संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च

वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


जापकाश्च द्विजाः शुद्धाः कुलीना ऋजवस्तथा ॥ सन्ध्यास्नानरता नित्यं शौचाचारपरायणाः ॥१॥
श्रोत्रियाः सत्यवाचश्च वेदशास्त्रार्थ्कोविदाः ॥ अक्रोधनाः पुराणज्ञाः सततं ब्रह्मचारिणः ॥२॥
देवध्यानरता नित्यं प्रसन्नमनसः सदा ॥ इत्यादिगुणसंयुक्ता जापका मन्त्रसिद्धिदाः ॥३॥
॥ अथाधोलिखितलक्षणसंपन्ना ब्राह्मणा जपकर्मणि सर्वथा वर्जनीयाः ॥
नास्तिकान्भिन्नमर्यादान्कृतघ्नान्वेदनिन्दकान् ॥ स्नानसन्ध्याविहीनॉंश्च दूरतः परिवर्जयेत् ॥४।
पुरश्चरणदीपिकायान्तु व्यसनिनः अधिकाङ्गा हीनाङ्गा अतिकृष्णा गोलका गुरुद्विजातिनिन्दकाः परापवादरता इत्यादिदोषदुष्टा हेया इत्युक्तम् ॥ व्यसनिन इत्यादिगणना त्वस्माभिः संक्षेपतः कृता परञ्च स्वधर्मरहितास्त्याज्या एव ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP