संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ जलयात्राप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ जलयात्राप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ जलयात्राप्रयोगः Translation - भाषांतर मण्डपे सपत्नीको यजमानः स्वासने उपविश्य आचमनं प्राणायामत्रयं कृत्वा । हस्ते जलमादाय देशकालौ सङ्कीर्त्य प्रारब्धस्य सग्रहमखगायत्रीपुरश्चरणकर्माङ्गत्वेन जलयात्रां करिष्ये ॥ इति सङ्कल्पं विधाय । कुरुष्वेति आचार्यादिभिरनुज्ञातो जलयात्रार्थं पूजनसंभारानेकीकृत्य रौप्यमयान् वा ताम्रमयान् वा षोडश कलशान् तत्परिमितानि कौशेयवस्त्राणि नालीकेराणि पुष्पमालादींश्चादाय “ आनोभद्राः, आशुः शिशानो ” इत्यादि शान्तिसूक्तं पठद्भिराचार्यादिसमस्तर्विग्भिः परिवृतः स्वकीयपुत्रपौत्रज्ञातिपरिवारजनसुवासिनीभिश्च संयुतो मङ्गलवाद्यघोषपुरःसरं जलाशयं गच्छेत् ॥ ततस्तत्र सपत्नीको यजमानो हस्तौ पादौ प्रक्षाल्य जलाशयस्य समीपस्थतीर पञ्चगव्येन ब्राह्मणद्वारा प्रोक्षयित्वाऽऽचार्यादिभिः परिवृतः पूर्वाभिमुख उदङ्मुखो वा उपविशेत् ॥ ततः आचार्यो यजमानस्य समीपे तण्डुलैर्यवैर्वा नवकलशानां स्थापनार्थं नवकोष्टात्मकं मण्डलं विरच्य तथैव तन्मण्डलस्य दक्षिणपश्चिमोत्तरदिक्ष्वपि एकैककलशस्थापनार्थम् एकैकं धान्यपुञ्जं कृत्वा तन्मडलस्येशानाग्नेयनैरृत्यवायव्यकोणेष्वपि प्रतिकोणमेकैककलशस्थापनार्थ चतुरो धान्यपुञ्जान्विधाय तदुत्तरे श्वेतं वस्त्रं प्रसार्य यवैस्तण्डुलैर्वा बृहच्चतुरस्रं मण्डलं विधाय तस्य मध्ये जलमातॄकाणां स्थापनार्थं दक्षिणत आरभ्योदक्संस्थान् सप्त पुञ्जान्कृत्वा तत्पूर्वेऽपि तथैव जीवमातॄकाणां स्थापनार्थं सप्तपुञ्जान्कृत्वा तथैव तत्पूर्वेऽपि स्थलमातॄकाणामपि स्थापनार्थं सप्त पुञ्जान्कृत्वा तदुपरि च सप्तसागराणां स्थापनार्थमप्येकं पुञ्जं सप्त वा पुञ्जान् विदध्यात् ॥ ततः सपत्नीको यजमनः आचमनः प्राण्यामत्रयञ्च कुर्यात् ॥ तत आचार्यो यजमानस्य भाले तिलकं कृत्वा शान्तिसूक्तं पठेत् ॥ ततः ॐ श्रीमन्म० इत्यारभ्य विष्णुर्विष्णुर्विष्णुः इत्यन्तं पठित्वा अत्राद्येति देशकालौ सङ्कीर्त्य प्रारब्धस्य सग्रहमख गायत्रीउरश्चरणकर्मणोऽङ्गतया करिष्यमाणेऽस्मिञ्जलयात्राकर्मणि निर्विघ्नार्थं चतुर्द्दिक्षु रक्षाबन्धनपूर्वक्म गणपतिपूजनं ( स्मरणं वा ) करिष्ये ॥ इति सङ्कल्पं विधाय ॥ वामहस्ते सर्षपान्गृहीत्वा दक्षाक्रेणाच्छाद्य पठेत् ॥ ॐ इन्द्रघोषस्त्वाव्वसुभिx पुरस्तात्त्पातुप्प्रचेतास्त्वारुद्द्रैx पश्च्चात्त्पातुमनोजवास्त्वापितृभिर्द्दक्षिणतx पातुव्विश्श्वकर्म्मात्त्वादित्त्यैरुत्तरतx पात्त्विदमहंन्तप्प्तं व्वार्ब्बहिर्द्धायज्ञान्नि सृजामि ॥११/५॥ इति सर्षपान् चतुर्दिक्षु विकीर्य यथाशक्ति गणपतिपूजनं कुर्यात् ॥ एवं गणपतिपूजनं विधाय भूमिपूजनं कुर्यात् ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP