संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ वरणश्राद्धम्

अथ वरणश्राद्धम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


आचम्य प्राणानायम्य यजमानो हस्ते जलं गृहीत्वा देशकालौ सङ्कीर्त्य ‘ वृतानां ब्राह्मणानां वरणश्राद्धं करिष्ये ’ इति संकल्प्य ततो दिग्बन्धनं कुर्यात् । ॐ स्वस्तिनऽइन्द्रो व्वृद्धश्रवाx० ॥१९/२५॥ पुनर्हस्ते जलं गृहीत्वा । ‘ वरणश्राद्धोपहाराः शुचयो भवन्तु ’ इति तेन जलेन वरणश्राद्धोपहाराणां प्रोक्षणं कुर्यात् ॥ पुनर्जलं गृहीत्वा । “ आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्य इदमासनम् । आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्य दत्तानि दास्यमानानि गन्धमाल्यादीनि वस्त्रयुग्मोपवीतकुण्डलमुद्रिकाकेयूरांगदकंठाभरणादीनि यथादैवतानि ( तन्निष्कयद्रव्यं वा ) स्वाहा संपद्यन्तां न मम ॥ ” पुनर्जलमादाय । ‘ कर्मणः आसमाप्ति दास्यमानानि सिद्धान्नानि आमान्नानि वा आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्यः स्वाहा संपद्यन्तां न मम । ’ पुनर्जलं गृहीत्वा । ‘ अस्य वरणश्राद्धस्य साङ्गतासिद्ध्यर्थं यथाशक्ति गोनिष्क्रयीभूतं द्रव्यम् आचार्यादिभ्यः सर्वेभ्य ऋत्विग्भ्यः स्वाहा संपद्यतां न मम ॥ ’ ततो यजमानः करसंपुटौ कृत्वा वदेत् ॥ यस्य विप्रस्य यो भागः स तेन प्रतिगृह्यताम् । पुनः प्रार्थयेत् ॥ “ अस्य ऋत्विग्वरणविधेर्यन्न्यूनातिरिक्तं तत्सर्वं गणेशाम्बिकयोः प्रसादाद्भवतां ब्राह्मणानां वचनाच्च परिपूर्णमस्तु ॥ ” ‘ अस्तु परिपूर्णमि’ति सर्वे ऋत्विजः प्रतिब्रूयुः ॥ ततः स्वस्तिन‍ऽइन्द्रो व्वृद्धश्रवाx० ॥१९/२५॥ इति सपत्नीकस्य यजमानस्य भाले तिलकं कुर्यात् ॥ तत आचारात् यजमानस्य दक्षिणहस्ते । ॐ यदा बद्ध्नन्दाक्षायणा० ॥५२/३४॥ इति कङ्कणबन्धनम् ॥ तथैव । ॐ तम्पत्क्नीभि० ॥५०/१५॥ इति मंत्रेण यजमानपत्न्या वामहस्ते कङ्कणबन्धनं कुर्यात् ॥ तत आचार्यो यजमानमूर्धानि - ॐ काण्डात्काण्डात्त्प्ररोहन्ती० ॥२०/२३॥ इति मंत्रेण दूर्वया मार्जनं कुर्यात् । ततो यजमानो दधिक्राव्ण्ण० ॥३२/२३॥ इति मंत्रेण दधिवन्दनं कुर्यात् ॥ आचार्यः ॐ याx फलिनीर्य्या० ॥८९/१२॥ इति मंत्रेण यजमानाय फलसमर्पणं कुर्यात् ॥
॥ इति वरणश्राद्धम् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP