचमनं कुर्युः ॥ स्वदक्षिणहस्ते जलं गृहीत्वा । ॐ आमागन्यशसा सxसृजव्वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टं तनूनाम् ॥ आनेन मंत्रेण सकृदाचमनं विधाय पुनर्द्विवारं तूष्णीम् आचामेयुः ॥ एवमाचमनं विधाय तत आचार्यादयः सर्वे ऋत्विजो वामहस्ते जलं गृहीत्वा दक्षिणहस्तेन प्राआण्न्संस्पृशेयुः ॥ ॐ वाङ्मsआस्येस्तु ( इति दक्षिणहस्तांगुलिभिः आस्यं स्पृशेयुः ) ॥ ॐ नसोर्मे प्राणोस्तु ( इति दक्षिणहस्तस्य तर्जन्यङ्गुष्ठेन नासापुटौ स्पृशेयुः ) ॐ अक्ष्णोर्मे चक्षुरस्तु ( इति दक्षिणहस्तस्य मध्यमाङ्गुष्ठेन युगपच्चक्षुषी स्पऋशेयुः ) ॐ कर्णयोर्मे श्रोत्रमस्तु ( इति दक्षिणहस्तस्य अनामिकाङ्गुष्ठेन दक्षिणवामकर्णौ स्पृशेयुः ) ॥ ॐ बाह्वोर्मे बलमस्तु ( इति दक्षिणहस्तस्य कराग्रेण दक्षिणबाहुं वामबाहुं च स्पृशेयः ) ॥ ॐ ऊर्वोर्मेऽओजोस्तु ( इति दक्षिणहस्तस्य कराग्रेण दक्षिणवामोरू स्पृशेयुः ॥ ॐ अरिष्टानि मेङ्गानि तनूस्तन्वा मे सह सन्तु, इति ( शिःप्रभृतिपादान्तान्यङ्गानि उभाभ्यां हस्ताभ्यां स्पृशेयुः ॥ ) ततो मधुपर्काङ्गगोरुत्सर्जनं कुर्यात् ॥ यजमानोऽर्च्यसङ्ख्याकं गोनिष्क्रयद्रव्यं गृहीत्वा ब्रूयात् । गौर्गौर्गौः । तत आचार्यादयः - माता रुद्राणां दुहिता वसूनाxस्वसादित्यनाममृतस्य नाभिः ॥ प्रनुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ठ । इति मन्त्रं पठित्वा । अस्माकम् अमुकशर्मणाम् अस्य यजमानस्य च पाप्मा हतः । इति तूष्णीमुक्त्वा ‘ उत्सृजत तृणान्यत्तु ’ इत्युच्चैर्ब्रूयात् ॥ ततो यजमानो गोनिष्क्रयद्रव्यम् उत्सृजेत् ॥ तद्द्रव्यम् आचार्यादय ऋत्विजो विभज्य विभज्य गृह्णीयुः । अथवा आचार्य एव गृह्णीयात् ॥॥ इति आचार्यादीनां मधुपर्कार्चनप्रयोगः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP