संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७६

आचारकाण्डः - अध्यायः ७६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ॥
हिमवत्युत्तरदेशे वीर्य्यं पतितं सुरद्विषस्तस्य ॥
संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥१॥

शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभाः प्रभावन्तः ॥
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥२॥

हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः ॥
भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते ॥३॥

निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपेऽपि ॥
द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्राः ॥४॥

तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति ॥
भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः ॥५॥

पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥
शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ॥
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥६॥

शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम् ॥
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥७॥

मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात् ॥
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP