संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रीगायत्रीस्तवराजः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रीगायत्रीस्तवराजः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रीगायत्रीस्तवराजः Translation - भाषांतर ॐ अस्य श्रीगायत्रीस्तवराजस्तोत्रमंत्रस्य नूतनसृष्टिकर्ता विस्वामित्र ऋषिः गायत्री छन्दः नाना छंदांसि सकलजननी चतुष्पदा गायत्री परमात्मा देवता सर्वोत्कृष्टपरं धाम प्रथमपादो बीजं द्वितीयः शक्तिः तृतीयः कीलकं दशप्रणवसंयुक्ता सव्याहृतिका तूर्यपादसहिता व्यापकं मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥ न्यासं कृत्वा ध्यायेत् ॥ तद्यथा ॥ गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैकवेद्यां चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ॥ सर्वोत्कृष्टं पदं तत्सवितुरनुपदांते वरेण्यं शरण्यं भर्गो देवस्य धीमह्यभिदधति धियो यो न ( ःप्रचोदयात् ) इत्यौर्वतेजः ॥१॥साम्राज्यबीजं प्रणवत्रिपादं सव्यापसव्यं प्रजपेत्सहस्रम् ॥ संपूर्णकामं प्रणवं विभूतिं तथा भवेद्वाक्यविचित्रवाणी ॥२॥शुभं शिवं शोभनमस्तु मह्यं सौभाग्यभोगोत्सवमस्तु नित्यम् ॥ प्रकाशविद्यात्रयशास्त्रसर्वं भजेन्महामन्त्रफलं प्रिये वै ॥३॥ब्रह्मास्त्रं ब्रह्मदंडं शिरसि शिखिमहद्द्ब्रह्मशीर्षं नमोंतं सूक्तं पारायणोक्तं प्रणवमथ महावाक्यसिद्धांतमूलम् ॥ तुर्य्यं त्रीणि द्वितीयं प्रथममनुमहावेदवेदांतसूक्तं नित्यं स्मृत्यानुसारं नियमितचरितं मूलमंत्रं नमोन्तम् ॥४॥अस्त्रं शस्त्रहतं त्वघोरसहितं दंडेन वाजीहतं चादित्यादिहतं शिरोंतसहितं पापक्षयार्थं परम् ॥ तुर्य्यांत्यादिविलोममंत्रपठनं बीजं शिखांतोर्ध्वकं नित्यं कालनियम्यविप्रविदुषां किं दुष्कृतं भूसुरान् ॥५॥नित्यं मुक्तिप्रदं नियम्य पवनं निर्घोषशक्तित्रयं सम्यग्ज्ञानगुरूपदेशविधिवद्देवीं शिखान्तामपि ॥ अष्टैकोत्तरसंख्ययानुगतसौषुम्नादिमार्गत्रयीं ध्यायेन्नित्यसमस्तवेदजननीं देवीं त्रिसंध्यामयीम् ॥६॥गायत्रीं सकलागमार्थफलदां सौरस्य बीजेश्वरीं सर्वान्मायसमस्तमंत्रजननीं सर्वज्ञधामेश्वरीम् ॥ ब्रह्मादित्रयसंपुटार्थकरणीं संसारपारायणीं संध्यां सर्वसमानतंत्रपरया ब्रह्मानुसंधायिनीम् ॥७॥एकद्वित्रिचतुःसमानगणनावर्णाष्टकं पादयोः पादादौ प्रणवादिमंत्रपठने मंत्रत्रयीसंपुटाम् ॥ संध्यायां द्विपदं पठेत्परतरं सायं तुरीयायुतं नित्यानित्यमनंतकोटिफलदं प्राप्तुं नमस्कुर्महे ॥८॥ओजोऽसीति सहोऽस्यथो बलमसि भ्राजोऽसि तेजस्विनी वर्जस्वी सविताग्निसोमममृतं रूपं परं धीमहि ॥ देवानां द्विजवर्यतां मुनिगणे मुक्त्यर्थितां शांतितामोमित्येकमृचं पठंति यमिनो यं यं स्मरेत्प्राप्नुयात् ॥९॥ओमित्येकमजस्वरूपममलं तत्सप्तधा भाजितं तारं तंत्रसमन्वितं परतरे पादत्रयं गर्भितम् ॥ आपोज्योतिरसोमृतं जनमहः सत्यं तपः स्वर्भुवर्भूयोभूय नमामि भूर्भुवः स्वरोमेतैर्महामंत्रकम् ॥१०॥आदौ बिंदुमनुस्मरन्परतरे बालात्रिवर्णोच्चरन्व्याहृत्यादिसबिंदुयुक्तत्रिपदातारत्रयं तुर्यकम् ॥ आरोहादवरोहतः क्रमगता श्रीकुंडलीत्थं स्थिता देवी मानसपंकजे त्रिनयना पंचानना पातु माम् ॥११॥सर्वे सर्ववशे समस्तसमये सत्यात्मिके सात्त्विके सावित्रीसवितात्मके शशियुते सांख्यायनीगोत्रजे ॥ संध्यात्रीण्युपकल्प्य संग्रहविधौ संध्याभिधानात्मके गायत्रीं प्रणवादिमंत्रगुरुणा संप्राप्य तस्मै नमः ॥१२॥क्षेमं दिव्यमनोरथं परतरे चेतः समाधीयतां ज्ञानं नित्यवरेण्यमे तदमलं देवस्य भर्गो धियः ॥ मोक्षश्रीर्विजयार्थिनोऽथ सवितुर्यच्छ्रेष्ठधीस्तत्पदं प्रज्ञामेधप्रचोदयात्प्रतिदिनं यो नः पदं पातु माम् ॥१३॥सत्यं तत्सवितुर्वरेण्यविरलं विश्वादिमायात्मकं सर्वाद्यं प्रतिपादपादरमया तारं तथा मन्प्रथम् ॥ तुर्यान्तं त्रितयं द्वितीयमपरं संयोगसव्याहृतिं सर्वाम्नायमनोन्मयीं मनसिजां ध्यायामि देवीं पराम् ॥१४॥आदौ गायत्रिमंत्रे गुरुकृतनियमं धर्मकर्मानुकूलं सर्वाद्यं सारभूतं सकलमनुमयं देवतानामगम्यम् ॥ देवानां पूर्वदेवं द्विजकुलमुनिभिः सिद्धविद्याधराद्यैः को वा वक्तुं समर्थस्तवमनुमहिमाबीजराजादिमृलम् ॥१५॥गायत्रीं त्रिपदां त्रिबीजसहितां त्रिव्याहृतिं त्रैपदां त्रिब्रह्मां त्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् ॥ सांख्यादित्रयरूपिणीं त्रिनयनां मात्रात्रयीं तत्परां त्रैलोक्यत्रिदशत्रिकोटिसहितां संध्यां त्रयीं तां नुमः ॥१६॥ओमित्येतत्त्रिमात्रां त्रिभुवनकरणं त्रिस्वरं वह्निरूपं त्रीणि त्रीणि त्रिपादं त्रिगुण गुणमयं त्रैपुरांत त्रिसूक्तम् ॥ तत्त्वानां पूर्वशक्तिं त्रितयगुरुपदं पीठयंत्रात्मकं तं तस्मादेतत् त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥१७॥स्वस्तिश्रद्धातिमेधा मधुमतिमधुरः संशयः प्रज्ञकांतिर्विद्या बुद्धिर्बलं श्रीरतनुधनपतिः सौम्यवाक्यानुवृत्तिः ॥ मेधा प्रज्ञा प्रतिष्ठा मृदुमधुरगिरा पूर्णविद्याप्रपूर्णं प्राप्तं प्रत्यूषचिंत्यं प्रणवपरवशात्प्राणिनां नित्यकर्म ॥१८॥पंचाशद्वर्णमध्ये प्रनवपरयुते मंत्रमाद्यं नमोंतं सर्वं सव्यापसव्यं शतगुणमभितो वर्गमष्टोत्तरं ते ॥ एवं नित्यं प्रजप्तं त्रिभुवनसहितं तूर्य्ययुक्तं त्रिपादं ज्ञानं विज्ञानगम्यं गगनसुसदृशं ध्यायते यः स मुक्तः ॥१९॥आदिक्षांतसबिंदुयुक्तसहितं मेरुं क्षकारात्मकं व्यस्ताव्यस्तसमस्तवर्गसहितं पूर्णं शताष्टोत्तरम् ॥ गायत्रीं जपतां त्रिकालसहितां नित्यं सनौमित्तिकं चैवं जाप्यफलं शिवेन कथितं सद्भोग्यमोक्षप्रदम् ॥२०॥सप्तव्याहृतिसप्ततारविकृतिः सत्यं वरेण्यं धृतिः सर्वं तत्सवितुश्च धीमहि महादेवस्य भर्गं भजे ॥ धाम्नोधाम च भादिधारणमहाधीमत्पदं ध्यायते ॐ तत्सर्वमनुप्रपूर्णदशकं पादत्रयं केवलम् ॥२१॥विज्ञाने विलसद्विवेकवचसः प्रज्ञानुसंधारिणीं श्रद्धामेध्ययशःशिरःसुमनसःस्वस्तिश्रियं त्वां सदा ॥ आयुष्यं धनधान्यलक्ष्मीमतुलां देवीं कटाक्षं परं तत्काले सकलार्थसाधनमदान्मुक्तिं महत्त्वं पदम् ॥२२॥पृथ्वीगंधोऽर्च्चनायां नभसि कुसुमता वायुधूपप्रकर्षो वह्निर्दीपप्रकाशो जलममृतमयं नित्यसंकल्पपूजा ॥ एतत्सर्वं निवेद्यं सुखवति हृदये सर्वदा दंपतीनां त्वं सर्वज्ञे शिवं मे कुरु तव ममता भक्तवृन्दे प्रसिद्धा ॥२३॥सौम्यं सौभाग्यहेतुं सकलसुखकरं सर्वसौख्यं समस्तं सत्यं सद्भोगनित्यं सुखजनसुहृदं सुदरं श्रीसमस्तम् ॥ सौमंगल्यं समग्रं सकलशुभकरं स्वस्तिवाचं समस्तं संवेद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तुमाद्यं समस्तम् ॥२४॥गायत्रीपदपंचपंचप्रणवद्वंद्वं त्रिधा संपुटं सृष्ट्यादिक्रममंत्रजाप्यदशकं देवीपदं भूत्रयम् ॥ मंत्रादिस्थितिकेषु संपुटमिदं श्रीमातृकावेष्टनं वर्ष्णंत्यादिविलोममंत्रजपनं संहारसंमोहनम् ॥२५॥भूराद्यं भूर्भुवः स्वस्त्रिपदपदयुतं त्र्यक्षमाद्यंतयोज्यं सृष्टिस्थित्यंतकार्य्यं क्रमशिखिसकलं सर्वमंत्रं प्रशस्तम् ॥ सर्वागं मातृकाणां मनुमयवपुषं मंत्रयोगं प्रयुक्तं संहारं क्षादिवर्णं वसुशतगणनं मंत्रराजं नमामि ॥२६॥विश्वामित्रकृतं परं हितकरं सर्वार्थसिद्धिप्रदं स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः ॥ वेदानां विधिवादमंत्रसफलं सिद्धिप्रदं संपदां स प्राप्नोत्यपरत्र सर्वसुखदं चायुष्यमारोग्यताम् ॥२७॥॥ इति विश्वामित्रकृतश्रीगायत्रीस्तवराजः संपूर्णः ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP