संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीगायत्रीमानसपूजा

श्रीगायत्रीमानसपूजा

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.



मातस्ते परिकल्पितं सुमनसा ध्यानं तथाऽऽवाहनं, सद्रत्नैः खचितं मनोहरमिदं प्रोत्तुङ्गमृद्वासनम् ॥ पाद्यं चोष्णजलैः समर्पितमिदं चार्घ्यं सुगन्धैः फलैः, स्वच्छैराचमनीयकं तु सुजलैः प्रीत्या त्वमङ्गीकुरु ॥१॥
नानं ते मधुपर्कयुक्तमधुरैः पंचामृतैः कल्पितं, गन्धोद्वर्तनपूर्वपूजनमिदं यत्तत्कृतं सादरम् ॥ निर्माल्यं परिह्रुत्य गन्धकुसुमैः पूजां तु कृत्वा पुनः, कल्पे ते ह्यभिषेचनं नु जननि प्रकृष्टतीर्थोदकैः ॥२॥
वस्त्रालंकरणैश्च केशरसुगन्धाढ्यैश्च गन्धाक्षतै, र्भिन्नैः पाटलपारिजातकुसुमैर्माल्यैस्तथाऽन्यैर्मुदा ॥ अङ्गानां विधिना तथाऽऽवरणकं यत्पूजनं कल्पितं, देवि त्वं कृपा गृहाण तदिदं भक्त्या मया तेऽर्पितम् ॥३॥
रक्तश्वेतसुचूर्णसिंदुरयुतैः सौभाग्यकैः संस्कृतं, धूपैर्यच्च सुगन्धिभिः सुविहितैर्दीपैस्तथाऽन्यैर्मुदा ॥ नैवेद्यं विविधं चतुर्विधमिदं स्वाद्वन्नसंमिश्रितं, मातस्ते हृदयेन कल्पितमहो प्रेम्णा प्रसादीकुरु ॥४॥
पानीयं मधुरं सुगन्धसहितं स्वच्छं जलं तेऽर्पितं, पातुं देवि पिब प्रमोदसहिता चोद्वर्तनं स्वीकुरु ॥ एलापूगलवङ्गसंस्कृतमहो ताम्बूलमेतन्मया, दत्तस्ते मुखवास एष मनसा यस्तं त्वमङ्गीकुरु ॥५॥
देवि स्वर्णमयी प्रसन्नमनसा सद्दक्षिणा कल्पिता, कर्पूरेण समं प्रदीप्तमतुलं चारिर्तिकं यत् कृतम् ॥ पुष्पाणामयमञ्जलिः सुविधितस्त्वत्पादयोश्चाम्बिके, भक्त्यैतत्सकलं समर्पितमिदं स्वीकृत्य शं मे कुरु ॥६॥
अम्बे सत्कृतपादुकाद्वयमिदं पादार्हणं कल्पितं, छत्रं चामरयुग्मकं च मुकुटः स्वच्छस्तथाऽऽदर्शकः ॥ अश्वश्चैव रथश्च कुंजर इति प्रकृष्टगीतं वरं, नृत्यं देवि समस्तमेतदुररीकृत प्रसादं कुरु ॥७॥
दत्तं चार्घ्यविशेषकं फलयुतं स्तोत्रं च भक्त्या कृतं, साष्टांगप्रणीपातपूर्वकमिदं मातस्तवाराधनम् ॥ एतत्ते मनसाऽर्पितं त्वमनघे स्वीकृत्य मत्पूजनं, मत्वा मां तनयं दयार्द्रनयने मातः कृतार्थं कुरु ॥८॥
किं याचे जननि ! प्रदूषणपरस्त्वं दोषहन्त्री मता, विप्राणां जननी सुमङ्गलकरी गायत्रि गायत्रिका ॥ कल्याणं कुरु सर्वदा नतिजुषां त्वं सिद्धिदात्र्यम्बिके, भक्तिस्ते मम जन्मजन्मनि मुहुर्भूयादिदं प्रार्थये ॥९॥
यच्चितेन मया वचोभिरथवा देहेन संपादितं, ह्यस्मिञ्जन्मनि चाम्बिके विधिवशाज्जन्मान्तरे वा तथा ॥ ज्ञाताज्ञातमथो भ्रमेण सहसा सूक्ष्मं महत्पातकं, तन्मन्मानसपूजनं भगवति स्वीकृत्य भस्मीकुरु ॥१०॥
पापनामपि पाप एव जननि क्वाहं कुपुत्रस्तव, त्वं माता क्व कुपुत्ररक्षणकरी मत्पापहन्त्री सदा ॥ इत्येवं सुविचार्य मानसमिदं संगृह्य मत्पूजनं, याचे मां तु समुद्धरेति कुसुतं शीघ्रं हि संसारतः ॥११॥
त्वं मातः सवितुर्वरेण्यमतुलं भर्गः सुसेव्यं सदा, यो बुद्धीर्नितरां प्रचोदयति नः सत्कर्मसु प्राणदः ॥ तद्रूपां विमलां द्विजातिभिरुपास्यां मातरं मानसे, ध्यात्वा त्वां कुरु शं ममापि जगतां संप्रार्थयेऽहं मुदा ॥१२॥
नाहं वैभवसंयुतोऽत्र नितरां दीनातिदीनोऽम्बिके, का मे शक्तिरिहास्ति पूजनविधौ वस्तवर्पणे तेऽनघे ॥ तद्धृत्कल्पितमेव पूजनमिदं स्वीकृत्य तुष्टा भव, तुष्टायां ललिते मयि त्वयि सुजातः स्यान्न कः शंकरः ॥१३॥
गायत्र्याः पूजनं चैतद्भवत्या यत्कल्पितं मया ॥
भूयाच्छ्रेयस्करं नित्यं द्विजानां तत्प्रसादतः ॥१४॥
इति श्रीगुर्ज्रप्रदेशान्तर्गतराजापिप्पलसंस्थानान्तर्वर्तिनर्मदातटस्थ “ भालोद ” ग्रामनिवासिभिरपि मुम्बापुरीस्थैः “ शास्त्री तुलजाशंकर धीरजराम पंड्या ” इत्येतैः कृता “ श्रीगायत्रीमानसपूजा ” समाप्ता ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP