संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रेयःसंपादनादिकम् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रेयःसंपादनादिकम् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रेयःसंपादनादिकम् Translation - भाषांतर तत आचार्यः ऋत्विग्भिः सह सपत्नीकाय यजमानाय श्रेयोदानं कुर्यात् ॥ आचार्यः उदङ्मुखो भूत्वा वृतैः सर्वब्राह्मणैः सह यजमानहस्ते ‘ ॐ शिवा आपः सन्तु ’ इति जलं दद्यात् । ‘ ॐ सोमनस्यमस्तु ’ इति पुष्पाणि दद्यात् । ‘ ॐ गन्धाः पान्तु ’ इति गन्धं दद्यात् । ‘ ॐ अक्षताः पान्तु ’ इत्यक्षतान् दद्यात् । तत आचारात् “ यत्पापं रोगमशुभम् अकल्याणं तद्दूरे प्रतिहतमस्तु ” इति पठन् यजमानहस्तस्योपरि जलं भ्रामयित्वा त्रिवारम् अधः क्षिपेत् ॥ तत आचार्यः स्वकीयहस्ते गन्धाक्षतपुष्पफलसहितं जलं ग्रुहीत्वा वदेत् । “ भवन्नियोगेन मया अस्मिन् सप्रणवव्याहृतिसहितस्य चतुर्विशतिवराण्त्मकगायत्रीमन्त्रस्य ब्राह्मणद्वारा कृतस्य अमुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थं तदशांशेन प्रारब्धे सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणि यत्कृतम् आचार्यत्वं तथा च एभिर्ब्राह्मणैः सह यत्कृतं ब्रह्मत्वं गाणपत्यं सादस्यं तथा च यः कृतो जपः यः कृतो होमो यत्कृतं तर्पणं मार्जनं ब्राह्मणभोजनञ्च इत्येवत्कर्मभ्यः यदुत्पन्नं श्रेयः तत्तुभ्यमहं सम्प्रददे । तेन श्रेयसा त्वं श्रेयसी भव ॥ ” इति वदन्यजमानहस्ते जलसहितं फलं दद्यात् । सजलं फलं गृहीत्वा ‘ भवामि ’ इति यजमानो वदेत् । यजमानस्तत्फलं देव्यै समर्पयेत् पत्न्यै वा दद्यात् ॥ ततो यजमानो वरणक्रमेणाचार्यप्रभृतिभ्य ऋत्विग्भ्यो दक्षिणाप्रदानं कुर्यात् ॥ तत्रादौ सङ्कल्पमाचरेत् । देशकालौ सङ्कीर्त्य मया आचरितस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं वृतेभ्य आचार्यादिसमस्तर्त्विग्भ्यः यथाशक्ति दक्षिणाप्रदानं करिष्ये । इति सङ्कल्प्य दक्षिणां दद्यात् ॥ तत्रादौ गोप्रदानम् । सङ्कल्पं कृत्वा तच्च गोनिष्क्रयद्रव्यं आचार्याय दद्यात् ॥ तत्रादौ गोप्रदानम् । सङ्कल्पं कृत्वा तच्च गोनिष्क्रयद्रव्यं आचार्याय दद्यात् ॥ यथा - तद्द्रव्यं गृहीत्वा । मया कृतस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् इमां गोनिष्क्रयीभूतां दक्षिणां तुभ्यमहं सम्प्रददे इति आचार्याय दद्यात् ॥ आचार्यः ‘ ॐ देवस्यत्वा० ’ इति गृह्णीयात् । ‘ ॐ स्वस्ति ’ इति च वदेत् ॥ तत आचार्याय दक्षिणादानम् । गन्धाक्षतपुष्पैराचार्यं सम्पूज्य । यथाशक्ति वस्त्रकुण्डलकंकणमुद्रिकादिसहितां सुवर्णदक्षिणां रजतद्रव्यं वा गृहीत्वा । मया कृतस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् इमां यथाशक्ति वस्त्रोपवस्त्रादिसहितां सुवर्णदक्षिणां रजतद्रव्यं वा तुभ्यमहं सम्प्रददे ॥ इति वदन् आचार्याय दक्षिणां दद्यात् । एवं ब्रह्मणे गणपतये सदसस्पतये ऋत्विग्भ्य द्वारपालादिसर्वेभ्यो ब्राह्मणेभ्यो वरणक्रमेण दक्षिणां दद्यात् । ततः सदक्षिणाकं सुवर्णदानं भूमिदान तिळदानञ्च दद्यात् । हस्ते जलमादाय - इदं सुवर्णदानम् अग्निदैवतम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं सम्प्रददे ॥ भूमिदानम् ॥ इमां भूमिं वा तन्निष्क्रयद्रव्यम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं सम्प्रददे ॥ तिळपात्रदानम् ॥ इदं तिळपात्रं तिलपूरितं प्रजा पतिदैवतम् अमुकशर्मणे ब्राह्मआण्य तुभ्यमहं सम्प्रददे ॥ दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं संप्रददे ॥ इति श्रेयःसंपादनादिकम् ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP