TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ११५

आचारकाण्डः - अध्यायः ११५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ११५
सूत उवाच ।
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ।
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥१॥

धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥२॥

धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।
परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥३॥

कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ।
सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥४॥

परान्नं च परस्वं च परशय्याः परस्त्रियः ।
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥५॥

आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।
आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥६॥

स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति ।
गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥७॥

आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।
ततः संक्रमते पापं घटाद्धट इवोदकम् ॥८॥

लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥९॥

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥१०॥

अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥११॥

मानो हि मूलमर्थस्य माने सति धनेन किम् ।
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥१२॥

अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१३॥

वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च ।
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥१४॥

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥१५॥

वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी ।
वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥१६॥

दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा ।
परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥१७॥

कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा ।
दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥१८॥

चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥१९॥

वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥२०॥

कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च ।
एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥२१॥

अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥२२॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥२३॥

पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ।
पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥२४॥

अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः ।
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥२५॥

अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।
अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥२६॥

शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।
व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥२७॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥२८॥

अहोरात्रमयो लोके जरारूपेण संचरेत् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥२९॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥३०॥

अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥३१॥

शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥३२॥

यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३३॥

किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३४॥

यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये ।
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३५॥

यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥३६॥

स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता ।
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥३७॥

सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः ।
असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥३८॥

अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् ।
वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥३९॥

वाचा विहितसार्थेन लोको न च सुखायते ।
जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥४०॥

अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥४१॥

यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥४२॥

यथायथा हि पुरुषः कल्याणे कुरुते मतिम् ।
तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥४३॥

लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।
तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥४४॥

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥४५॥

ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥४६॥

कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥४७॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥४८॥

दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति ।
प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥४९॥

स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ।
तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥५०॥

तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् ।
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥५१॥

न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥५२॥

ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥५३॥

तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा ।
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥५४॥

सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः ।
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥५५॥

तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् ।
तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥५६॥

नदीनामग्निहोत्राणां भारतस्य कलस्य च ।
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥५७॥

लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् ।
षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥५८॥

राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् ।
आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥५९॥

सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥६०॥

यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ।
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥६१॥

अनायके न वस्तव्यं न चैव बहुनायके ।
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥६२॥

पिता रक्षति कौमारे भत्ता रक्षति यौवने ।
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥६३॥

त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् ।
एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥६४॥

अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥६५॥

अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः ।
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥६६॥

अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥६७॥

कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ।
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥६८॥

सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ।
सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥६९॥

अम्भसः परिमाणे उन्नतं कमलं भवेत् ।
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥७०॥

स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥७१॥

ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः ।
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥७२॥

स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ।
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥७३॥

आचारः कुलमाख्यति देशमाख्याति भाषितम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥७४॥

वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥७५॥

दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः ।
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥७६॥

मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥७७॥

कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥७८॥

जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः ।
कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥७९॥

माता शत्रुः पिता वैरी बाला येन न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥८०॥

विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥८१॥

गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥८२॥

शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥८३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:05.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उंचारि चोवुनु चमकल्यारि, फोंडांतु पायु पडताखातरि

  • (गो.) उंचावरून पाहून (पुढारीपणा घेऊन) चमकल्यावखड्यांत पाय खात्रीने पडतो. 
RANDOM WORD

Did you know?

देवाच्या दानपेटीत पैसे का टाकतात आणि देवाला नैवेद्य का दाखवतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.