संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथोत्तराङ्गप्रायचित्तम् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथोत्तराङ्गप्रायचित्तम् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथोत्तराङ्गप्रायचित्तम् Translation - भाषांतर ततः प्रायश्चित्ती आचमनं प्राणायामञ्च कृत्वा उत्तराङ्गप्रायश्चित्तं कुर्यात् ॥ हस्ते जलं गृहीत्वा देशकालौ संकीत्य मम करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं प्रारब्धस्यामुकप्रायश्चित्तस्य उत्तराङ्गानि करिष्ये ॥ इति संकल्पं विधाय पूर्ववत् यथाशक्ति विष्णुपूजनं तर्पणं विष्णुश्राद्धं च कृत्वा अह्स्ते जलं गृहीत्वा प्रायश्चित्तस्य उत्तराङ्गतया विहितं गोदानं करिष्ये इति संकल्पं कृत्वा गोनिष्क्रयद्रव्यं गृहीत्वा । देशकालौ संकीर्त्य इदं गोदानप्रत्याम्नायभूतं रजतद्रव्यम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे, इत्युक्त्वा ब्राह्मणाय दद्यात् ॥ ततो द्वितीये स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं प्रतिष्ठाप्य ब्रह्मवरणाद्याज्यभागान्तं कृत्वा व्यस्तसमस्तव्याहृत्या आज्येन जुहुयात् ॥ ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐ भुवः स्वाहा इदं वायवे न मम ॥ ॐ स्वः स्वाहा इदं सूर्याय न मम ॥ ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये न मम ॥ इति व्यस्तसमस्तव्याहृत्याऽष्टाविंशतिवारम् आज्यं हुत्वा ततो भूराद्या नवाहुतीर्जुहुयात् ॥ यथासव्यकरे उपयमनकुशानादाय ब्रह्मणाऽन्वारब्धो दक्षिणं जान्वाच्य जुहुयात् ॥ ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐभुवः स्वाहा इदं वायवे न मम ॥ ॐस्वः स्वाहा इदं सूर्याय न मम ॥ ॐ त्वन्नोऽअग्ने व्वरुणस्य० ॥३/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥४॥ॐ सत्त्वन्नोऽअग्नेव्वमो० ॥४/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥५॥ॐ अयाश्चाग्ने० ॥ स्वाहा इदमग्नये अयसे न मम ॥६॥ॐ ये ते शतं वरुण० ॥ स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम ॥७॥ॐ उदुत्तमं० ॥१२॥१२॥स्वाहा इदं वरुआण्यादित्यायादितये च न मम ॥८॥ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम ॥९॥अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम ॥ संस्रवप्राशनम् ॥ कुशपवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रप्रतिपत्तिः ॥ ब्रह्मणे पूर्णपात्रदानम् ॥ हस्ते प्रणितोदकं ग्रुहीत्वा ॥ मया कृतस्योत्तराङ्गप्राय्श्चित्तकर्मणः सांगतासिद्ध्यर्थ इदं पूर्णपात्रं ब्रह्मणे तुभ्यमहं संप्रददे न मम ॥ इति ब्रह्मणे पूर्णपात्रं दक्षिणां वा दत्वा अग्नेः पश्चात् प्रणीताविमोकः । तेनोदकेन यजमानस्य शिरसि “ आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ” इत्यभिषेकं कुर्यात् ॥ ततो भोजनसङ्कल्पः । हस्ते जलं गृहीत्वा मयाऽऽचरितस्य पूर्वोत्तराङ्गप्रायश्चित्तकर्मणः साङ्गतासिद्ध्यर्थं यथासङ्ख्याकान्ब्राह्मणान्भोजयिष्ये तेन कर्माधीशः प्रीयतां न मम ॥ ( रुद्रकल्पद्रुमकारैस्तूत्तराङ्गप्रायश्चित्ते पञ्चगव्यस्य होमो नोक्तः ॥ ) ततो गोभूतिलहिरण्याज्यं वासो धान्यं गुडानि च ॥ रौप्यं लवणमित्याहुर्दश दानानि पण्डिताः ॥ इति प्रायश्चित्तिना यथाशक्ति अत्रावसरे दश दानानि देयानि ॥ पृथक् पृथक् दानाशक्तौ यथाशक्ति तत्तन्मूल्यं गृहीत्वा देशकालौ संकीर्त्य दशदानप्रतिष्ठासिद्ध्यर्थम् इदं यथाशक्ति तन्मूल्यं ब्राह्मणाय विष्णुरूपाय तुभ्यमहं संप्रददे ॥ इति दद्यात् ॥ ततः करसंपुटौ कृत्वा ब्राह्मणप्रार्थनां कुर्यात् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं च यत्कृतम् ॥ भवत्प्रसादात्तत्सर्वमच्छिद्रं पूर्णमस्तु मे ॥ एवं प्रार्थनां विधाय ब्राह्मणान्वदेत् ॥ “ भो विप्राः ! करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं पूर्वोत्तराङ्गसहितं मया यत् प्रायश्चित्तं कृतं तत् अच्छिद्रमस्तु ॥ ” “ अच्छिद्रमस्त्वि”ति विप्राः प्रतिवचनं दद्युः ॥ तद्यथा । व्रतच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥ सर्वं भवतु तेऽच्छिद्रं यस्य चेच्छन्ति वै द्विजाः ॥ पुनः प्रायश्चित्ती करसंपुटौ कृत्वा विष्णुं प्रार्थयेत् ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ॥ न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति विष्णुं नत्वा अग्नेर्विसर्जनं मूर्तौ सत्यां विष्णोश्च विसर्जनं विधाय वृतानां ब्राह्मणानां यथाशक्ति पूजनं कृत्वा तेभ्यो दक्षिणां दद्यात् ॥ स्त्रीशूद्राणां तु पञ्चगव्यप्राशने विकल्पः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP