संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः| अथ कुण्डस्थदेवतापूजनप्रयोगः श्रीगायत्रीपुरश्चरणपद्धतिः श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका अथ श्रीगायत्रीपुरश्चरणपद्धतिप्रारंभः अथ भूम्यादिदेवानामावाहनं पूजनञ्च अथ संक्षेपतः सार्वत्रिकी कुण्डमण्डपादीतिकर्तव्यता अथ कुण्डरचनाप्रकारः अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः अथ गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः अथ आज्येन प्रधानहोमः अथोत्तराङ्गप्रायचित्तम् अथ नूतनयज्ञोपवीतधारणविधिः अथ गायत्रीपुरश्चरणमुहूर्तादिकम् वृतानां ब्राह्मणानामपि धर्मा लक्षणानि च अथ पुरश्चरणलक्षणं युगभेदेन न्यूनाधिकजपसंख्याप्रकारश्च अथ गायत्रीपुरश्चरणभेदा होमद्रव्याणि च निर्णयसंग्रहः अथ कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः अथाचाराद्वैश्चदेवसङ्कल्पः अथायुष्यमंत्रजपः अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः अथ आचार्याद्यृत्विग्वरणप्रयोगः अथ वरणश्राद्धम् अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः अथ ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः अथ रेखाकरणं पूजनञ्च अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम् शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः अथयोगिनीदेवतापूजनप्रयोगः अथ जलयात्राप्रयोगः अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः अथ इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः अथ पात्रासादनपूर्वकश्रीगायत्रीदेवीपूजनप्रयोगः अथ भूतशुद्धिः अथ प्राणप्रतिष्ठाप्रयोगः अथ अजपाजपसङ्कल्पः अथ अन्तर्मातृकान्यासः अथ बहिर्मातृकान्यासः अथ गायत्रीमहान्यासाः ततः श्रीगायत्रीदेव्या बहिःपूजामारभेत गायत्रीकवचं अथ गायत्रीमन्त्रनित्यजपविधिः अथ कुण्डस्थदेवतापूजनप्रयोगः अथ पञ्चभूसंस्कारपूर्वकाग्नीप्रतिष्ठापनप्रयोगः अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकुण्डिकाप्रयोगः अथ प्रधानहोमः अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च अथ स्थापितदेवतानां होमः अथ वास्तुमण्डलदेवतानां होमः अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसमन्वितश्रीगजाननादिचतुःषष्टियोगिनीनां होमः अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः अथ सर्वतोभद्रमण्डलदेवतानां होमः अथ श्रीगायत्र्याः पीठदेवतानां होमः अथ यन्त्रदेवतानां होमः अथ श्रेयःसंपादनादिकम् अथ अवभृथस्नानविधिः अथ घृतपात्रदानादिकम् अथ देवताविसर्जनं पीठादिदानञ्च श्रीसूर्याथर्वशीर्षम् श्रीगायत्रीसहस्रनामावलिः अथ गायत्रीध्यानम् श्रीचाक्षुषोपनिषद् श्रीगायत्रीमानसपूजा श्रीगायत्र्यपराधक्षमापनस्तोत्रम् श्रीगायत्रीपुरश्चरणविधिः अथ विश्वामित्रकृत श्रीगायत्रीकल्पः अथ श्रीगायत्र्युपनिषत् अथ श्रीगायत्रीपद्धतिः अथ श्रीगायत्रीतत्त्वम् अथ श्रीगायत्रीकवचम् अथ श्रीगायत्रीपंजरस्तोत्रम् अथ श्रीगायत्रीस्तवराजः अथ श्रीगायत्रीपटलम् अष्टाविंशतिगायत्र्यः अथ श्रीगायत्रीसहस्रनामस्तोत्रम् अथ कुण्डस्थदेवतापूजनप्रयोगः श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥अनुक्रमणिका प्रमाणे वाचन करावे. Tags : devigayatripoojasanskritगायत्रीदेवीपूजासंस्कृत अथ कुण्डस्थदेवतापूजनप्रयोगः Translation - भाषांतर सपत्नीको यजमानः कुण्डस्य समीपे कुण्डपश्चिमदिग्भागे उपविश्य आचमनं प्राणायामञ्च कृत्वा हस्ते जलं गृहीत्वा देशकालौ सङ्कीर्त्य सङ्कल्पं कुर्यात् । अद्येत्यादि० शुभपुण्यतिथौ भगवत्या जगदम्बिकायाः श्रीगायत्रीदेव्याः प्रीत्यर्थं सव्याह्तिचतुर्विंशतिवर्णात्मकस्य श्रीगायत्रीमन्त्रस्य ब्राह्मणद्वारा कृतस्य अमुकलक्षजपानुष्ठानकर्मणो दशांशेन होमार्थं मया प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् अस्मिन्कुण्डे कुण्डस्थदेवतानाम् अग्निप्रतिष्ठां करिष्ये ॥ तत आचार्यानुज्ञया कश्चिद्विप्र उत्थाय हस्ते कुशान् गृहीत्वा तैः अग्न्यायतनं ( कुण्डं ) सम्मार्ज्य कुशोदकेन प्रोक्षयेत् । ॐ आपोहिष्ठामयो० ॥ ॐ योवः शिवतमो० ॥ ॐ तस्माऽअरङ्ग० ॥३॥ततो यजमानो हस्तेऽक्षतानादाय कुण्डं स्पृष्ट्वा आवाहयेत् ॥ आवाहयामि तत्कुण्डं विश्वकर्मविनिर्मितम् । शरीर यच्च ते दिव्यमग्न्यधिष्ठानमद्भुतम् ॥ ॐ भूर्भुवः स्वः कुण्डाय नमः कुण्डम् आवाह० स्थाप० ॥ सर्वोपचारार्थे गन्धं पुष्पं सम० । ततः प्रार्थयेत् ॥ ये च कुण्डे स्थिता देवाः कुण्डाङ्गे याश्च देवताः । ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं ददन्तु नः ॥ इति सम्प्रार्थ कुण्डमध्ये देवान् आवाहयेत् । हस्तेऽक्षतानादाय । ॐ व्विश्श्वकर्म्मन्न्हविषाव्वर्द्धनेनत्त्रातारमिन्द्रमकृणोरवद्ध्यम् । तस्म्मैव्विशx समनमन्तपूर्व्वीरयमुग्ग्रोव्विहव्वयोयथासत् । उपयामगृहीतोसीन्द्रायत्त्वाव्विश्श्वकर्म्मणऽपषते योनिरिन्द्रायत्त्वाव्विश्श्वकर्म्मण ॥४६/८॥ कुण्डमध्ये - ॐ भूर्भुवः स्वः विश्वकर्मणे नमः विश्वकर्मणम् आवा० स्थाप० ॥ भो विश्वकर्मन् इहागच्छ इह तिष्ठ ॥ ततः प्रार्थयेत् ॥ ब्रह्म वक्त्रं भुजौ क्षत्रमूरू वैश्यः प्रकीर्तितः । पादौ यस्य तु शूद्रो हि विश्वकर्मात्मने नमः । अज्ञानाज्ज्ञानतो वापि दोषाः स्युः खननोद्भवाः ॥ नाशय त्वखिलांस्तॉंस्तु विश्वकर्मन्नमोऽस्तु ते ॥१॥ततो मेखलायोनिकण्ठनाभिवास्तुदेवतानाम् आवाहनं कुर्यात् ॥ तत्रादौ समूंढमस्यापाxसुरेस्वाहा ॥१५/५॥ विष्णो यज्ञपते देव दुष्टदैत्यनिषूदन ॥ विभो यज्ञस्य रक्षार्थं कुण्डे सन्निहितो भव ॥१॥उपरिमेखलायां श्वेतवर्णालङ्कृतायां - ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवा० स्थाप० । भो विष्णो इहागच्छ इह तिष्ठ ॥२॥पुनरक्षतानादाय । ॐ ब्रह्मजज्ज्ञानम्प्रथमम्पुरस्ताद्द्विसीमतxसुरुचोव्वेनऽआवx ॥ सबुद्ध्न्याxउपमाऽअस्यव्विष्ट्ठाxसतश्चर्योनिमसश्चव्विवx ॥३/१३॥ हंसपृष्ठसमारूढ आदिदेव जगत्पते । रक्षार्थं मम यज्ञx मेखलायां स्थिरो भव ॥१॥मध्यमेखलायां रक्तवर्णालङ्कृतायां - ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवा० स्थाप० । भो ब्रह्मन् इहागच्छ इह तिष्ठ ॥३॥पुनर्हस्तेऽक्षतानादाय ॥ ॐ नमस्त्तेरुद्द्रमन्न्यवंऽउतोतऽइषवे नमंx ॥ बाहुब्भ्यामुततेनमx ॥१/१६॥ गङ्गाधर महादेव वृषारूढ महेश्वर । आगच्छ मम यज्ञेऽस्मिन्रक्षार्थं रक्षसां गणात् ॥१॥अधोमेखलाथां कृष्णवर्णालंकृतायां - ॐ भूर्भुवः स्वः रुद्राय नमः रुद्रम् आवा० स्थाप० ॥ भो रुद्र इहागच्छ इह तिष्ठ ॥४॥ततो योन्यावाहनम् । हस्तेऽक्षतानादाय क्षत्रस्ययोनिरसिक्षत्रस्यनाभिरसि ॥ मात्त्वाहिxसीन्मामाxसीx ॥१/२०॥ आगच्छ देवि कल्याणि जगदुत्पत्तिहेतुके ॥ मनोभवयुते रम्ये योनि त्वं सुस्थिरा भव ॥१॥जगदुत्पत्तिकायै मनोभवयुतायै योन्यै नमः योनिमावा० स्थाप० ॥ भो जगदुत्पत्तिके मनोभवयुते योनि इहागच्छ इह तिष्ठ ॥५॥ततः प्रार्थयेत् ॥ सेवन्ते महतीं योनिं देवर्षिसिद्धमानवाः ॥ चतुरशीतिलक्षाणि पन्नगाद्याः सरीसृपाः ॥ पशवः पक्षिणः सर्वे संसरन्ति यतो भवि । योनिरित्येव विख्याता जगदुत्पत्तिहेतुका ॥ मनोभवयुता देवी रतिसौख्यप्रदायिनी ॥ मोहयित्री सुराणाञ्च जगद्धात्रि नमोऽस्तु ते ॥ योने त्वं विश्वरूपाऽसि प्रकृतिर्विश्वधारिणी ॥ कामस्था कामरूपा च विश्वयोन्यै नमो नमः ॥४॥अथ कण्ठदेवतावाहनम् । हस्तेऽक्षतानादाय । ॐ नीलग्ग्रीवाxशितिकण्ठादिवxरुद्द्राऽउपश्श्रिताx ॥ तेषाxसहस्रयोजनेवधन्न्वानितन्न्मसि ॥५६/१६॥ कुण्डस्य कण्ठदेशोऽयं नीलजीमूतसन्निभः ॥ अस्मिन्नावाहये रुद्रं शितिकण्ठं कपालिनम् ॥ ॐ भूर्भुवः स्वः कण्ठे रुद्राय नमः रुद्रम् आवा० स्थाप० । भो रुद्र इहागच्छ इह तिष्ठ ॥६॥ततः प्रार्थयेत् ॥ कण्ठ मङ्गलरूपेण सर्वकुण्डे प्रतिष्ठितः । परितो मेखलास्त्वत्तो रचिता विश्वकर्मणा ॥ ततो नाभ्यावाहनम् ॥ ॐ नाभिर्म्मेचित्तंव्विज्ञानम्पायुर्म्मेपचितिर्ब्भसत् । आनन्दनन्दावाण्डौ मे भगxसौभाग्ग्यम्पसx ॥ जङ्घब्भ्यां पद्भ्यां धर्म्मेस्म्मिव्विशिराजाप्प्रतिष्ट्ठितx ॥९/२०॥ पद्माकाराऽथवा कुण्डसदृशाकृतिबिभ्रती । आधारः सर्वकुण्डानां नाभिमावाहयामि ताम् । ॐ भूर्भुवः स्वः नाभ्यै नमः नाभिम् आवा० स्थाप० ॥ भो नाभे इहागच्छ इह तिष्ठ ॥७॥ततः प्रार्थयेत् ॥ नाभे त्वं कुण्डमध्ये तु सर्वदेवैः प्रतिष्ठिता । अतस्त्वां पूजयामीह शुभदा सिद्धिदा भव ॥ ततः कुण्डमध्ये नैरृत्यकोणे वास्तुपुरुषमावाहयेत् ॥ ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशोऽअनमीवो भवानः । यत्त्वे महे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ ( पा० गृ० ) ॥ आवाहयामि देवेशं वास्तुदेवं महाबलम् । देवदेवं गणाध्यक्षं पातालतलवासिनम् ॥ ॐ भूर्भुवः स्वः नैरृत्यकोणे वास्तुपुरुषाय नमः वास्तुपुरुषम् आवा० स्थाप० ॥८॥भो वास्तुपुरुष इहागच्छ इह तिष्ठ ॥ ततः प्रार्थयेत् । यस्य देहे स्थिता क्षोणी ब्रह्माण्डं विश्वमङ्गलम् । व्यापिनं भीमरूपञ्च सुरूपं विश्वरूपिणम् ॥ पितामहसुतं मुख्यं वन्दे वास्तोष्पतिं प्रभुम् ॥ वास्तु पुरुष देवेश सर्वविघ्नहरो भव । शान्तिं कुरु सुखं देहि सर्वान्कामान्प्रयच्छ मे ॥ एवं कुण्डस्थितान् सर्वान्देवानावाह्यैकतन्त्रेण प्रतिष्ठां कृत्वा पूजयेत् । हस्तेऽक्षतानादाय । ॐ मनोजुतिर्जु० । ॐ भूर्भुवः स्वः विश्वकर्मापुष्पाण्यादाय ॥ ॐ भूर्भुवः स्वः विश्वकर्मादिवास्तुपुरुषान्तेभ्यः कुण्डस्यदेवेभ्यो नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० ॥ इति सम्पूज्य । एकस्मिन्पात्रे बलिदानार्थं स्वः विश्वकर्मादिवास्तुपुरुषान्तेभ्यः कुण्डस्थदेवेभ्यो नमः यथाशक्ति अमुं दध्योदनबलिं सम० ॥ पुनर्जलं गृहीत्वा । अनेन यथाशक्ति विश्वकर्मादिवास्तुपुरुषान्तानां कुण्डस्थदेवानां पूजनेन बलिदानेन च विश्वकर्मादिवाग्तुपुरुषान्ताः सर्वे कुण्डस्थदेवाः प्रीयन्तां न मम ॥॥ इति कुण्डस्थदेवतापूजनप्रयोगः ॥ N/A References : N/A Last Updated : December 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP