TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३५

आचारकाण्डः - अध्यायः २३५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २३५
सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ।
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ॥१॥

सूर्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् ।
यथा सर्पिः शीरस्थं गवां न कुरुते बलम् ॥२॥

निर्गतं कर्मसंयुक्तं दत्तं तासां महा बलम् ।
तथा विष्णुः शरीरस्थो न करोति हितं नणाम् ॥३॥

विनाराधनया देवः सर्वगः परमेश्वरः ।
आरुरुक्षुमतीनां तु कर्मज्ञानमुदाहृतम् ॥४॥

आरूढयोगवृक्षाणां ज्ञानं त्यागं परं मतम् ।
ज्ञातुमिच्छति शब्दादीन्रागो द्वेषोऽथ जायते ॥५॥

लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ।
हस्तावुपस्थमुदरं वाक्चतुर्थो चतुष्टयम् ॥६॥

एतत्सुसंयतं यस्य स विप्रः कथ्यते बुधैः (धः) ।
परवित्तं न गृह्णाति न हिंसां कुरुते तथा ॥७॥

नाक्षक्रीडारतो यस्तु हस्तौ तस्य सुसंयतौ ।
परस्त्रीवर्जनरतस्तस्योपस्थं सुसंयतम् ॥८॥

अलोलुपमिदं भुङ्क्ते जठरं तस्य संयतम् ।
सत्यं हितं मितं ब्रूते यस्माद्वाक्तस्य संयता ॥९॥

यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ।
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणां च सर्वदा ॥१०॥

सबीजं वापि निर्बोजं ध्यानमेतत्प्रकीर्तितम् ।
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ॥११॥

हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ॥१२॥

स्वप्नान्पश्यत्यसौ जीवो बाह्यानाभ्यन्तरानथ ।
जीवो जाग्रदवस्थायामेवमाहुर्विपाश्चितः ॥१३॥

हृदि स्थितः स तमसा मोहितो न स्मरत्यपि ।
यदा तस्य कुतो वेति सुषुप्तिरिति कथ्यते ॥१४॥

जाग्रतो यस्य नो तन्द्रा न मोहो न भ्रमस्तथा ।
उत्पद्यते न जानाति शब्दार्थविषयान्वशी ॥१५॥

इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा ।
बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥१६॥

संयम्य प्रकृतिं चापि चिच्छक्त्या केवले स्थितः ।
पश्यत्यात्मानि चात्मानमात्मनात्मप्रकाशकम् ॥१७॥

चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् ।
तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥१८॥

शब्दादयो गुणाः पञ्च सत्त्वाद्याश्च गुणास्त्रयः ।
पुर्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥१९॥

साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका ।
कर्णिकायां स्थितो देवो देही चिद्रूप एव हि ॥२०॥

पुर्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् ।
यदा याति तदा जीवो याति मुक्तिं न संशयः ॥२१॥

प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥२२॥

पापक्षये देवतानां प्रीतिरिन्द्रियसंयमः ।
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥२३॥

षट्त्रिंशन्मात्रकः श्रेष्ठश्चतुर्विंशतिमात्रकः ।
मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेत् ॥२४॥

वाचके प्रणवे ज्ञाते वाच्यं ब्रह्म प्रसीदति ।
(ओंनमो विष्णवे).षष्ठाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरी ॥२५॥

सर्वेषामिन्द्रियाणां तु प्रवृतिर्विषयेषु च ।
निवृत्तिर्मनसस्तस्याः प्रत्याहारः प्रकीर्तितः ॥२६॥

इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य हितो हि सः ।
सहसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥२७॥

प्राणायामैर्द्वादशभिर्यावत्कालःकृतो भवेत् ।
यस्तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥२८॥

तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।
तुष्येत नियतो युक्तः समाधिः सोऽभीधीयते ॥२८*१॥

ध्यायन्न चलते यस्य मनोभिध्यायतो भृशम् ॥२९॥

प्राप्यावधिकृतं कालं यावत्सा धारणा स्मृता ।
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ॥३०॥

नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम् ।
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ॥३१॥

यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ।
ध्येयमेव हि सर्वत्र ध्याता तन्मयतां गतः ॥३२॥

पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ।
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥३३॥

यस्य ब्रह्मणि संलीनं समाधिस्थं तदोच्यते ।
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ॥३४॥

मनस्तन्मयतां याति समाधिस्थः स कीर्तितः ।
चित्तस्य स्थिरता भ्रान्तिर्दैर्मनस्यं प्रमादता ॥३५॥

योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः ।
स्थित्यर्थं मनसः सर्वं स्थूलरूपं विचिन्तयेत् ॥३६॥

तद्व्रतं निश्चलीभूतं सूय्यस्थं स्थिरतां व्रजेत् ।
न विना परमात्मानं किञ्चिज्जगति विद्यते ॥३७॥

विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति ।
ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ॥३८॥

क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितम् ।
हृदि सञ्चिन्तयेत्पूर्वं प्रधानं तस्य चोपरि ॥३९॥

तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ।
कृष्णरक्तसितं तस्मिन्पुरुषं जीवसंज्ञितम् ॥४०॥

तस्योपरि गुणैश्वर्यमष्टपत्रं सरोरुहम् ।
ज्ञानं तु कर्णिका तत्र विज्ञानं केसराः स्मृताः ॥४१॥

वैराग्यनालं तत्कन्दो वैष्णवो धर्म उत्तमः ।
कर्णिकायां स्थितं तत्र जीववन्निश्चलं विभु ॥४२॥

ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ।
ध्यायन्यदि त्यजेत्प्राणान्याति ब्रह्म स्वसन्निधिम् ॥४३॥

हरिं संस्थाप्य देहाब्जे ध्यायन्यो गी च भक्तिभाक् ।
आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥४४॥

सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ।
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥४५॥

तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ।
जितेन्द्रियात्मकरणो ज्ञानदृप्तो हि यो भवेत् ॥४६॥

स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ।
आसनस्थानविधयो न योगस्य प्रसाधकाः ॥४७॥

विलम्बजनकाः सर्वे विस्तराः परिकीर्तिताः ।
शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥४८॥

योगाभ्यासं प्रकुर्वन्तः पस्यन्त्यात्मानमात्मना ।
सर्वभूतेषु कारुण्यं विद्वेषं विषयेषु च ॥४९॥

गुप्तशिश्रोदरादिश्च कुर्वन्योगी विमुच्यते ।
इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥५०॥

काष्ठवद्ब्रह्मसंलीनो योगी मुक्तस्तदा भवेत् ।
सर्ववर्णाः श्रियः सर्वाः कृत्वा पापानि भस्मसात् ॥५१॥

ध्यानाग्निना च मेधावी लभते परमां गतिम् ।
मन्थनाद्दृश्यते ह्यग्निस्तद्वद्ध्यानेन वै हरिः ॥५२॥

ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥५३॥

साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च ।
प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ।
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ॥५४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मविज्ञानस्वरूपणं नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:13.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

calf male

  • पु. गोऱ्हा 
  • न. वासरू 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.