संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ कुशकुण्डिकाप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ कुशकुण्डिकाप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ कुशकुण्डिकाप्रयोगः Translation - भाषांतर अग्नेर्दक्षिणतो ब्रह्मासनमास्तीर्य । पूर्वं वायव्यकोणे प्राङ्मुखं ब्रह्माणमुपवेश्य उदङ्मुखो यजमानो हस्ते पूगीफलं गृहीत्वा ब्रह्माणं वदेत् । ‘ भो ब्रह्मन् ! अस्मिन्सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणि त्वं ब्रह्मा भव ’ । ‘ भवामि ’ इति ब्रह्मा वदेत् । ततो ब्रह्मा पूर्वेण स्वसने गत्वा तत्र स्वासनात्किञ्चित्तृणं दक्षिणस्यां दिशि निरस्य तत्रोपविशेत् । ततः प्रणीताप्रणयनार्थम् अग्नेरुत्तरदिशि वायव्यकोणे चैवमासनद्वयं निधाय ब्रह्मणा अनुज्ञातः प्रणीताप्रणयनं कुर्यात् । ब्रह्मणो मुखमवलोकयन् ‘ भो ब्रह्मन ! अपः प्रणेष्यामि ’ इत्युक्त्वा ‘ ॐ प्रणय ’ इति ब्रह्मणा प्रत्यनुज्ञातः प्रणीतापात्रं वामहस्ते धृत्वा तत्र दक्षिणहस्तेन जलं प्रपूर्य तत् पात्रं वायव्यकोणे स्थापिते पूर्वासने क्षणं निधाय ततो दक्षिणकरस्यानामिकयाऽऽलभ्याग्नेरुत्तरदिशि स्थापिते कुण्डादुत्तरे द्वादशाङ्गुलभिन्नप्रदेशे द्वितीयासने निदध्यात् ॥ ततः परिस्तरणं कुर्यात् । तद्यथा । कुण्डस्य प्राक् उदकग्रैर्मुष्टिपरिमितैस्त्रिभिः कुशैर्वा । दक्षिणदिशि प्रागग्रैर्मुष्टिपरिमितैस्त्रिभिः कुशैर्वा । पश्चिमदिशि उदगग्रैर्मुष्टिपरिमितैस्त्रिभिः कुशैर्वा । तथैव उत्तरदिशि प्रागग्रैर्मुष्टिपरिमितैस्त्रिभिः कुशैर्वा । एवं प्रतिदिशं परिस्तरणं कृत्वा पात्रासादनं कुर्यात् ॥ यथा । पवित्रच्छेदनार्थं त्रयो दर्भाः । पवित्रे द्वे । प्रोक्षणीपात्रम् । ताम्रमयी आज्यस्थाली । द्वे ताम्रमय्यौ चरुस्थाल्यौ । सम्मार्गकुशाः पञ्च । उपयमनकुशाः सप्त । समिधस्तिस्रः । स्रुवः । स्रुक् । आज्यम् । तण्डुलाः । पूर्णपात्रम् । अन्यानि समित्तिलाज्यादीनि हवनीयद्रव्याणि च । एवं कर्मोपयोगिपात्राणाम् आसादनं कृत्वा पवित्रे कुर्यात् । तद्यथा । वामकरस्थितयोः प्रागग्रयोर्द्वयोः पवित्रयोः उपरि दक्षिणकरेणोदगग्राणि त्रीणी पवित्राणि निधाय उपरि प्रादेशमात्रं पवित्रद्वयम् अवशेषयित्वा दक्षिणकरेण द्वयोः पवित्रयोर्मूलेन द्वौ कुशौ प्रदक्षिणीकृत्य वामकरेण सर्वाणि पवित्राणि युगपद्धृत्वा दक्षिणकराङ्गुष्ठाङ्गुलिपर्वाभ्याम् उपरि प्रादेशमात्रं छित्त्वाऽन्यानि सर्वाणि पवित्राण्युत्तरतः क्षिपेत् । अवशिष्टे प्रादेशमात्रे द्वे पवित्रे ग्राह्ये । ततः प्रणीतोत्तरम् आसने प्रोक्षणीपात्रं निधाय तस्मिन् सपवित्रेण दक्षिणहस्तेन पात्रान्तरेण वा प्रणीतोदकं चतुर्वारं गृहीत्वा वामकरे पवित्राग्रं दक्षिणे पवित्रयोर्मूलं धृत्वा मध्यतः पवित्राभ्यां प्रोक्षणीपात्रजलस्योत्पवनम् । पवित्रे प्रोक्षण्यां निधाय । तत्पात्रं दक्षिणकरेणादाय सव्ये पाणौ धृत्वा दक्षिणहस्तमुत्तानं कृत्वा दक्षिणकरस्य मध्यमानामिकाङ्गुल्योर्मध्यपर्वाभ्यां प्रोक्षणीस्थानामपामूर्ध्वमुद्दिङ्गनम् । ताभिः ( प्रणीताद्भिः ) तासां प्रोक्षणिस्थितानामपां प्रोक्षणम् । आज्यस्थाल्याः प्रोक्षणम् । चरुस्थाल्याः प्रोक्षणम् । सम्मार्गकुशानां प्रोक्षणम् । उपयमनकुशानां प्रोक्षणम् । समिधां प्रोक्षणम् । स्रुवस्य प्रोक्षणम् । स्रुचः प्रोक्षणम् । आसादितानां समित्तिलाज्यादिहवनीयद्रव्याणां प्रोक्षणम् । ततः प्रोक्षणिपात्रम् असञ्चरे - प्रणीताग्न्योर्मध्ये आसनं निधाय तत्रासने - स्थापयेत् । तत आज्यस्थाल्याम् आज्यं निरूप्य । ब्रह्मणा कुण्डे दक्षिनप्रदेशे आज्याधिश्रयणम् ॥ चरुस्थाल्यां प्रणीतोदकमासिच्य त्रिःप्रक्षालितॉंस्तण्डुलान् निक्षिप्य आचार्येणाज्यस्योत्तरतः चरोरधिश्रयणं युगपत् । [ ब्रह्मणाऽऽचार्येण चाधिश्रयणक्रिया सहैव कार्येत्यर्थः ] ततो गृहीतोल्मुकेनाज्यचर्वोरुभयोः ईशानत ईशानपर्यन्तं प्रदक्षिणम् पर्यग्निकरणम् । हस्तस्य इतरथाऽऽवृत्तिः । ततोऽर्धशृते चरौ स्रुक्स्रुवयोः प्रतपनम् । दक्षिनहस्तेन स्रुक्स्रुवावादाय अधोमुखौ प्राञ्चौ तापयित्वा ततः स्ववामकरे धृत्वा दक्षिणहस्तस्थितैः सम्मार्गकुशाग्रैः स्रुक्स्रुवयोः मूलत आरभ्य उपरितः स्रुक्स्रुवयोरग्रपर्यन्तं सम्मृज्य सम्मार्गकुशमूलैः स्रुक्स्रुवाग्रत आरभ्य अधस्तात् स्रुक्स्रुवयोः मूलपर्यन्तं सम्मृज्य प्रणीतोदकेन स्रुक्स्रुवावभ्युक्ष्य पुनर्दक्षिणकरे धृत्वा पुनः पूर्ववत्प्रतप्य दक्षिणदिशि निदध्यात् ॥ एवं स्रुक्स्रुवयोः प्रतपनं कृत्वा सम्मार्गकुशानाम् अग्नौ उत्तरदिशि वा त्यागः । तत आज्योद्वासनं कुर्यात् । दक्षिणहस्तेन अग्नेः सकाशादाज्यं गृहीत्वा चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः प्रोक्षण्याः समीपे वायव्यकोणे क्षणं निधायाग्नेः पश्चिमदिशि स्थापयेत् । ततश्चरुमुत्थाप्य अग्नेरुत्तरतः प्रोक्षण्याः समीपे वायव्यकोणे क्षणं निधाय आज्यं प्रदक्षिणीकृत्य आज्यस्योत्तरतः स्थापयेत् । तत आज्योत्पवनम् । वामहस्तधृताग्राभ्यां दक्षिणहस्तधृतमूलाभ्यां पवित्राभ्याम् आज्योत्पवनम् । आज्यावेक्षणम् । अपद्रव्यनिरसनम् । ततः आज्यालिप्ताभ्यां पवित्राभ्यां प्रोक्षण्याः प्रत्युत्पवनम् । पवित्रे प्रोक्षण्यां निधाय । यजमानो दक्षिणहस्तेन उपयमनकुशानादाय सव्ये पाणौ धृत्वा हृदयमालभ्य दक्षिनहस्तेन घृताक्तास्तिस्रः समिधो गृहीत्वा तिष्ठन् समिधोऽभ्याधाय इति अग्नौ आदध्यात् ॥ ततो दक्षिणहस्तेन सपवित्रेण प्रोक्षण्युदकं गृहीत्वा ईशानकोणादारभ्य ईशानकोणपर्यन्तम् अग्नेः प्रदक्षिणं पर्युक्ष्य ( हस्तस्य इतरथावृत्तिः ) पवित्रे प्रणीतायां निधाय दक्षिणं जान्वाच्य सव्यहस्तेन उपयमनकुशानादाय हृदये सव्यहस्तं धृत्वा ब्रह्मणाऽन्वारब्धो दक्षिणहस्तघृतेन स्रुवेण जुहुयात् ॥ अग्नेरुत्तरप्रदेशे प्राञ्चं संततधारया मनसा - ॐ प्रजापतये ( स्वाहा ) इदं प्रजापतये न मम । प्रोक्षणिपात्रे संस्रवप्रक्षेपः । इति पूर्वाघारः ॥ ततः प्राञ्चं संततधारया अग्नेर्दक्षिणप्रदेशेॐइन्द्राय स्वाहा इदमिन्द्राय न मम । इत्युत्तराघारः ॥ अग्नेः उत्तरपूर्वार्द्धे - ॐ अग्नये स्वाहा इदमग्नये न मम । अग्नेर्दक्षिणपूर्वार्द्धे - ॐ सोमाय स्वाहा इदं सोमाय न मम । इत्याज्यभागौ ॥ ततो यजमानो हस्ते गन्धाक्षतपुष्पाण्यादायाग्निं पूजयेत् । ॐ भूर्भुवः स्वः शतमङ्गलनामाग्नये नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० ॥ ततः पञ्चभिर्वारुणमन्त्रेर्घृतेन होमः । ॐ व्वरुणस्योत्तम्भनमसि स्वाहा । इदं वरुणाय न मम ॥१॥ऋतसदन्यसि स्वाहा । इदं वरुणाय न मम ॥३॥ॐ व्वरुणस्यऽऋतसदनमसि स्वाहा । इदं वरुणाय न मम ॥४॥ॐ व्वरुणस्यऽऋतसदनमासीद स्वाहा । इदं वरुणाय न मम ॥५॥ततो यजमानः अञ्जलौ गन्धाक्षतपुष्पाण्यादाय भगवत्याः श्रीगायत्रीदेव्याश्चरुणा प्रधानाहुतिप्रदानार्थं भगवत्याः श्रीगायत्रीदेव्याः समीपं गत्वा भगवतीं श्रीगायत्रीदेवीं प्रार्थयेत् ॥ देवेशि भक्तिसुलभे परिवारसमन्विते । यावद्धोमं करिष्यामि तावदग्नौ स्थिरा भव ॥ इति सम्प्रार्थ्य तस्मिन्पुष्पाञ्जलौ आगतां श्रीगायत्रीदेवीं मनसा विभाव्य कुण्डस्य समीपम् आगत्य तां पुष्पाञ्जलिम् अग्नौ प्रक्षिप्यावाहनादिमुद्राः प्रदर्शयेत् ॥ भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्नग्नौ आवाहिता भव । भो भगवति श्रीगायत्रीदेंवि त्वम् अस्मिन्नग्नौ संस्थापिता भव । भो भगवति श्रीगायत्रीदेवि त्वम् त्वम् अस्मिन्नग्नौ अमृतीकृता भव । भो भगवति श्रीगायत्रीदेवि त्वम् अस्मिन्नग्नौ परमीकृता भव । एवमावाहनादिमुद्राः प्रदर्श्य हस्ते गन्धाक्षतपुष्पाण्यादाय देवीं पूजयेत् ॥ ॐ भूर्भुवः स्वः भगवत्यै अग्निस्वरूपिण्यै श्रीगायत्रीदेव्यै नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । इति सम्पूज्य । ततो यजमानः श्रीगायत्रीदेव्यर्थं कृते द्वितीयचरौ घृतमभिघार्य स्रुच्यां चरुमादाय तिस्र आहुतीः दद्यात् ॥ तद्यथा । चरुं गृहीत्वा मूलमंत्रं पठित्वा । ॐ भूर्भुवः स्वः भगवत्यै श्रीगायत्रीदेव्यै नमः स्वाहा । इदं श्रीगायत्रीदेव्यै न मम ॥१॥चरुं गृहीत्वा पुनर्मूलमन्त्रमुच्चार्य ॐ भूर्भुवः स्वः भगवत्यै श्रीसावित्रीदेव्यै नमः स्वाहा । इदं श्रीसावित्रीदेव्यै न मम ॥२॥चरुं ग्रुहीत्वा पुनर्मूलमन्त्रमुच्चार्य । ॐ भूर्भुवः स्वः भगवत्यै श्रीसरस्वतीदेव्यै नमः स्वाहा । इदं श्रीसरस्वतीदेव्यै न मम ॥३॥एवं होमं कृत्वा होमानन्तरं यजमानः स्वकीयाञ्जलौ पुनः पुष्पाण्यादाय कुण्डसमीपमागत्य कुण्डस्थितां भगवतीं श्रीगायत्रीदेवीं प्रार्थयेत् । तद्यथा । होमस्थानात्समागच्छ पूजास्थानं महेश्वरि । यावत्पूजां करिष्यामि तावत्पीठे स्थिरा भव । इति सम्प्रार्थ्य तस्मिन्नञ्जलौ भगवतीं श्रीगायत्रीदेवीमागतां विभाव्य पीठसमीपमागत्य मूर्तौ पुष्पाञ्जलिं दत्वा पुनः पूर्ववत्तत्रावाहनादिमुद्राः प्रदर्शयेत् ॥ ततो यजमानो द्रव्यत्यागं कुर्यात् ॥ हस्ते जलं गृहीत्वा । मया संपादितानीमानि हवनीयद्रव्याणि या या यक्षमाणदेवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न मम । यथादैवतमस्तु ॥ ततो होमारम्भं कुर्यात् ॥॥ इति कुशकण्डिका समाप्ता ॥तत्रादौ गणपतये वराहुतिं दद्यात् । ॐ गणानान्त्वा० ॥१९/२३॥ ॐ गणपतये नमः स्वाहा ॥ तत आचार्यो नवग्रहादीनां समिच्चरुतिलाज्यद्रव्यैः प्रतिद्रव्यमेकं ब्राह्मणम् द्वौ बहून् बाऽऽहुतीनां प्रमाणेनोपवेश्य पूर्वकृतान्वाधानानुसारेण होमं कुर्यात् ॥॥ इति नवग्रहादीनां होमः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP