संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ श्रीगायत्रीकवचम् श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ श्रीगायत्रीकवचम् श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ श्रीगायत्रीकवचम् Translation - भाषांतर श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच ॥ स्वामिन्सर्वजगन्नाथ संशयोऽस्ति महान्मम ॥ चतुष्पष्टिकलानां च पातकानां च तद्वद ॥१॥मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ॥ देहश्च देवतारूपं मंत्ररूपं विशेषतः ॥२॥क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ॥ ब्रह्मोवाच ॥ गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥३॥ऋग्यजुःसामाथर्वाणि च्छंदांसि परिकीर्त्तिताः ॥ परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ॥४॥रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ सर्वं सर्वत्र संरक्षेत्सर्वांगं भुवनेश्वरी ॥५॥बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च ॥ पुरुषार्थविनियोगो यो नश्च परिकीर्तितः ॥६॥ऋषिं मूर्ध्निं न्यसेत्पूर्वं मुखे छंद उदीरितम् ॥ देवता हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ॥७॥शक्तिं पदोस्तु विन्यस्य नाभौ तु कीलकं न्यसेत् ॥ द्वात्रिंशत्तु महाविद्याः सांख्यायनसगोत्रजाः ॥८॥द्वादशलक्षसंयुक्ता विनियोगः पृथवपृथक् ॥ एवं न्यासविधिंकृत्वा करांगं विधिपूर्वकम् ॥९॥व्याहृतित्रयमुच्चार्य अनुलोमविलोमतः ॥ चतुरक्षरसंयुक्तं करांगन्यासमाचरेत् ॥१०॥आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ॥ सा पातु वरदा देवी अंगप्रत्यंगसंगमे ॥११॥ध्यानं मुद्रां नमस्कारं गुरुमंत्रं तथैव च ॥ संयोगमात्मसिद्धिञ्च षड्विधं किं विचारयेत् ॥१२॥अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामाथर्वाणि छंदांसि परब्रह्मस्वरूपिणी गायत्री देवता भूः बीजं भुवः शक्तिः स्वाहा कीलकं श्रीगायत्रीप्रीत्यर्थं जप विनियोघ ॥ वर्णास्त्रां कुंडिकाहस्तां शुद्धनिर्मलज्योतिषीम् ॥ सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥१३॥अथ ध्यानम् ॥ क्मुक्ताविद्रुमहेमनीलधवलच्छाअयैर्मुखैस्त्रीक्षणैर्युक्तामिंदुनिबद्धरत्नमुकुटां तत्त्वार्थवराण्त्मिकाम् ॥ गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गुणं शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे ॥१॥ॐगायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ॥ ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥१॥पावकीं मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ॥ यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥२॥पावमानीं दिशं रक्षेत्पवमानविलासिनी ॥ दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥३॥ऊर्ध्वं ब्रह्माणि म रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी ॥४॥ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ॥ ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षकः ॥५॥ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ॥ सप्त व्याहृतयः पांतु सर्वदा बिंदुसंयुताः ॥६॥वेदमाता च मां पातु सरहस्या सदैवता ॥ देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥७॥चतुष्पष्टिकलाविद्या दिव्याद्या पातु देवता ॥ बीजश क्तिश्च मे पातु पातु विक्रमदेवता ॥८॥तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् ॥ वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥९॥देवस्य मे तु हृदयं धीमहीति गलं तथा ॥ धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥१०॥ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् ॥ तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ॥११॥चक्षुषी मे विकारस्तु श्रोत्रं रक्षेतुकारकः ॥ नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ॥१२॥णिकारस्त्वधरोष्टे च यकारस्तूर्ध्व ओष्ठके ॥ आस्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ॥१३॥देकारः कंठदेशे च वकारः स्कंधदेशयोः ॥ स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥१४॥मकारो हृदयं रक्षेद्धिकारो जठरं तथा ॥ धिकारो नाभिदेशं तु योकारस्तु कटीद्वयम् ॥१५॥गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ॥ प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः ॥१६॥दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ॥ जातवेदिति गायत्री त्र्यंबकेति दशाक्षरा ॥१७॥सर्वतः सर्वदा पातु आपो ज्योतीति षोडशी ॥ इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥१८॥चतुष्पष्टिकलाविद्यासकलैश्वर्य्यसिद्धिदम् ॥ जपारंभे च हृदयं जपांते कवचं पठेत् ॥१९॥स्त्रीगोब्राह्मणमिस्त्रादिरोहाद्यखिलपातकैः ॥ मुच्यते सर्वपापेभ्यः परं ब्रह्माध्गच्छति ॥२०॥पुष्पांजलिं च गायत्र्या मूलेनैव पठेत्सकृत् ॥ शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥२१॥भूर्जपत्रे लिखित्वैतत्स्वकंठे धारयेद्यदि ॥ शिखायां दक्षिणे बाहौ कंठे वा धारयेद् बुधः ॥२२॥त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ॥ पुत्रवान्धनवाञ्छ्रीमान्नानाविद्यानिधिर्भवेत् ॥२३॥ब्रह्मास्त्रादीनि सर्वाणि तदंगस्पर्शनात्ततः ॥ भवंति तस्य तुच्छानि किमन्यत्कथयामि ते ॥२४॥अभिमंत्रितगायत्रीकवचं मानसं पठेत् ॥ तज्जलं पिबतो नित्यं पुरश्चर्य्याफलं भवेत् ॥२५॥लघुसामान्यकं मंत्रं महामंत्रं तथैव च ॥ यो वेत्ति धारणां युञ्जञ्जीवन्मुक्तः स उच्यते ॥२६॥सप्तव्याहृति विप्रेन्द्र सप्तावस्थाः प्रकीर्तिताः ॥ सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥२७॥प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ॥ सर्वेषामेव पापानां संकरे समुपस्थिते ॥२८॥शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ॥ दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥२९॥भक्तिभाजो भवेद्विप्रः संध्याकर्म समाचरेत् ॥ काले काले प्रकर्त्तव्यं सिद्धिर्भवति नान्यथा ॥३०॥प्रणवं पूर्वमृद्धृत्य भूर्भुवः स्वस्तथैव च ॥ तुर्येण सह गायत्रीजप एवमुदाहृतम् ॥३१॥तुरीयपादमुत्सृज्य गायत्रीं च जपेद् द्विजः ॥ स मूढो नरकं याति कालसूत्रमधोगतिः ॥३२॥मंत्रादौ जननं प्रोक्तं मंत्रान्ते मृतसूतकम् ॥ उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥३३॥मंत्रादौ पाशबीजं च मंत्रांते कुशबीजकम् ॥ मंत्रमध्ये तु या माया गायत्री सफला भवेत् ॥३४॥वाचिकस्त्वहमेव स्यादुपांशु शतमुच्यते ॥ सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥३५॥अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ॥ जपं चाक्षररूपेणानामिकामध्यपर्वणि ॥३६॥अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ॥ तर्ज्जनीमूलपर्य्यंतं गायत्रीजपलक्षणम् ॥३७॥पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ॥ गायत्रीवेदमूलत्वाद्वेदः पर्वसु गीयते ॥३८॥दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ॥ त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥३९॥प्रातःकालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति ॥ नादालये समाधिश्च संध्यायां समुपासते ॥४०॥अंगुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलंघने ॥ असंख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥४१॥विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ॥ वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥४२॥गायत्रीं तु परित्यज्य अन्यमंत्रमुपासते ॥ सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥४३॥ऋषिश्छंदो देवताख्या बीजं शक्तिश्च कीलकम् ॥ नियोगं न च जानाति गायत्री निष्फला भवेत् ॥४४॥वर्णमुद्राध्यानपदमावाहनविसर्ज्जनम् ॥ दीपं चक्रं न जानाति गायत्री निष्फला भवेत् ॥४५॥शक्तिन्यासस्तथा स्थानं मंत्रसंबोधनं परम् ॥ त्रिविधं यो न जानाति गायत्री निष्फला भवेत् ॥४६॥पंचोपचारकांश्चैव होमद्रव्यं तथैव च ॥ पंचांगं च विना नित्यं गायत्री निष्फला भवेत् ॥४७॥मंत्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषितम् ॥ व्यासो वाचस्पतिर्जीवस्तुता देवी तपःस्मृतौ ॥४८॥सहस्रजप्ता सा देवी ह्युपपातकनाशिनी ॥ लक्षजाप्ये तथा तच्च महापातकनाशिनी ॥ कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥४९॥न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥५०॥इति श्रीमद्वसिष्ठसंहितायां श्रीगायत्रीकवचं सम्पूर्णम् ॥ N/A References : N/A Last Updated : December 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP