संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीचाक्षुषोपनिषद्

श्रीचाक्षुषोपनिषद्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथातश्चाक्षुषीं पठितां सिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः । यच्चक्षूरोगाः सर्वतो नश्यन्ति चाक्षुषी दीप्तिर्भविष्यति इति ॥१॥
तस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिः गायत्री छन्दः सूर्यो देवता चक्षूरोगनिवृत्तये जपे विनियोगः ॥२॥
ॐ चक्षुः चक्षुः चक्षुस्तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाऽअहमन्धो न स्याम् तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुष्प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ॥३॥
ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय । ॐ अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ॥४॥
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ॥५॥
य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्यं पुरुषं ज्योतीरूपं तपन्तम् ॥ विश्वस्य योनिं प्रतपन्तमुग्रं पुरः प्रजानामुदत्येष सूर्यः ॥७॥
ॐ नमो भगवते आदित्याय अहोवाहिने अहोवाहिने स्वाहा ॥८॥
ॐ वयः सुपर्णाऽ उपसेदुरिन्द्रं प्रियमेधाऽ ऋषयो नाधमानाः । अपध्वान्तमूर्णूहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥९॥
पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः । महाविष्णवे नमः ॥ इति ॥१०॥
॥ इति श्रीचाक्षुषोपनिषद् समाप्ता ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP