संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ गायत्रीमन्त्रनित्यजपविधिः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ गायत्रीमन्त्रनित्यजपविधिः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ गायत्रीमन्त्रनित्यजपविधिः Translation - भाषांतर आचार्यः पूर्वोक्तरीत्यासर्वान्ब्राह्मणान्भूतशुद्ध्यादिमहान्यासान्कारयित्वा भगवत्याः श्रीगायत्रीदेव्याश्च पूजनमपि यजमानद्वारा निर्वर्त्य पूर्वं वा पङ्क्याकारेण कुशकम्बलाद्यन्यतमास्तृते काष्ठपट्टे जपार्थं वृत्तान्ब्राह्मणानुपवेश्य जपसङ्कल्पं भगवत्याः श्रीगायत्रीदेव्याः शापमोचनं चतुर्विंशतिमुद्राणां प्रदर्शनादिकञ्च कर्तुं सर्वान् ब्राह्मणान् मूलमंत्रेण आचमनं प्राणायामञ्च कारयेत् ॥ तद्यथा ॥ ॐ भूर्भुवः स्वः तत्स० ॐ आत्मतत्त्वं शोधयामि नमः स्वाहा ॥१॥ॐ भूर्भुवः स्वः तत्स० ॐ विद्यातत्त्वं शोधयामि नमः स्वाहा ॥२॥ॐ भूर्भुवः स्वः तत्स० ॐ शिवतत्त्वं शोधयामि नमः स्वाहा ॥३॥इति त्रिराचमनं कारयित्वा सशिरस्कसप्तव्याहृतिसहितेन मूलमंत्रेण प्राणायामं कारयेत् । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ त्पः ॐ सत्यं ॐ तत्सवि० ॐ आपो ज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ एवं यथाशक्ति नव त्रीन् वा प्राणायामं विधाय ब्राह्मणा हस्ते जलं गृहीत्वा जपसंख्यासङ्कल्पं कुर्युः । तद्यथा । देशकालौ सङ्कीर्त्य अस्मद्यजमानस्य मनःकामनापरिपूर्णार्थं स्वात्मनः श्रेयोऽर्थञ्च तेन प्रारब्धस्य श्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं कृतसङ्कल्पमध्यात् पृथक् अमुकसहस्रसंख्याकं जपं करिष्यामहे । इति सङ्कल्पं विधाय गायत्रीशापविमोचनं कुर्यात् ॥ अस्य ( १ ) श्रीब्रह्मशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । गायत्रीच्छन्दः । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसा वाचामग्रतः । ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥ ॐ देवि गायत्रि त्वं ब्रह्मशापविमुक्ता भव ॥ पुनर्हस्ते जलं गृहीत्वा । अस्य ( २ ) श्रीविश्वामित्रशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता विश्वामित्र ऋषिः । विश्वामित्रानुगृहीता गायत्रीशक्तिर्देवता । बाग्देहा गायत्रीच्छन्दः । विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवा देवाश्चक्रिरे विश्वसृष्टिम् । तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतोऽखिलवेदगर्भः । ॐ देवि गायत्रि त्वं विश्वामित्रशापविमुक्ता भव ॥ अस्य ( ३ ) श्रीवसिष्ठपविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता श्रीवसिष्ठऋषिः । शक्तिर्देवता । गायत्रीछन्दः । श्रीवसिष्ठशापविमोचनार्थे जपे विनियोगः । सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतीरसोऽस्म्यहम् ॥ योनिमुद्रां प्रदर्श्य गायत्रीमन्त्रं पठित्वा । ॐ देवि गायत्रि त्वं वसिष्ठशापविमुक्ता भव ॥ एवं शापविमोचनं कृत्वा चतुर्विंशतिमुद्राः प्रदर्शयेत् ( प्रु. २२८-९ ) ॥ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥१॥षण्मुखाधोमुखं चैव व्यापकञ्जलिकं तथा । शकटं यमपाशञ्च ग्रथितं चोन्मुखोन्मुखम् ॥२॥प्रलम्बं मुष्टिकञ्चैव मत्स्यः कूर्मो वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥३॥एताश्चतुर्विंशतिमुद्राः प्रदर्श्य रुद्राक्षमालां मूलमन्त्रेण संप्रोक्ष्य । ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । इति सम्प्रार्थ्य । “ ॐ ह्रीं सिद्ध्यै नमः ” इति मालां सम्पूज्य भगवत्याः श्रीगायत्रीदेव्या ध्यानं कुर्यात् ॥ ॐ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥१॥अथ प्रातर्मध्याह्नसायंकालिकादिध्यानम् ॥ ब्रह्माणी चतुराननाऽक्षवलया कुम्भस्तनी स्रुक्स्रुवौ बिभ्राणाऽरुणकान्तिरिन्दुवदना ऋग्रुपिणी बालिका । हंसारोहणकेलिरम्बरमणोर्बिम्बाश्रिता भूतिदा गायत्री हृदि भाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥१॥रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा खट्वाङ्गत्रिशिखाक्षसूत्रवलया ध्येया यजूरूपिणी ॥ विद्युद्दामजटाकलापविलसब्दालेन्दुमौलिर्मुदासावित्री वृषवाहना शिततनूर्भूत्यै श्रियै चास्तु नः ॥२॥ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता श्यामातन्विजयादिभिः परिलसद्गात्राञ्चिता वैष्णवी ॥ तार्क्ष्यस्था मणिनूपुरङ्गदशतग्रैवेयभूषोज्ज्वला हस्तालम्बितशङ्खचक्रसुगदा भूत्यै श्रियै चास्तु नः ॥३॥इति ध्वात्वा मानसोपचारैः पूजयेत् ॥ तद्यथा । “ भगवत्यै श्रीगायत्रीदेव्यै नमः । ” लं पृथिव्यात्मकं गन्धं परि० । हं आकाशात्मकं पुष्पं परि० । यं वाय्वात्मकं धूपं परि० । रं वह्न्यात्मकं दीपं परि० । वं अमृतात्मकं नैवेद्यं परि० । सं सोमात्मकं ताम्बूलं परि० । छत्रचामरमुकुरमुकुटपादुकाः परि० ॥ एवं मानसोपचारैः संपूज्य । ततः सर्वे ब्राह्मणा मूलमंत्रस्यार्थं यजमानस्य कल्याणञ्च चिन्तयन्तः श्रीगाय्त्रीजपं कुर्युः ॥ ततो जपान्ते मालाः शिरसि निधाय भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रस्य न्यासान् कर्युः । तद्यथा ॥ हस्ते जलं गृहीत्वा । ॐ तत्सवितुरित्यस्या गायत्र्या विश्वामित्र ऋषिः । सविता देवता । गायत्रीच्छन्दः । अग्निर्मुखम् । ब्रह्मा शिरः । विष्णुर्हृदयम् । रुद्रो ललाटम् । पृथ्वि योनिः । त्रैलोक्यं चरणौ । वरेणीति बीजम् । यम् इति शक्तिः । यात् इति कीलकम् । सकलपापक्षयार्थे न्यासे विनियोगः । श्रीविश्वामित्रर्षये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे । सवित्रुदेवतायै नमः हृदये ॥ विनियोगाय नमः सर्वाङ्गे ॥ अथ करादिन्यासाः । ॐ तत्सवितुर्ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः । ॐ वरेणियं विष्ण्वात्मने तर्जनीभ्यां नमः । ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः । ॐ धीमहि ईश्वरात्मनेऽनामिकाभ्यां नमः । ॐ धियो यो नः सदाशिवात्मने कनिष्ठिकाभ्यां नमः । प्रचोदयात्सत्यात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि ॥ ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ॐ वरेणीयं विष्ण्वात्मने शिरसे स्वाहा । ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । ॐ धीमहि ईश्वरात्मने कवचाय हुम् । ॐ धियो यो नः सदाशिवत्मने नेत्रत्रयाय वौषट् । ॐ प्रचोदयात् सत्यात्मने अस्त्राय फट् ॥ ततः सव्याहृतिगायत्रीन्यासान् कुर्यात् । ॐ भूः अङ्गुष्ठाभ्यां नमः । ॐ भुवः तर्जनीभ्यां नमः । ॐ स्वः मध्यमाभ्यां नमः । ॐ तत्सवितुर्वरेण्यम् अनामिकाभ्यां नमः । ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः । ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः । ततो हृदयादि ॥ ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्वरेण्यं कवचाय हुम् । ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् । ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् । ततः करसम्पुटौ कृत्वा प्रार्थयेत् ॥ ॐ मुक्ताविद्गुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ एवं सम्प्रार्थ्य अष्टौ मुद्राः ( पृ. २३० ) प्रदर्शयेत् । सुरभिर्ज्ञानवैराग्ये योनिः कूर्मोऽथ पङ्कजम् । लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ॥१॥इत्यष्टौ मुद्राः प्रदर्श्य । सर्वे ब्राह्मणाः हस्ते जलं गृहीत्वा । अस्माभिः यथाशक्ति सङ्कल्पानुसारं कृतेन जपकर्मणा भगवती श्रीगायत्रीदेवी प्रीयतां न मम । इत्युक्त्वा तज्जलं “ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ ” इति देव्यै निवेद्य प्रार्थयेत् ॥ हीनो विभक्तिवर्णैश्च व्यञ्जनैश्च स्वरैरपि । जपो मे क्षम्यतां देवि प्रसादं कुरु किङ्करे ॥ इति प्रार्थयेयुः ॥॥ इति श्रीगायत्रीमन्त्रनित्यजपविधिः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP