संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः Translation - भाषांतर ततः शक्तिमतायजमानेन प्रत्यक्षगोदानं कर्तुमशक्तेन तन्निष्क्रयद्रव्यं वा देयम् ॥ तद्यथा । देशकालौ संकीर्त्य करिष्यमाणगायत्रीपुरश्चरणाधिकारार्थं प्रायश्चित्तपूर्वांगतया विहितं यथाशक्ति गोनिष्क्रयीभूतद्रव्यदानमहं करिष्ये ॥ इति संकल्प्य ब्राह्मणं संपूज्य देयद्रव्यं गृहीत्वा देशकालौ संकीर्त्य प्रायश्चित्तस्य पूर्वाङ्गतया विहितामिदं गोनिष्क्रयीभूतं यथाशक्ति रजतद्रव्यम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे इति दद्यात् ॥ नात्र दक्षिणा इति प्रायश्चित्तधेनुमूल्यदानम् ॥अथ प्रायश्चित्तहोमः ॥ तत्रादौ शुद्धमृदा चतुरस्रं स्थंडिलं कृत्वा देशकालौ संकीर्त्य अद्य प्रायश्चित्तस्य पूर्वाङ्गतया विहितमाज्येन पंचगव्येन च प्रायचित्तहवनं करिष्ये ॥ पुनर्जलं गृहीत्वा । तदङ्गतया पञ्चभूसंस्कारपूर्वकं ब्राह्मणद्वारा अग्निस्थापनं करिष्ये । इति संकल्प्य पंचभूसंस्कारपूर्वकमग्निं प्रतिष्ठापयेत् ॥ तद्यथा । दर्भैः परिसमूह्य ॥३॥गोमयोदकेन उपलिप्य ॥३॥अनामिकांगुष्ठेन उद्धृत्य ॥३॥उदकेनाभ्युक्ष्य ॥३॥अग्निमुपसमाधाय । आनीतमग्निमाग्नेय्यां दिशि निधाय । हुं फट् इति क्रव्यादांशं नैरृत्यां दिशि परित्यज्य । अग्निं त्रिर्भ्रामयित्वा आत्माभिमुखं स्थापयेत् ॥ ततः अग्न्यानीतपात्रे साक्षतोदकं क्षिप्त्वा अग्निमुखं कृत्वा ध्यायेत् ॥ ॐ चत्त्वारि श्रृंगा त्त्रयो० ॥९१/१७॥ ततो हस्ते गन्धाक्षतपुष्पाण्यादाय प्रायश्चित्ते विट्नामाग्नये नमः गन्धाक्षतपुष्पाणि समर्पयामि । इति संपूज्य । वैकल्पिकपदार्थावधारणं कुर्यात् ॥ हस्ते जलं गृहीत्वा । देशकालौ संकीर्त्य करिष्यमाणप्रायश्चित्तपूर्वांगहोमकर्मणि वैकल्पिकपदार्थावधारणं करिष्ये । इति संकल्प्य वैकल्पिकपदार्थावधारणं कुर्यात् । तद्यथा । पूर्वेण ब्रह्मणो गमनम् ॥ उत्तरे प्रणीताप्रणयम् ॥ अग्नेः पश्चिमतः पात्रासादनम् ॥ त्रीणि पवित्राणि ॥ पवित्रे द्वे ॥ प्रोक्षणीपात्रम् ॥ ताम्रमयी आज्यस्थाली । पालश्यः समिधः ॥ पाञ्चावाघारौ ॥ समिद्धतमे आज्यभागौ ॥ सदक्षिणं पूर्णपात्रम् । एतान् वैकल्पिकपदार्थानस्मिन्कर्मण्यहं करिष्ये ॥ ततः समिद्वृयं गृहीत्वा देवताभिध्यानं कुर्यात् ॥ प्रजापतिम् इन्द्रम् अग्निं सोमम् एकैकयाssज्याहुत्या, प्रायश्चित्तार्थम् अत्र प्रधानम् अग्निं वायुं सूर्यं प्रजापतिं प्रत्येकं व्यस्तसमस्तव्याहृत्या अष्टाविंशतिसंख्याया, पुनरत्र प्रधानं पृथ्वीं विष्णुं रुद्रं ब्रह्माणमग्निं सोमं सवितारं प्रजापतिं परमात्मानम् अग्निं स्विष्टकृतम् एता ब्रह्मकूर्चदेवता ब्रह्मकूर्चेन मिलितपंचगव्यैः एकैकयाssहुत्या, अग्निं वायुं सूर्यम् अग्नीवरुणौ अग्नीवरुणौ अग्निं वरुणं सवितारं विष्णुं विश्वान् देवान् मरुतः स्वर्कान् वरुणम् आदित्यम् अदितिं प्रजापतिम् एता अङ्गप्रधानार्था देवता एकैकयाssज्याहुत्या अस्मिन्कर्मण्यहं यक्ष्ये इति समिद्वृयं अग्नावादध्यात् ॥ अथ कुशकण्डिका ॥ अग्नेर्दक्षिणतो ब्रह्मासनमास्तीर्य वायव्यकोणे प्राङ्मुखं ब्रह्माणमुपवेश्योदङ्मुखो यजमानो “ sस्मिन्कर्मणि त्वं ब्रह्मा भवे ”ति ब्रह्माणं वृणुयात् ॥ ततो “ भवामी ”ति ब्रह्मा वदेत् ॥ पश्चात्पूर्वेण दक्षिणदिशि ब्रह्मणः स्वासने गमनम् ॥ तत्र स्वासनात्किञ्चित्तृणं दक्षिणस्यां दिशि निरस्य तत्र स्वासने ब्रह्मोपविशेत् ॥ ततः प्रणीताप्रणयनार्थमग्नेरुत्तरदिशि वायव्यकोणे चेत्यासनद्वयं निधाय ब्रह्मानुज्ञात उत्तरे प्रणीताप्रणयनं कुर्यात् ॥ ब्रह्माणमवलोकयन् “ भो ब्रह्मन् ! अपः प्रणेष्यामि । ” “ ॐ प्रणय । ” इति ब्रह्मणाऽनुज्ञातः प्रणीतापात्रं वामहस्ते धृत्वा तत्र दक्षिणहस्तेन जलं प्रपूर्य तत्पात्रं वायव्यकोणे स्थापिते पूर्वासने निधाय दक्षिणकरस्यानामिकयाssलभ्याग्नेरुत्तमभागे स्थापिते द्वितीयासने निदध्यात् ॥ ततः स्थंडिलस्य प्राक् उदगग्रं दक्षिणदिशि प्रागग्रं पश्चिमदिशि उदगग्रम् उत्तरदिशि प्रागग्रम् इति प्रत्येकं त्रिभिस्त्रिभिर्दर्भैः परिस्तरणं कृत्वा पात्रासादनं कुर्यात् ॥ यथा । पवित्रच्छेदनार्थं त्रयो दर्भाः ॥ पवित्रे द्वे ॥ प्रोक्षणीपात्रम् ॥ आज्यस्थाली । सम्मार्गकुशाः पञ्च ॥ उपयमनकुशाः सप्त ॥ समिघस्तिस्रः ॥ स्रुवः ॥ आज्यम् पूर्णपात्रं दक्षिणा वरो वा । पलाशपत्रम् ॥ यज्ञकाष्ठम् ॥ ब्रह्मकूर्चार्थं हरितानि सप्त कुशपत्राणि ॥ आज्यम् इत्यादीनि हवनीयद्रव्याणि तथाच पञ्चगव्यार्थं पृथक् पृथक् गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकमपि एतानि स्थापयित्वा ततः पञ्चगव्यं कुर्यात् ॥ तद्यथा ! एकस्मिन्पलाशपत्रपुटके ॐ तत्सवि० ॥३५/३॥ इति गायत्रीमंत्रेण ताम्राया गोर्गोमूत्रमष्टमाषम् ॥ ॐ गन्धद्वारां० इति मंत्रेण श्वेतगोर्गोमयं षोडशमाषम् ॥ ॐ आप्यायस्व० ॥११२/१२॥ इति मंत्रेण पीतगोः क्षीरं द्वादशमाषम् ॥ ॐ दधिक्राव्णो० ॥३२/२३॥ इति मंत्रेण नीलाया गोर्दधि षड्माषम् ॥ ॐतेजोसि शुक्र० ॥३१/१॥ इति मंत्रेण कृष्णाया गोर्घृतमष्टमाषम् ॥ ततो देवस्यत्वा० ॥२२/५॥ इति मंत्रेण चतुर्माषमुदकञ्च प्रक्षिप्य प्रणवेन यज्ञकाष्ठेनालोड्य पुनः प्रणवेनाभिमंत्रयेत् ॥ एवं पञ्चगव्यं कृत्वा पवित्रे कुर्यात् ॥ तद्यथा । वामकरस्थितयोः प्रागग्रयोर्द्वयोः पवित्रयोरुपरि दक्षिणकरेणोदगग्राणि त्रीणि पवित्राणि निधायोपरि प्रादेशमात्रं पवित्रद्वयमवशेषयित्वा दक्षिणकरेण द्वयोः पवित्रयोर्मूलेन द्वौ कुशौ प्रदक्षिणीकृत्य वामकरेण सर्वाणि पवित्राणि युगपद् धृत्वा दक्षिणकराङ्गुष्ठाङ्गुलिपर्वाभ्यामुपरि प्रादेशमात्रं छित्त्वाऽन्यानि सर्वाणि पवित्राण्युत्तरतः क्षिपेत् ॥ प्रादेशमात्रे द्वे पवित्रे ग्राह्य । ततः प्रोक्षणीपात्रं प्रणीतोत्तरं निधाय तस्मिन् पात्रान्तरेण दक्षिणहस्तेन वा प्रणीतोदकं चतुर्वारं गृहीत्वा वामहस्ते पवित्राग्रं दक्षिणहस्ते पवित्रयोर्मूलं धृत्वा मध्यतः पवित्राभ्यामुत्पवनं प्रोक्षणीपात्रजलस्य । पवित्रे प्रोक्षण्यां निधाय तत्पात्रं दक्षिणकरेणादाय सव्ये पाणौ धृत्वा दक्षिणहस्तमुत्तानं कृत्वा सपवित्राभ्यां दक्षिणकरस्य मध्यमानामिकांगुल्योर्मध्यपर्वाभ्यां प्रोक्षणीस्थानामपामूर्ध्वमुद्दिङ्गनम् ॥ ततस्ताभिः प्रोक्षणीपात्रस्थिताभिरद्भिस्तासां प्रोक्षणीपात्रस्थितानामपां प्रोक्षणम् ॥ आज्यस्थाल्याः प्रोक्षणम् । सम्मार्गकुशानां प्रोक्षणम् । उपयमनकुशानां प्रोक्षणम् ॥ समिधां प्रोक्षणम् ॥ स्रुवस्य प्रोक्षणम् ॥ आज्यस्य प्रोक्षणम् ॥ आसादितानामन्येषां पलाशपत्रयज्ञियकाष्ठहरितसप्ततृणपञ्चगव्यादीनां प्रोक्षणम् ॥ ततोऽसंचरे प्रणीताग्न्योर्मध्ये प्रोक्षणीपात्रस्य निधानम् ॥ तत आज्यस्थाल्यामाज्यं गृहीत्वा ब्रह्मणा स्थंडिले दक्षिणप्रदेशे आज्याधिश्रयणं विधायोल्मुकेनाज्यस्य पञ्चगव्यस्य च पर्यग्निकरणम् । हस्तस्येतरथावृत्तिः ॥ ततः स्रुवस्य प्रतपनं कुर्यात् ॥ दक्षिणहस्तेन स्रुवमादायाधोमुखं कृत्वाऽगौ प्राञ्चं तापयित्वा ततो वामकरे धृत्वा दक्षिणहस्तस्थितैः संमार्गकुशाग्रैः स्रुवस्य मूलादारभ्य उपरितः स्रुवस्याग्रपर्यन्तं सम्मृज्य संमार्गकुशमूलैः स्रुवस्याग्रतः आरभ्याधस्तात् स्रुवस्य मूलपर्यन्तं निदध्यात् । सम्मार्गकुशानामग्नौ उत्तरदिशि वा त्यागं कृत्वाऽऽज्योद्वासनं कुर्यात् ॥ दक्षिणहस्तेनाग्नेः सकाशादाज्यं गृहीत्वाऽग्नेरुत्तरतः प्रोक्षण्याः समीपे क्षणं निधायाग्नेः पश्चिमदिशि स्थापयेत् ॥ ततः आज्योत्पवनं कुर्यात् । तद्यथा । वामहस्तधृताग्राभ्यां दक्षिणहस्तधृतमूलाभ्यां पवित्राभ्याम् आज्योत्पवनम् । आज्योवेक्षणमपद्रव्यनिरसनञ्च कृत्वा आज्यालिप्ताभ्यां पवित्राभ्यां प्रोक्षण्याः प्रत्युत्पवनम् ॥ पवित्रे प्रोक्षण्यां निधाय दक्षिणहस्तेन उपयमनकुशानादाय सव्ये पाणौ धृत्वा घृताक्तास्तिस्रः समिधो गृहीत्वा तिष्ठन् ‘ समिधोऽभ्याधाय ’ इति अग्नौ प्रक्षिपेत् । ततः सपवित्रदक्षिणहस्तेन प्रोक्षण्युदक्कं गृहीत्वा ईशानकोणादारभ्येशानकोणपर्यन्तमग्निं प्रदक्षिणं पर्युक्ष्य ( हस्तस्येतरथावृत्तिः ) पवित्रे प्रणीतायां निदध्यात् ॥ ततो दक्षिणं जान्वाच्य स्रुवेण ब्रह्मणाऽन्वारष्धो जुहुयात् ॥ ॐ मनसा ( प्रजापतये ) स्वाहा इदं प्रजापतये न मम ॥ ॐ इन्द्राय स्वाहा इदमिन्द्राय न मम ॥ ॐ अग्नये स्वाहा इदमग्नये न मम ॥ ॐ सोमाय स्वाहा इदं सोमाय न मम ॥ हस्ते जलं गृहीत्वा मया संपादितानि हवनीयद्रव्याणि या या यक्ष्यमाणदेवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न मम ॥ यथादैवतमस्तु ॥ हस्ते गन्धाक्षतपुष्पाण्यादायाग्निपूजनम् । प्रायश्चित्तकर्मणि विट्नामाग्नये नमः गन्धाक्षतपुष्पाणि सम० ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP