संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ नूतनयज्ञोपवीतधारणविधिः

अथ नूतनयज्ञोपवीतधारणविधिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अत्र केचन शिष्टाः प्रायश्चित्तिनो नूतनयज्ञोपवीतधारणमपि कारयन्ति ॥ तद्यथा । प्रायश्चित्ती आचम्य प्राणायामं कृत्वा देशकालौ स्मृत्वा करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारार्थं नूतनयज्ञोपवीतधारणं करिष्ये, इति संकल्प्य ततो यज्ञोपवीतम् आपोहिष्ठेति त्रिभिर्मंत्रैः संप्रोक्ष्य पात्रे धृत्वा ॐइदं व्विष्णु० ॥१५/५॥ इतिमंत्रेण यज्ञोपवीतसूत्रस्य त्रिगुणीकरणं कुर्यात् ॥ ततो दशगायत्र्याऽभिमंत्र्य तन्तुषु देवतानामावाहनं कुर्यात् ॥ प्रथमतन्तौ - ॐ कारम् आवाहयामि ॥१॥
द्वितीयतन्तौ - ॐ अग्न्ग्निन्दूतं० ॥१७/२२॥ अग्निमावाहयामि ॥२॥
तृतीयतन्तौ - ॐ नमोस्तुसर्प्पेब्भ्यो० ॥६/१३॥ सर्पानावाहयामि ॥३॥
चतुर्थतन्तौ - ॐव्ययx सोम० ॥५६/३॥ सोममावाहयामि ॥४॥
पंचमतन्तौ - उदीरतामवर० ॥४९/१९॥ पितॄनावा० ॥५॥
षष्ठतन्तौ - ॐ प्रजापतेनत्व० ॥६५/२३॥ प्रजापतिमावाहयामि ॥६॥
सप्तमतन्तौ - ॐ आनोनियुद्भिः० ॥२८/२७॥ अनिलमावाहयामि ॥७॥
अष्टमतन्तौ - ॐ यमाय त्वा० ॥९/३८॥ यममावाहयामि ॥८॥
नवमतन्तौ - ॐ व्विश्वेदेवा स० ॥ ३४/७॥ विश्वान् देवानावाहयामि ॥९॥
ततो यज्ञोपवीतग्रन्थिषु ब्रह्मादिदेवतानामावाहनम् ॥ ग्रन्थिमध्ये ॥ ॐ ब्रह्मजज्ज्ञानं० ॥३/१३॥ ॐ ब्रह्मणे नमः ब्रह्माणमावाहयामि ॥१॥
ग्रन्थिमध्ये - ॐ इदं व्विष्ण्णुर्व्वि० ॥१५/५॥ ॐ विष्णवे नमः विष्णुमावाहयामि ॥२॥
ग्रन्थिमध्ये - ॐ नमस्ते रुद्द्र० ॥१/१६॥ ॐ रुद्राय नमः रुद्रमावाहयामि ॥३॥
ॐ मनोजूतिर्ज्जुषता० ॥१३/१॥ इति प्रणवादितन्तुग्रन्थिदेवता यथास्थानं सुप्रतिष्ठिता वरदा भवत ॥ ॐ प्रणवादितन्तुदेवतासहितग्रन्थिदेवता यथास्थानं सुप्रतिष्ठिता वरदा भक्त ॥ ॐ प्रणवादितन्तुदेवतासहितग्रन्थिदेवताभ्यो नमः गन्धाक्षतपुष्पाणि समर्पयामि ॥ इति गन्धाक्षतपुष्पैर्मनसा वा संपूज्य यज्ञोपवीतं ध्यायेत् ॥ ॐ प्रजापतेर्यत्सहजं पवित्रं कार्पाससूत्रोद्भवब्रह्मसूत्रम् ॥ ब्रह्मत्वसिद्ध्यै च यशःप्रकाशं जपस्य सिद्धिं कुरु ब्रह्मसूत्रम् । एवं ध्यात्वोपवीतं हस्तयोर्धृत्वा सूर्याय प्रदर्शयेत्त ॥ ॐतच्चक्षुर्द्देवहितं० ॥२४/३६॥ हस्ते जलं गृहीत्वा ॥ ॐयज्ञोपवीतमितिमंत्रस्य परमेष्ठी प्रजापतिरृषिः त्रिष्टुप्छन्दः लिंगोक्ता देवता नूतनयज्ञोपवीतधारणे विनियोगः ॥ ॐयज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात् ॥ आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ॥ इत्यनेन मंत्रेण स्वदक्षिणबाहुमूर्द्ध्वमुद्धृत्य यज्ञोपवीतं धृत्वा आचमेत् ॥ अन्यान्यपि एवंरीत्या पृथक् पृथक् धृत्वाऽऽचामेत् ॥ पश्चाज्जीर्णसूत्रत्यागः ॥ एतावहिनपर्यन्तं ब्रह्मत्वं धारितं मया ॥ जीर्णत्वात्त्वत्परित्यागो गच्छ सूत्र यथासुखम् ॥
इति शिरोमार्गेण जीर्णयज्ञोपवीतं निःसार्य शुद्धभूमौ जले वा त्यजेत् ॥ ततो यथाशक्ति गायत्रीमन्त्रजपं कृत्वा हस्ते जलं गृहीत्वा ॥ अनेन नूतनयज्ञोपवीतधारणाङ्गत्वेन कृतेन गायत्रीमन्त्रजपकर्मणा भगवान् सविता सूर्यनारायणः प्रीयताम् ॥ अनेन नूतनयज्ञोपवीतधारणाख्येन कर्मणा मम करिष्यमाणगायत्रीपुरश्चरणकर्मण्यधिकारसिद्धिद्वारा श्रीभगवान् परमेश्वरः प्रीयताम् ॥
॥ इति नूतनयज्ञोपवीतधारणाविधिः ॥

एवं नूतनयज्ञोपवीतं धृत्वा मायश्चित्तिना तस्मिन्नहनि उपवासः कार्यः ॥ अशक्तौ हविष्याशी स्यात् ॥ स्वयमेव गायत्रीपुरश्चरणकर्ता चेत् प्रथमदिवसे कृतप्रायश्चित्तो द्वितीयदिवसे स्वकीयं संध्यादि प्रातःकृत्यं विधाय हस्ते जलं गृहीत्वा ॥ देशकालौ संकीर्त्य करिष्यमाणामुकसंख्याकगायत्रीपुरश्चरणकर्मणि मम जपानुष्ठानयोग्यताप्राप्त्यर्थं मंत्रसिद्ध्यर्थञ्च सव्याहतिगायत्रीमंत्रस्यायुतसंख्याकं जपमहं करिष्ये । एवं संकल्पं विधाय जपं स्वयं ब्राह्मणद्वारा वा कुर्यात् ॥ तदनन्तरं गायत्रीपुरश्चरणं स्वयं ब्राह्मणद्वारा वाऽऽरभेत ॥
॥ इति पूर्वोत्तराङ्गप्रायश्चित्तप्रयोगः समाप्तः ॥


N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP