TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६९

आचारकाण्डः - अध्यायः १६९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६९
धन्वन्तरिरुवाच ।
हिताहितविकेकाय अनुपानविधिं ब्रुवे ।
रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥१॥

महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा ।
शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥२॥

श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा ।
तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥३॥

बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः ।
वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥४॥

कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः ।
माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥५॥

अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत् ।
कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः ॥६॥

रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः ।
पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥७॥

मसूरो मधुरः शीव संग्रही कफपित्तहा ।
तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः ॥८॥

आग्की कफपित्तघ्नो शुक्रला च तथा स्मृता ।
अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित् ॥९॥

सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः ।
बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः ॥१०॥

चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः ।
चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः ॥११॥

सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः ।
वर्षाभूमार्करौ वातकफघ्नौ दोषनाशनौ ॥१२॥

तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत् ।
चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम् ॥१३॥

तद्वदेव च कौस्मसुम्भं राजिका वातपित्तला ।
नाडीचः कफपित्तघ्नः चुचुर्मधुरशीतलः ॥१४॥

दोषघ्नं पद्मपत्रञ्च त्रिपुटं वातकृत्परम् ।
सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः ॥१५॥

तण्डुकीयोविपहरः पालङ्क्याश्च तथापरे ।
मूलकं दोषकृच्छामं स्विन्नं वातकफापदम् ॥१६॥

सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते ।
कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम् ॥१७॥

कुष्ठमेहज्वरश्वासकासपित्तकफापहम् ।
सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥१८॥

कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी ।
त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥१९॥

वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् ।
वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥२०॥

केशरं मातुलुङ्गं च दीपनं कफवातनुत् ।
वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥२१॥

सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् ।
भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥२२॥

स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् ।
वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम् ॥२३॥

दोषलं लकुचं स्वादु बकुलं कफवातजित् ।
गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥२४॥

कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् ।
कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥२५॥

पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् ।
वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥२६॥

तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् ।
विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥२७॥

राजादनफलं मोचं पनसं नारिकेलजम् ।
शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥२८॥

द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् ।
मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥२९॥

आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् ।
शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥३०॥

अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम् ।
गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम् ॥३१॥

यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम् ।
चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम् ॥३२॥

सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् ।
उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम् ॥३३॥

रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु ।
हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः ॥३४॥

दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः ।
दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम् ॥३५॥

नादेयं वातलं रूक्षं सारसं मदुर लघु ।
वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम् ॥३६॥

रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम् ।
दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम् ॥३७॥

दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः ।
सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना ॥३८॥

उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम् ।
शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम् ॥३९॥

गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम् ।
गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम् ॥४०॥

छागं रक्तातिसारघ्नं कासश्वासकफापहम् ।
चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् ॥४१॥

परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि ।
दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम् ॥४२॥

ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम् ।
विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः ॥४३॥

परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत् ।
त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः ॥४४॥

वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम् ।
गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित् ॥४५॥

अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम् ।
अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः ।
कफवातहरं मूत्रं सर्वक्रिमिविषापहम् ॥४६॥

पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत् ।
वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम् ॥४७॥

सार्षपं कृमिपाण्डुघ्नं कफमेदोऽनिलापहम् ।
क्षौमं तैलमचक्षुष्यं पित्तहृद्वातनाशनम् ॥४८॥

अक्षजं कफपित्तघ्नं केश्यं त्वक्श्रोत्रतर्पणम् ।
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्तितम् ॥४९॥

हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषामहम् ।
इक्षवोरक्तपित्तघ्नो बल्या वृष्याः कफप्रदाः ॥५०॥

फाणितं पित्तलं तव्रिं सुरा मत्स्यण्डिका लघुः ।
खण्डं वृष्यं तथा स्निग्धं स्वाद्वसृक्पित्तवातजित् ॥५१॥

वातपित्तहरो रूक्षो वातघ्नः कफकृद्गुडः ।
स पित्तघ्नः परः पथ्यः पुराणोऽसृक्प्रसादनः ॥५२॥

रक्तिपित्तहरा वृष्या सस्नेहा गडशर्करा ।
सर्वपित्तकरं मद्यमम्लत्वात्कफवातजित् ॥५३॥

रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजातयः ।
पाचनो दीपनः पथ्यो मण्डः स्याद्भृष्टतण्डुलः ॥५४॥

वातानुलोमनी लघ्वी पेया वस्तिविशोधनी ।
सतक्रदाडिमव्योषा सगुडा मधुपिप्पली ॥५५॥

इन्तीयं सुकृता पेया कासश्वा सप्रवाहिकाः ।
पायसः कफकृद्बल्यः कृशरा वातनाशिनी ॥५६॥

सुधौतः प्रस्त्रुतः स्निग्धः सुखोष्णो लघुरोचनः ।
कन्दमूलफलेहैः साधितो बृंहणोगुरुः ॥५७॥

ईषदुष्णसेवनाच्च लघुः सूपः सुसाधितः ।
स्विन्न निष्पीडितं शाकं हितं स्नेहादिसंस्कृतम् ॥५८॥

दाडिमामलकैर्यूषो वह्निकृद्वातपित्तहा ।
श्वासकासप्रतिश्यायकफघ्नो मलकैः कृतः ॥५९॥

यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ।
मुद्गामलकजो ग्राही श्लेष्मपित्तविनाशनः ॥६०॥

सगुडं दधि वातघ्नं सक्तवो रूक्षवातुलाः ।
घृतपूर्णोऽग्निकारी स्याद्वृष्या गुर्वो च शष्कुली ॥६१॥

बृंहणाः सामिषा भक्ष्यपिष्ट का गुखः स्मृताः ।
तैलसिद्धाश्च दृष्टिघ्नास्तोयस्विन्नाश्च दुर्जराः ॥६२॥

अत्युष्णा मण्डकाः पथ्याः शीतला गुखो मताः ।
अनुपानञ्च पानीयं श्रमतृष्णादिनाशनम् ॥६३॥

अन्नपानादिना रक्षा कृत्स्याद्रोगवर्जितः ।
अनुष्णः शिखिकण्ठाभो विषञ्चैव विवर्णकृत् ॥६४॥

गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनोव्यथा ।
आघ्राणे चाक्षिरोगः स्यादसाध्यश्च भिषग्वरैः ।
वेपथुर्जृम्भणाद्यं स्याद्विषस्यैतत्तु लक्षणम् ॥६५॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अनुपानादिविधिकथनं नामैकोनसप्तत्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घणाटया

  • स्त्रीअव . १ निरर्थक , कंटाळवाणे हेलपाटे , हिसके फेर्‍या ; पायपिटी . २ ( सामा . ) व्यर्थ शीण ; फुकट प्रयत्न . ( क्रि० खाणें ; घेणें ). [ घण ? ] 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site