संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ अवभृथस्नानविधिः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ अवभृथस्नानविधिः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ अवभृथस्नानविधिः Translation - भाषांतर यजमानस्य तीर्थे गत्वा अवभृथस्नानं कर्तुम् इच्छा चेत् प्रधानदेवताकलशं गायत्रीयन्त्रं कुण्डाद् भस्म मृद्घटम् पूजार्थं पूजासामग्रीं तीर्थजले होमार्थं स्रुवं चणकॉंश्च गृहीत्वा आचार्यादिसमस्तर्त्विग्भिः परिवृतः स्वकीयस्त्रीपुत्रपौत्रादिपरिवारजनैः सह मङ्गलवाद्यघोषपुरःसरं यजमानो जलाशयं गच्छेत् ॥ ततोऽर्धमार्गे गत्वा क्षेत्रपालाय बलिदानं दद्यात् ॥ ततस्तीर्थसमीपमागत्य तीर्थजलेन तत्समीपवर्तिनीं भूमिं “ ॐ आपौहिष्ठेति ” त्रिभिर्मन्त्रैः सम्प्रोक्ष्य सपत्नीकः स्वयं तीर्थाभिमुखः उदङ्मुखः पूर्वाभिमुखो वा तिष्ठेत् ॥ तत आचमनं प्राणायामञ्च कृत्वा हस्ते जलं गृहीत्वा । मया कृतस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः संपूर्णफलाप्राप्त्यर्थं पुत्रपौत्रादिपरिवारजनैः ज्ञातिपौरवासिभिश्च परिवृतः अस्मिन्तीर्थे अवभृतस्नानमहं करिष्ये । इति सङ्कल्पं कुर्यात् । तत आचार्यो यथावकाशं गणपतिपूजनं स्वस्तिपुण्यावाहवाचनञ्च कारयेत् । ततः स्वसमीपे विरचितस्याष्टदळस्य मध्ये एकं कलशं निधाय तस्य पुण्याहवाचनोक्तविधिना स्थापनं कुर्यात् । ततो यजमानस्तत्र कलशे “ ॐ तत्त्वायामि ” इति मंत्रेण च वरुणमावाह्य “ मनोजूति ” रिति प्रतिष्ठाप्य प्रार्थयेत् ॥ जलाधिप समागच्छ परिवारसमन्वितः । अस्मिन्कुम्भे करिष्यामि यावत्पूजां स्थिरो भव ॥ इति सम्प्रार्थ्य । सर्वोपचारार्थे गन्धाक्षतपुष्पैश्च सम्पूज्य तत्राश्टदलस्य पूर्वादितः क्रमेण ॥ ॐ मत्स्यै नमः मत्सीम् आ० स्था० ॥१॥कूर्म्यै नमः कूर्मीम् आ० स्था० ॥२॥ॐ वाराह्यै नमः वाराहीम् आ० स्था० ॥३॥ॐ माण्डूक्यै नमः माण्डूकीम् आ० स्था० ॥४॥ॐ मकर्यै नमः मकरीम् आ० स्था० ॥५॥ॐ ग्राहक्यै नमः ग्राहकीम् आ० स्था० ॥६॥ॐ क्रौञ्चिक्यै नमः क्रोञ्चिकीम् आ० स्था० ॥७॥एवं जलमातॄः अक्षतैः संस्थाप्य ॥ “ ॐ “ मनोजूतिरि ” ति प्रतिष्ठाप्य च ताः “ ॐ मत्स्यदिमातृभ्यो नमः ” इति यथालब्धोपचारैः आवाहनादिषोडशोपचारान्तं पूजयेत् ॥ ततो यजमानो जलाशयं गत्वा तीर्थमपि “ ॐ तत्त्वायामि ” इति मंत्रेण आवाहनादिषोडशोपचारैः सम्पूज्य तस्मिन्स्थितानां मत्स्यादिजीवानां संतोषार्थं तत्र चणकादींश्च निक्षिप्य तीर्तस्थितानां गङ्गादिदेवतानां प्रीतये च पुरुषसूक्तेन दुग्धेनाभिषेकं कुर्यात् ॥ ततस्तीर्थजले आज्यस्य स्रुवेण द्वादशाहुतीर्दद्यात् ॥ ॐ अद्भ्यः स्वाहा । इदमद्भ्यो न मम ॥१॥ॐ वार्भ्यः स्वाहा । इदं वार्भ्यो न मम ॥२॥ॐ उदकाय स्वाहा । इदम् उदकाय न मम ॥३॥ॐ तिष्ठन्तीभ्यः स्वाहा । इदं तिष्ठन्तीभ्यो न मम ॥४॥ॐ स्रवन्तीभ्यः स्वाहा । इदं स्रवन्तीभ्यो न मम ॥५॥ॐ स्यन्दमानाभ्यः स्वाहा । इदं स्यन्दमानाभ्यो न मम ॥६॥ॐ कूप्याभ्यः स्वाहा । इदं कूप्याभ्यो न मम ॥७॥ॐ मूद्याभ्यः स्वाहा । ॐ अर्णवाय स्वाहा । इदम् अर्णवाय न मम ॥१०॥ॐ समुद्राय स्वाहा । इदं समुद्राय्न मम ॥११॥ॐ सरिराय स्वाता । इदं सरिराय न मम ॥१२॥एवं द्वादशाहुतीर्दत्वा सपत्नीको यजमाअस्विन् तीर्थजले श्रीगायत्रीयह्तं “ श्री गायत्रीयन्त्राधिष्ठितदेवताभ्यो नमः ” इति गन्धाक्षतपुष्पैः संपूज्य ततः तं हस्ते गृहीत्वा निमज्जेत् ॥ ततः उन्मज्य प्रधानकळशं गृहीत्वा प्रधानकलशादर्धं जलं तीर्थे निक्षिप्यार्घजलसमन्वितं कलशं तीर्थकलेन सम्पूर्य कुण्डादानीतं भस्मापि तस्मिन्तीर्थे निक्षिप्य तस्मात्किञ्चितं कलशं तीर्थजलेन सम्पूर्य कुण्डादानीतं भस्मापि तस्मिन्तीर्थे निक्षिप्य तस्मात्किञ्चित् आदाय स्वकीये शरीर ‘ ॐ प्रसद्येति ’ मंत्रं पठन् अनुलिम्पेत् ॥ ततः आचार्यादिसमस्तऋत्विग्भिः पुत्रपौत्रादिपरिवारजनैः ज्ञातिभिः पौरवासिभिश्च सह तस्मिन्तीर्थे स्नायात् । ॐ अवभृथनिचुम्पुणनिचेरुसिनिचुम्पुणx ॥ अवदेवैर्द्देवकृतमेनोयासिषमवमर्त्त्यैर्म्मर्त्यकृतम्पुरुराव्ण्णोदेवरिषस्प्पाहिदेवानाxसमिदसि ॥२७/८॥ एवं स्नात्वा तदनन्तरं ‘ ॐ आकृष्णेन ’ इति मंत्रेण सूर्यं नमस्कृत्य ॥ ‘ ॐ वर्णस्योत्तम्भनमसि० ’ इति मंत्रेण तीर्थमपि नमस्कृत्य । तीर्थाद्बहिरागत्य नवानि वस्त्राणि धृत्वा स्नाने धृत्वानि निष्कास्य यथाशक्ति तीर्थतटे स्थितान् ब्राह्मणान् आचार्यादिसमस्तत्विजश्च दक्षिणादानेन संतोष्य सजलं प्रधानकलशं यन्त्रम् अवशिष्टं भस्म घटसहितमादाय मंगलवाद्यघोषपुरःसरं यज्ञमंडपागत्य प्रधानपीठे प्रधानकलशं यन्त्रञ्च संस्थाप्य आनीतं भस्म पुनः कुण्डे प्रक्षिप्य घृतपात्रदानं देवताविसर्जनाद्यवशिष्टं कर्म समापयेत् ॥ ॥ इति अवभृथस्नानविधिः ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP