संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ भूतशुद्धिः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ भूतशुद्धिः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ भूतशुद्धिः Translation - भाषांतर स्वाङ्के उत्तानौ करौ कृत्वा कुण्डलिनीं ध्यायेत् ॥ मूलाधारचतुर्दलकमलकर्णिकान्तर्गतत्रिकोणान्तरस्थाम् अधोमुखीं स्वयं भूलिङ्गवेष्टिनीं प्रसुप्तभुजङ्गाकारां शङ्खाकारेण सार्धत्रिवलयां तडित्कोटिनिभां नीवारांशुकतन्वीं मूलविद्याप्रकृतिमयीं कुण्डलिनीम् इष्टदेवतारूपां ध्यात्वा हुंकारेण त्रिकोणाग्निना सचेतनां कृत्वा स्वयं भूलिङ्गमध्यवर्तिसुषुम्णामार्गेण ऊर्ध्वगां कृत्वा मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्याज्ञाचक्राणि भेदयित्वा सहस्रारस्थपरमशिवे जीवात्मना सह कुण्डलिनीं हंसः सोऽहम् इति मन्त्रेण संयोज्य मातृकोपसंहारं कुर्यात् ॥ तद्यथा ॥ क्षकारं ळकारे उपसंहरामि ॥ ळकारं हकारे उपसंह० ॥ हकारं सकारे उप० । सकारं षकारे उप०॥ षकारं शकारे उप० ॥ शकारं वकारे उप० ॥ वकारं लकारे उप० ॥ लकारं रकारे उप० ॥ रकारं यकारे उप० ॥ यकारं मकारे उप० ॥ मकारं भकारे उप० ॥ भकारं बकारे उपसं० ॥ बकारं फकारे उप० ॥ फकारं पकारे उप० ॥ पकारं नकारे उप० ॥ नकारं धकारे उप० ॥ धकारं दकारे उप० ॥ दकारं थकारे उपसं० ॥ थकारं तकारे उप० ॥ तकारं णकारे उप० ॥ णकारं ढकारे उप० ॥ ढकारं डकारे उप० ॥ डकारं ठकारे उप० ॥ ठकारं टकारे उपसं० ॥ टकारं अकारे उप० ॥ ञकारं झकारे उप० ॥ झकारं जकारे उप० ॥ जकारं छकारे उप० ॥ छकारं चकारे उप० ॥ चकारं ङकारे उप० ॥ ङकारं घकारे उप० ॥ घकारं गकारे उप० ॥ गकारं खकारे उप० ॥ खकारं ककारे उप० ॥ ककारम् अःकारे उप० ॥ अःकारम् अंकारे उपसं० ॥ अंकारम् औकारे उप० ॥ औकारम् ओकारे उप० ॥ ओकारम् ऐकाए उप० ॥ ऐकारम् एकारे उप० ॥ एकारं लृकारे उप० ॥ लृकारं लृकारे उप० ॥ लृकारम् ऋकारे उप० ॥ ॠकारम् ऋकारे उप० । ऋकारम् ऊकारे उप० ॥ ऊकारम् उकारे उप० ॥ उकारम् ईकारे उप० ॥ ईकारम् इकारे उप० ॥ इकारम् आकारे उप० ॥ आकारम् अकारे उपसं० ॥ अकारं ब्रह्मरन्ध्रे सहस्रकर्णिकान्तर्गतपरमात्मनि लयं गत इति भावयेत् ॥ इति मातृकोपसंहारः ॥ अथ भूतोपसंहारः ॥ पादादि जानुपर्यन्तं पृथिवीमण्डलं चतुरस्रं पीतवर्णं वज्रलाञ्छितं लंबीजं पादगमनघ्राणगन्धब्रह्मनिवृत्तिकलासमानवायुयुतं विभाव्य ॐ ब्रह्मणे पृथिव्या अधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा ॥ कुण्डलिनीद्वारा पृथिवीम् अप्सु प्रविलापयामि ॥ ततो जान्वादि नाभिपर्यन्तम् अपां मण्डलं श्वेतवर्णम् अर्द्धचन्द्राकारं पद्मद्वयलाञ्छितं वंबीजं वारुणं हस्तग्रहणरसनारसविष्णुप्रतिष्ठाकलादैवतम् उदानवायुयुतं ध्यात्वा क्लीं विष्णवे प्रतिष्ठाकलात्मने हुं फट् स्वाहा ॥ अफ अग्ना प्रविलापयामि ॥ ततो नाभ्यादि हृदयपर्यन्तं वह्निमण्डलं रक्तवर्णं त्रिकोणं त्रिस्वस्तिकान्वितं रंबीजं पायुविसर्गचक्षुरूपशिवविद्याकलाव्यानवायुयुतं विभाव्य रुं रुद्राय विद्याकलात्मने हुं फट् स्वाहा ॥ अग्निं वायौ प्रविलापयामि ॥ ततो हृदयादि भ्रूमध्यपर्यन्तं वायुमण्डलं धूम्रवर्णं वर्तुंलं षड्बिन्दुलाञ्छितं यंबीजम् उपस्थानन्दत्वक्स्पर्शेशानशान्तिकलापानवायुयुतं विभाव्य ॐ ह्यैं ईशानाय शान्तिकलात्मने हुं फट् स्वाहा ॥ वायुमाकाशे प्रविलापयामि ॥ ततो भ्रूमध्याद्ब्रह्मरन्ध्रान्तम् आकाशमण्डलं नीलवर्णं स्वच्छं वर्तुलं हंबीजं वाक्वदनश्रोत्रशब्दसदाशिवशान्त्यतीतकलाप्राणवायुयुतं विभाव्य ॐहौं सदाशिवाय शान्त्यतीतकलात्मने हुं फट् स्वाहा ॥ आकाशम् अहंकारे प्रविलापयामि ॥ अहंकारं महत्तत्त्वे प्रवि० ॥ महत्तत्त्वं प्रकृतौ प्रविलापयामि ॥ प्रकृतिं नित्यशुद्धबुद्धस्वभावे सत्यज्ञानानन्तानन्दलक्षणे परमकारणे परब्रह्मणि प्रविलापयामि ॥ एवं भूतानि प्रविलाप्य आत्मानं चिन्तयेत् ॥ अहं देवो न चान्योऽस्मिन् ब्रह्मैवाहं न शोकभाक् ॥ सच्चिदानन्दरूपोऽहं निर्विकल्पः स्वभाववान् ॥ एवं ब्रह्मरूपं विभाव्य वामकुक्षौ पापपुरुषं चिन्तयेत् ॥ शुद्धसंचिन्मयो भूत्वा चिन्तयेत्पापपूरुषम् ॥ वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥१॥ब्रह्महत्याशिरःस्कन्धं स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदायुक्तं गुरुतल्पकटीयुतम् ॥२॥तत्संयोगिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥३॥खङ्गचर्मधरं क्रुद्धं पुरुषं कज्जलप्रभम् ॥ अधोमुखं कृष्णवर्णं पिङ्गाक्षं शूलपाणिनम् ॥४॥सदा वै संस्थितं ह्येवं वामकुक्षौ विचिन्तयेत् ॥५॥एवं पापपुरुषं विचिन्त्य यमादिबीजेन प्राणायामं कुर्यात् ॥ हस्ते जलं गृहीत्वा ॥ यमिति वायुबीजस्य किष्किन्ध ऋषिः । बृहतीच्छन्दः । वायुर्देवता । पापपुरुषशोषणे विनियोगः ॥ पुनर्जलमादाय ॥ रमिति अग्निबीजस्य कश्यप ऋषिः । त्रिष्टुप् छन्दः । जातवेदोऽग्निर्देवता । पापपुरुषदहने विनियोगः ॥ पुनर्जलं गृहीत्वा ॥ यमिति वायुबीजस्य किष्किन्ध ऋषिः बृहतीच्छन्दः । वायुर्देवता ॥ पापपुरुषभस्मरेचने विनियोगः ॥ यं १६, रं ६४, यं ३२, वारमिति पूरककुंभकरेचकक्रमेण प्राणायामं कुर्यात् ॥ ततो वमिति वरुणबीजस्य हिरण्यगर्भ ऋषिः । त्रिष्टुप्छन्दः । वरुणो देवता । पापपुरुषस्य भस्मप्लावने विनियोगः । ततो लमिति पृथिवीबीजस्य ब्रह्मा ऋषिः । गायत्रीच्छन्दः । इन्द्रो देवता । पापौरुषस्य भस्मकठिनीकरणे विनियोगः ॥ ततो हमिति आकाशबीजस्य शिव ऋषिः । अव्यक्ता गायत्रीछन्दः । परमशिवो देवता । पापपुरुषस्य अङ्गान्युत्पादने विनियोगः ॥ एवं वं ३२ वारं, लं ६४ वारं, हं १६ वारं, जप्त्वा प्राणायामं कुर्यात् ॥ एवं स्वशरीरं विचिन्त्य परमात्मनः सकाशात्सृष्टिक्रमेण तत्त्वानि स्वस्थाने स्थापयेत् ॥ यथा - परब्रह्मणः सकाशात्प्रकृतिस्वरूपा माया प्रादुर्भूता । तस्याः सकाशान्महत्तत्त्वम् । महत्तत्त्वादहंकारः । अहङ्कारात् आकाशः । आकाशाद्वायुः । वायोरग्निः । अग्नेः आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधिभ्यः अन्नम् ॥ अन्नाद्रेतः । रेतसः पुरुषः ॥ एवं स्वशरीरं तेजोमयं पुण्यात्मकं सकलपुरुषार्थसाधकं निरस्तकिल्बिषं श्रीगाय्त्रीदेवताराधनयोग्यम् उत्पन्नमिति भावयेत् ॥ ततो हंसः सोऽहम् इति मन्त्रेण परब्रह्मणः सकाशात् पृथग्भूतां कुण्डालिनीशक्तिं मूलाधारगतां चिन्तयेत् ॥ एवं पञ्च भूतानि संस्थाप्य न्यासान्कुर्यात् ॥ ॐ हौ सदाशिवाय आकाशाधिपतये नमो मूर्ध्नि ॥ ॐ ह्यैं ईशानाय वायोरधिपतये नमो मुखे ॥ ॐ रुं रुद्राय तेजोधिपतये नमो हृदि ॥ ॐ ह्रीं विष्णवे अपामधिपतये नमो गुह्ये ॥ ॐ ब्रह्मणे पृथिव्या अधिपतये नमः पादयोः ॥ इति भूतशुद्धिः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP