संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १२१

आचारकाण्डः - अध्यायः १२१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
चातुर्मास्यव्रतान्यूचे एकादश्यां समाचरेत् ।
आषाढ्यां पौर्णमास्यां वा सर्वेणहरिमर्च्यच ॥१॥

इदं व्रतं मया देव गृहीतं पुरतस्तव ।
निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ॥२॥

गृहीतेऽस्मिन्व्रते देव यद्यपूर्णे म्रियाम्यहम् ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥३॥

एवमभ्यर्च्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
सर्वाघं च क्षयं याति चिकीर्षेद्यो हरेर्व्रतम् ॥४॥

स्नात्वायोभ्यच्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेत् ।
विष्णुं स याति विष्णोर्व लोकं मलविवर्जितम् ॥५॥

मद्यमांससुरात्यगी वेदविद्धरिपूजनात् ।
तैलवर्जि विष्णुलोकं विष्णुभाक्कृच्छ्रपादकृत् ॥६॥

एकरात्रोपवासाच्च देवो वैमानिको भवेत् ।
श्वेतद्वीपं त्रिरात्रात्तु व्रजेत्षष्ठान्नकृन्नरः ॥७॥

चान्द्रायणाद्धरेर्धाम लभेन्मुक्तिमयाचिताम् ।
प्राजापत्यं विष्णुलोकं पराकव्रतकृद्धरिम् ॥८॥

सक्तुयावकभिक्षाशी पयोदधिघृताशनः ।
गोमूत्रयावकाहारः पञ्चगव्यकृताशनः ।
शाकमलफलाद्याशी रसवर्जो च विष्णुभाक् ॥९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चातुर्मास्यव्रतनिरूपणं नामकावशत्युत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP