संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः Translation - भाषांतर अथ गायत्रीपुरश्चरणं चिकीर्षुर्यजमानो तदधिकारार्थ गायत्रीपुरश्चरणप्रारम्भदिनात्पूर्वं कस्यांचिद्रिक्तायां तिथौ पूर्वदिने तद्दिने वा स्वपापक्षयपूर्वकमात्मशुद्ध्यर्थं प्रायश्चित्तं कुर्यात् ॥ तद्यथा - संभृतप्रायश्चित्तद्रव्यसंभारो यजमानो नद्यादौ कृतस्नानो सश्रद्धो वेदधर्मशास्त्रविदां वेदविदां वा चतुरस्त्रीन् वाऽध्यात्मविदो विप्रान् एकं वा पर्षत्त्वेनोपवेश्य स्वयं प्रायश्चित्ती आचमनं प्राणायामञ्च विधाय देशकालौ संकीर्त्य करिष्यमाणप्रायश्चित्तांगतया सचैलं स्नानं करिष्ये । इति संकल्प्य । सपत्नीकः स्नानं विधाय क्लिन्नवासाः पर्षदः समीपं गत्वा तां प्रदक्षिणीकृत्य हृदयेन दूयमानः पर्षदं साष्टाङ्गं प्रणमेत् ॥ ततस्तैः ‘ किं ते कार्यं ? मिथ्या मा वादीः सत्यमेव वद ’ इत्यादौ पृष्टे पर्षदग्रे प्रत्येकं गोवृषयोः प्रत्याम्नायत्वेन यथाशक्ति सुवर्णरौप्ययोर्निष्कं तदर्धं वा द्रव्यं निधाय ‘ अमुकशर्मणो मम जन्मप्रभृत्यद्ययावज्ज्ञाताज्ञातकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरनप्रकीर्णकपातकानां महापातकव्यतिरिक्तानां निरासार्थमनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्तः ’ इति कथयित्वा तान् प्रार्थयेत् ॥ आब्रह्मस्तम्बपर्यन्तं भवद्वशमिदं जगत् । यक्षरक्षःपिशाचादि सदेवासुरमानुषम् ॥१॥सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः ॥ मम देयस्य संशुद्धि कुर्वन्तु द्विजसत्तमाः ॥२॥मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ॥ प्रसादः क्रियतां मह्य शुभानुज्ञां प्रयच्छत ॥ पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमैः ॥३॥एवं तान् संप्रार्थ्य तदनंतरं ‘ मामनुगृह्णन्तु भवन्तः ’ इति वदन् प्रणमेत् ॥ ततस्ते पर्षदि स्थिता विप्राः तस्य शरीरद्रव्यादिशक्तिं विचार्य पुस्तकवाचनपूर्वकं प्रायश्चित्तम् अनुवादकस्याग्रे कथयेयुः प्रत्याम्नायांश्च शक्त्या कल्पयेयुः ॥तत्रादौ पुस्तकपूजनं कुर्यात् ॥ ॐ पावकानx सरस्वतीव्वाजेभिर्व्वाजिनीवती । यज्ञं व्वष्ट्टुधियावसुx ॥८४/२०॥ श्रीसरस्वत्यै नमः आवा० सम० इत्यादिकं यथावकाशं विशेषार्घ्यपर्यन्तं पूजमं विधाय पर्षदुपदिष्टस्यानुवादकस्यापि यथाविभव पूजनं कुर्यात् । यथा - ॐइदं व्विष्ण्णु० ॥१५/५॥ अनुवादकाय नमः इति गन्धाद्युपचारान् दक्षिणाञ्च समर्पयामि इति दत्त्वा तदग्रे स्वशक्त्यनुसारेण स्वपापानुसारेण च पर्षदुपदिष्टं द्रव्यं भृतिरूपं निधाय स्वयं स्वासने करसंपुटौ कृत्वा अनुवादकद्वारा पर्षदुपदिष्टं प्रायश्चित्तं शृणुयात् । तद्यथा । अनुवादको ब्रूयात् - भो यजमान ! तव करिष्यमाणगायत्रीपुरश्चरणकर्मन्यधिकारार्थं पूर्वोक्तानां महापातकव्यतिरिक्तानां तव पापानाम् अनेन अमुकप्रत्याम्नायद्वारा पर्षदुपदिष्टेन अमुकसर्वप्रायश्चित्तेन प्राच्योदीच्यांगसहितेनाचीर्णेन शुद्धिर्भविष्यति तेन त्वं कृतार्थो भविष्यसि ॥ एवं पुनर्द्विवारं श्रावयेत् । एवमनुवादकेन निवेदितं प्रायश्चित्तं प्रायश्चित्ती ‘ भवदनुग्रहः ’ इत्यङ्गीकृत्य सन्मानपूर्वकं प्रणम्य पर्षदं विसृजेत् ॥ अस्मिन्नहनि शक्तेनोपवासः कार्य इतरेण हविष्याशनम् ॥ततः प्रायश्चित्तं कुर्यात् तद्यथा - आचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणो मम जन्मप्रभृत्यद्यदिनं यावज्ज्ञातकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातअकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानां महापातकव्यतिरिक्तानां निरासेन श्रीपरमेश्वरप्रीत्यर्थममुकप्रायश्चित्तममुकप्रत्याम्नायेन प्राच्योदीच्याङ्गसहितं यथाशक्ति करिष्ये इति संकल्पं कुर्यात् ॥ ततः पुनर्जलमादाय । तत्रादौ प्रायश्चित्तस्य पापानि ब्रह्महत्यासमानि च ॥ केशानाश्रित्य तिष्ठंति तस्मात्केशान्वपाम्यहम् ॥ इति मन्त्रेण शिखाकक्षोपस्थवर्जं नखरोमाणि वापयित्वा शीतोदकेन स्नानं कृत्वा प्राङ्मुखो द्वादशाङ्गुलदीर्घौदुम्बरदन्तकाष्ठेन दन्तधावनं कुर्यात् । तत्र - आयुर्बलं यशो वर्चः दन्तकाष्ठं संप्रार्थ्य तेन च दन्तान्संशोध्य गण्डूषान् कृत्वा तूष्णीं स्नानाचमनं विधाय शरीरशुद्ध्यर्थं प्रायश्चिताङ्गीभूतं दशविधिस्नानं कुर्यात् ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP