TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२०

आचारकाण्डः - अध्यायः २२०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २२०
ब्रह्मोवाच ।
सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयेऽहनि ।
कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम् ॥१॥

सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत् ।
पितामहादिब्राह्मणनिमन्त्रणम् ।
ओं पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः ।
वामपार्श्वे चासनदानम् ।
आवाहनम् ।
ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणंपात्रत्रयकरणंपात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम् ॥२॥

तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक्चालनम् ।
उद्धाटनं कृत्वाओं ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ।
ओं ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः ।
एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत् ॥३॥

ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम् ।
पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्तेऽन्य जलदानंहस्ताभ्यां पात्रमुत्थाप्य ओं या दिव्येति पठित्वा ओं अमुकगोत्र मत्पितामह अमुकदेवशर्मन् सपत्नीक एष ते अर्घ्यः स्वधा ।
पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम् ॥४॥

पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम् ।
अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत् ।
पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् ।
अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति ॥५॥

ततो देवप्रभृतिभ्य अपोशानं दद्यात् ।
अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात् ।
अस्मिन्नवसरे विकिरणम् ।
पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणमों स्वदितं भवद्भिरिति प्रश्रः ।
ओं अमुकगोत्र मत्पितः अमुकशर्मन् सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु ।
ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत् ।
पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम् ।
अतिथिब्राह्मणे स्वदितादिप्रश्रः ।
ब्राह्मणानामाचमनम् ।
भुक्तिक्रमेण ताम्बूलदानम् ।
सुप्रोक्षितमस्तु शिवा आपः सन्तुवृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम् ।
गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम् ॥६॥

अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम् ॥७॥

ओं वाच्यतां इत्युक्ते ओं पितामहादिभ्यः स्वधोच्यताम् ।
अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति ।
अस्तु स्वधेत्युक्ते ओं ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः ।
ओं विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ओं यवोदकदानम् ।
ओं देवताभ्य इति त्रिर्जपः ॥८॥

पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम् ।
प्रतिगृह्यतामित्युक्ते दातारो नोऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम् ।
अभिरण्यतामिति पितृब्राह्मणविसर्जनम् ॥९॥

सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव ।
श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः ॥१०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्राद्धानुष्ठानं नामविंशाधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hackneyed

  • चोथाळलेला 
  • नीरस 
  • (overmuch used) अतिप्रयुक्त 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site