संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च

अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ पुरश्चरणलक्षणम् ॥ पूजा त्रैकाळिकी नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ यत्र पूर्वोक्तानि लक्षणानि तत्पुरश्चरणम् ॥ वैशंपायनसंहितायां जपसंख्या ॥ लभतेऽभिमतां सिद्धिं चतुर्विंशतिलक्षतः । जपो ह्ययुतसंख्याकैरथवा च सहस्रकैः ॥१॥
अयुतं सहस्रं वा स्वयं ब्राह्मणद्वारा वा प्रत्यहं जपं कुर्यादित्यर्थः ॥ एके तु कलौ षण्णवतिलक्षजपात्मकमेव गायत्रीपुरश्चरणं कर्तव्यम् इति वदन्ति ॥ तथैव स्वस्य्होमाशक्तावपि - होमाशक्तौ जपं कुर्युर्होमसंख्याचतुर्गुणम् ॥ षड्गुणं चाष्टगुणितं यथासंख्यं द्विजातयः ॥१॥
उक्तजपसंख्यातो ब्राह्मणक्षत्रियवैश्यैर्यथाक्रमं होमसाङ्गतासिद्ध्ये चतुःषडष्टगुणितोऽधिको जपः कार्यः । अस्मिन्कलियुगे द्विजातिभिः पुरश्चरणविधौ चिकीर्षितमंत्रस्य शास्त्रोक्तमंत्रजपसंख्यातः स्वेन ब्राह्मणद्वारा चतुर्गुणितस्त्ववश्यमेव जपः कर्तव्यः तत्र प्रमाणम् ॥ “ कल्पोक्तैव कृते संख्या त्रेतायां द्विगुणा भवेत् ॥ द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा ॥ ” कल्पोक्ता इति पदेन तत्तच्छास्त्रोक्ता इति ज्ञेयम् ।

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP