संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ भूम्यादिदेवानामावाहनं पूजनञ्च श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ भूम्यादिदेवानामावाहनं पूजनञ्च श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ भूम्यादिदेवानामावाहनं पूजनञ्च Translation - भाषांतर तत्र प्रथमं कुंडमंडपार्थे भूम्यादीनामावाहनं पूजनञ्च ॥ तत्र शुभेऽह्नि यजमानश्चंद्रसूर्यतारादिबलान्विते सुमुहूर्ते मंडपं कर्तुं यथोचितं मार्जनदहनखननसंप्लावनादिभिः स्मृत्योक्तैः शोधनोपायैर्भूमिं संशोध्य तत्र निर्विघ्नतासिद्ध्यर्थं वरुणपूजनादिगणपतिपूजनान्तं कर्म कृत्वा पञ्चवाक्यैः संपूर्णं वा पुण्याहवाचनञ्च विधाय भूम्यादीनां पूजनं कुर्यात् । तण्डुलैस्त्रीन्पुञान् कृत्वा तदुपरि पूगीफलानि निधाय तत्र वसुधां कूर्मं शेषं चावाह्य पूजयेत् । तद्यथा - आचम्य प्राणानायम्य देशकालौ स्मृत्वा अद्य गायत्रीपुरश्चरणोपयोगिकरिष्यमाणमंडपादीनां निर्विघ्नतासिद्ध्ये पृथिव्यादीनां पूजनमहं करिष्ये ॥ इति संकल्प्य अक्षतैरावाहयेत् ॥तत्र प्रथमपुंजे भूम्यावाहनं कुर्यात् ॥ ॐ भूरसिभूमिरस्यदितिरसि व्विश्श्वधायाव्विश्श्वस्यभुवनस्यधर्त्त्री । पृथिवीxxच्छपृथिवीन्दृह पृथिवीम्माहिxसींx ॥१८/१३॥ ॐभू० भूम्यै नमः भूमिम् आवाहयामि स्थापयामि । अंजलिं बद्ध्वा प्रार्थयेत् ॥ शेषमूर्ध्नि स्थितां रम्यां नानासुखविधायिनीम् ॥ विश्वधात्रीं महाभागां विश्वस्य जननीं पराम् ॥१॥यज्ञभागं प्रतीक्षस्व सुखार्थं प्रणमाम्यहम् ॥ तवोपरि करिष्यामि मंडपं सुमनोहरम् ॥२॥क्षंतव्यं च त्वया देवि सानुकूला मखे भव ॥ निर्विघ्नं मम कर्मेदं यथा स्यात्त्वं तथा कुरु ॥३॥ततो द्वितीयपुञ्जे कूर्मावाहनम् ॥ ॐ वस्यकुर्मो गृहेहविस्तमग्ग्ने व्वर्द्धया त्वम् ॥ तस्म्मै देवाऽअधिब्ब्रवन्नयञ्च ब्ब्रह्मणस्प्पतिx ॥५२/१७॥ ॐभू० कूर्माय नमः कूर्मम् आवाहयामि स्थापयामि । ततस्तृतीयपुञ्जे शेषावाहनम् ॥ ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानx शर्म्मसप्प्रथाx ॥१३/३६॥ ॐभू० अनंताय नमः अनन्तम् आवाहयामि स्थापयामि ॥ इत्यावाह्य । ॐ भूर्भुवः स्वः भूमिकूर्मानन्तदेवेभ्यो नमः गन्धाक्षतपुष्पाणि समर्पयामि इति संपूजयेत् । सत्यवकाशे षोडशोपचारैः पूजनं कार्यम् ॥ अथ विश्वकर्मपूजनम् ॥ ॐ व्विश्श्वकर्म्मन्नहुविषाव्वर्द्धनेन त्रातारमिन्द्रमकृणोरवद्ध्यम् ॥ तस्म्मैव्विश समनमन्त पूर्व्वीरयमुग्ग्रो व्विहव्वयो यथा सत् ॥ उपयामगृहीतोसीन्द्रायत्त्वा व्विश्श्वकर्म्मणऽएषतेयोनिरिन्द्रायत्त्वा व्विश्वकर्म्मणे ॥४६/८॥ ॐ भू० विश्व० नमः विश्वकर्माणम् आ० स्था० । इत्यावाह्य । ॐ भू० विश्वकर्मणे नमः इति गंधाक्षतपुष्पैः संपूज्य नमस्कारं कुर्यात् ॥ ततः सूत्रकारपूजनम् ॥ तं गंधाक्षतपुष्पैः संपूज्य नमस्कारः ॥ ततो गजपूजनम ॥ तद्यथा - हस्ते अक्षतान् गृहीत्वा तत्र देवानावाहयेत् ॥ ॐ भू० महादेवाय नमः महादेवमावाहयामि स्थापयामि ॥१॥ॐ भू० वायवे नमः वायुमा० ॥२॥ॐ भू० विश्वेभ्यो देवेभ्यो नमः विश्वान् देवाना० ॥३॥ॐ भू० अग्नये नमः अग्निमा० ॥४॥ॐ भू० ब्रह्मणे नमः ब्रह्माणमा० ॥५॥ॐ भू० सूर्याय नमः सूर्यमा० ॥६॥ॐ भू० रुद्राय नमः रुद्रमा० ॥७॥ॐ भू० यमाय नमः यममा० ॥८॥ॐ भू० विश्वकर्मणे नमः विश्वकर्मानमा० ॥९॥ॐ भू० वसुभ्यो नमः वसूना० ॥१०॥ॐ भू० गणेशाय नमः गणेशमा० ॥११॥ॐ भू० वरुणाय नमः वरुणमा० ॥१२॥ॐ भू० स्वामिकार्तिकाय नमः ॥ स्वामिकार्तिकमा० ॥१३॥ॐ भू० इच्छायै नमः इच्छामा० ॥१४॥ॐ भू० क्रियायै नमः क्रियामा० ॥१५॥ॐ भू० ज्ञानाय नमः ज्ञानमा० ॥१६॥ॐ भू० कुबेराय नमः कुबेरमा० ॥१७॥ॐ भू० चंद्राय नमः चंद्रमा० ॥१८॥ॐ भू० जयायै नमः जयामा० ॥१९॥ॐ भू० वरुणाय नमः वरुणमा० ॥२०॥ॐ भू० वासुदेवाय नमः वासुदेवमा० ॥२१॥ॐ भू० बलभद्राय नमः बलभद्रमा० ॥२२॥ॐ भू० कामाय नमः काममा० ॥२३॥ॐ भू० विष्णवे नमः विष्णुमा० ॥२४॥इत्यावाह्य । गजस्थावाहितदेवेभ्यो नमः इति तान् गन्धाक्षतपुष्पादिभिर्यथाविभवं षोडशोपचारैः पञोपचारैर्वा संपूज्य नमस्कारः ॥ ततः खनित्रपूजनम् ॥ त्वष्ट्रा विनिर्मितः पूर्वं लोकानां हितकाम्यया ॥ पूजयामि खनित्र त्वां सिद्धिदो भव मे सदा ॥ इत्यक्षतैराबाह्य । खनित्राय नमः इति तं गंधाक्षतपुष्पैः संपूज्य नमस्कारः ॥ ततो वास्तुपुरुषाय नमः इति वास्तुपुरुषं संपूज्य दशदिक्षु इन्द्रादिदिक्पतीन् संपूज्य भूम्याद्यावाहितेभ्यो दिक्पतिपर्यन्तेभ्यः सर्वेभ्यो देवेभ्य एकस्मिन् पात्रे पृथक् पृथग्वा पायसादिकं बलिं निधाय हस्ते जलं गृहीत्वा भूम्याद्यावाहितदेवेभ्यः अमुं बलिं समर्पयामि इति जलमुत्सृजेत् ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP