संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च Translation - भाषांतर सर्वे ब्राह्मणाः पङ्क्त्याकारेणोपविश्य आचमनं प्राणायामञ्च कृत्वा देशकालौ सङ्कीर्त्य अस्माकं यजमानेन ब्राह्मणद्वारा कृतस्य सप्रणवव्याहृतिचतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्यामुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थम् तथाच प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् अस्माभिश्च सप्रणवब्याहृतिश्रीगायत्रीमन्त्राणां जपदशांशेन कृतस्य होमकर्मणश्च परिपूर्णतार्थं तद्दशांशेन तर्पण्म पृथक् पृथक् करिष्यामहे । एवं सङ्कल्पं कृत्वा स्वस्वपात्रे शुद्धं जलं पूरयित्वा तत्र भगवत्याः श्रीगायत्रीदेव्याः पूजायन्त्रं विभाव्य गन्धाक्षतपुष्पाण्यादाय मूलमन्त्रमुच्चार्य । अस्मिञ्जले “ यन्त्रस्वरूपिण्यै भगवत्यै श्रीगायत्रीदेव्यै नमः ” भगवतीं श्रीगायत्रीदेवीं सर्वोपचारार्थे गन्धाक्षतपुष्पैः पूजयामि । इति सम्पूज्य । सप्रणवव्याहृतिगायत्रीमूलमन्त्रमुच्चारयन् प्रतिमन्त्रं ‘ भगवतीं श्रीगायत्रीदेवीं तर्पयामि ’ इति देवतीर्थेन तर्पयेत् ॥ एवं होमदशांशेन तर्पणं कृत्वा । हस्ते जलं गृहीत्वा । अस्माभिः कृतेन होमदशांशेन तर्पणेनानेन भगवती श्रीगायत्रीदेवी प्रीयतां न मम । ततस्तर्पणानन्तरं तस्मात् भगवतीं श्रीगायत्रीदेवीं स्वहृदि विसृज्य तर्पणजलं विसृजेयुः । ततो मार्जनम् ॥ सर्वे ब्राह्मणा आचमनं प्राणायामञ्च कृत्वा । हस्ते जलं गृहीत्वा सङ्कल्पं कुर्युः । देशकालौ सङ्कीर्त्य । अस्माकं यजमानेन ब्राह्मणद्वारा कृतस्य सप्रणवव्याहृतिचतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्यामुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थं प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः सांगतासिद्ध्यर्थं च तर्पणदशांशेन गायत्र्या मूलमंत्रेण पृथक् पृथक् मार्जनं करिष्यामहे ॥ एवं सङ्कल्पं विधाय पात्रे शुद्धं जलं पूरयित्वा हृदि गन्धाक्षतपुष्पैर्गायत्रीमावाह्य सप्रणवव्याहृतिचतुर्विंशतिवर्णसहितं गायत्रीमन्त्रमुच्चार्य प्रतिमन्त्रं भगवतीं श्रीगायत्रीदेवीं ( मार्जयामि ) अभिषिञ्चामि । इति पठन्तः स्वशिरसि अभिषेकं कुर्युः ॥ तर्पणानन्तरं हस्ते जलं गृहीत्वा । अस्माभिः कृतेनानेन मार्जनेन भगवती श्रीगायत्रीदेवी प्रीयतां न मम । इति जलं भगवत्यै श्रीगायत्रीदेव्यै निवेद्य ततो देवीं विसृज्य तज्जलं शुद्धदेशे विसृजेयुः ॥॥ इति होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP