संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः

अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


आचार्यः कश्चिद्विप्रो वा यजमानानुज्ञया हस्ते जलं गृहीत्वा । अस्मिन्कुण्डे ( यजमानानुज्ञया । पञ्चभूसंस्कारपूर्वकम् अग्निप्रतिष्ठां करिष्ये । इति संकल्प्य दक्षिणहस्ते दर्भपुञ्जं गृहीत्वोत्थाय दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं त्रिवारं परिसमूहनं कुर्यात् । तद्यथा । दर्भेः परिसमूह्य परिसमूह्य परिसमूह्य । एवं परिसमूहनं विधाय कुण्डाद्वहिः पूर्वस्यामीशान्यां वा दर्भत्यागः कुर्यात् । ततो दक्षिणहस्तेन गोमयमादाय पूर्ववत् दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं उपलेपनं कृत्वा हस्तें प्रक्षाल्य गोमयेन उपलिप्य उपलिष्य उपलिप्य । एवं त्रिवारम् उपलेपनं कृत्वा हस्तं प्रक्षाल्य दक्षिणहस्तेन स्रुवमादाय पूर्ववद्दक्षिणत आरभ्योदक्संस्थं पश्चिमतः प्रागन्तं स्रुवमूलेन त्रिरुल्लेखनं कुर्यात् ॥ तद्यथा स्रुवमूलेन उल्लिख्य उल्लिख्य उल्लिख्य । एवं त्रिवारमुल्लेखनं कृत्वाऽनामिकाङ्गुष्ठेन पूर्ववत् कुण्डतः पांसूनामुद्धरणं विदध्यात् । तद्यथा । अनामिकाङ्गुष्ठेन उद्धृत्य उद्धृत्य उद्धृत्य । एवं त्रिवारं पांसूनामुद्धरणं कृत्वा तान् प्राच्यां क्षिप्त्वा पूर्ववत् न्युब्जपाणिना जळेन त्रिवारम् अभ्युक्षणं कुर्यात् ॥ तद्यथा । उदकेन अभ्युक्ष्य अभ्युक्ष्य अभ्युक्ष्य । ततोऽग्निं स्थापयेत् । बहुपशोर्वैश्यस्य गृहात् श्रोत्रियागारात् सूर्यकान्तसम्भूतात् स्वकीयगृहाद्वा सुवासिन्या स्त्रिया आनीतं निर्धूमम् अन्यताम्रादिपात्रेणाच्छादितम् अग्निं कुण्डस्य आग्नेय्यां दिशि निधाय आच्छादितं पात्रम् उद्घाट्य “ हुं फट् ” इति क्रव्यादांशम् अग्निं नैरृत्यां दिशि परित्यज्य अग्निं कुण्डस्य उपरि त्रिवारं भ्रामयित्वा । ॐ अग्ग्निन्दूतम्पुरोदधेहव्व्यब्वाहमुपब्रुवे । देवॉं २ आसादयादिह ॥१७/२२॥ इति मन्त्रं पठन् कुण्डे स्वात्माभिमुखं शतमङ्गलनामानम् अग्निं स्थापयेत् ॥ ततोऽग्न्यानीतपात्रे साक्षतोदकं निषिच्य तत्र शिष्टाचारात्किञ्चिद्यथाशक्ति हिरण्यं रौप्यद्रव्यं वा निक्षिप्य तत् द्रव्यं यजमानपत्न्यै दद्यात् । ततोऽग्नौ आवाहनादिमुद्राः प्रदर्शयेत् ॥ भो अग्ने त्वम् आवाहितो भव । भो अग्ने त्वं संस्थापितो भव । भो अग्ने त्वं सन्निहितो भव । भो अग्ने त्वं सन्निरुद्धो भव । भो अग्ने त्वं सकलीकृतो भव । भो अग्ने त्वम् अवगुण्ठितो भव । भो अग्ने त्वम् अमृतीकृतो भव । भो अग्ने त्वं परमीकृतो भव ॥ इति तत्तन्मुद्राः प्रदर्श्य । अग्निम् इन्धनप्रक्षेपेण प्रज्वलितं कृत्वा करसम्पुटौ विधाय अग्निध्यानं कुर्यात् ॥ ॐ चत्त्वारिशृङ्गात्त्रयोऽअस्यपादाद्द्वेशीर्षेसप्प्तहस्तासोऽअस्य । त्त्रिधाबद्धोव्वृषभोरोरवीतिमहोदेवोमर्त्त्यॉं२ऽआविवेश ॥९१/१७॥ रुद्रतेजःसमद्भूतं द्विमूर्धानं द्विनासिकम् । षण्णेत्रं च चतुःश्रोत्रं त्रिपादं सप्तहस्तकम् ॥१॥
याम्यभागे चतुर्हस्तं सव्यभागे त्रिहस्तकम् । स्रुवं स्रुचञ्च शक्तिञ्च ह्यक्षमालाञ्च दक्षिणे ॥२॥
तोमरं व्यजनं चैव घृतपात्रञ्च वामके । बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं सप्तजिह्वकम् ॥३॥
याम्यायने चतुर्जिह्वं त्रिजिह्वं चोत्तरे मुखम् । द्वादशकोटिमूर्त्याख्यं द्विपञ्चाशत्कलायुतम् ॥४॥
आत्माभिमुखमासीनं ध्यायेच्चैवं हुताशनम् ॥ गोत्रमग्नेस्तु शाण्डील्यं शाण्डिल्यासितदेवलाः ॥५॥
त्रयोऽमी प्रवरा माता त्वरणी वरुणः पिता । रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ॥६॥
स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनम् । शतमङ्गलनामानं वह्निमावाहयाम्यहम् ॥७॥
त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते । आगच्छ भगवन्नग्ने कुण्डेऽस्मिन्सन्निधो भव ॥८॥
भो वैश्वानर शाण्डिल्यगोत्र शाण्डिल्यासितदेवलेतित्रिप्रवरान्वित भूमिमातः वरुणपितः ललाटजिह्व मेषध्वज प्राड्मुख मम सम्मुखो भव ॥ इति ध्यात्वा हस्तेऽक्षतान् गृहीत्वाऽऽवाहयेत् । तद्यथा । ॐ मनोजूतिर्जु० ॥१३/२॥ ॐ शतमङ्गलनामाग्ने सुप्रतिष्ठितो वरदो भव ॥ ततो गन्धाक्षतपुष्पाण्यादाय पूजनं कुर्यात् । ॐ भूर्भुवः स्वः शतमङ्गलनाम्ने वैश्वानराय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० । इति कुण्डस्य नैरृत्यकोणे मध्ये वा अग्निं सम्पूज्य प्रार्थयेत् ॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । हिरण्यवर्णममलं समिद्धं विश्वतोमुखम् ॥
॥ इति पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP