TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ८६

आचारकाण्डः - अध्यायः ८६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ८६
॥ब्रह्मोवाच ॥
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ॥
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥१॥

धर्मेण धारिता भूत्यै सर्वदेवमयी शिला ॥
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः ॥२॥

तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा ॥
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ॥३॥

तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ॥
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ॥४॥

मुण्डपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् ॥
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ॥५॥

अरविन्दवनं तेषु तेन चैवोपलक्षितः ॥
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ॥६॥

तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः ॥
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ॥७॥

शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला ॥
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥८॥

कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः ॥
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः ॥९॥

धर्म संरक्षणार्थाय अधर्मादिविनष्टये ॥
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत् ॥१०॥

कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः ॥
यथा दाशरथी रामः कृष्णोबुद्धोऽथ कल्क्यपि ॥११॥

तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः ॥
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः ॥१२॥

पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः ॥
गदाधरं सुरैः सार्द्धमाद्यं गत्वा ददाति यः ॥१३॥

अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् ॥
दीपं नैवैद्यमुत्कृष्टं माल्यानि विविधानि च ॥१४॥

वस्त्राणि मुकुटं घण्टां चामरं प्रेक्षणीयकम् ॥
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा ॥१५॥

तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः ॥
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः ॥१६॥

भार्य्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् ॥
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः ॥१७॥

वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् ॥
श्राद्धपिण्डादिकर्त्तारः पितृभिर्ब्रह्मलोकगाः ॥१८॥

जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम् ॥
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥१९॥

पुरुषोत्तमराजस्य सूर्य्यस्य च गणस्य च ॥
पुरतस्तत्र पिण्डादि पितॄणां ब्रह्मलोकदः ॥२०॥

नत्वा कपर्द्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते ॥
कार्त्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् ॥२१॥

द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते ॥
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥२२॥

रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् ॥
अभ्यर्च्येन्द्रं महैश्वर्य्यं गौरीं सौभाग्यमाप्नुयात् ॥२३॥

विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम् ॥
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते ॥२४॥

क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते ॥
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात् ॥२५॥

नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते ॥
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ॥२६॥

बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् ॥
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात् ॥२७॥

सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम् ॥
नारायणं तु संपूज्य नराणामधिपो भवेत् ॥२८॥

स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् ॥
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् ॥२९॥

मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् ॥
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम् ॥३०॥

सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात् ॥
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते ॥३१॥

रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् ॥
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते ॥३२॥

कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत् ॥
केदारं पूजयित्वा तु शिवलोके महीयते ॥३३॥

सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत् ॥
आद्यै रुद्रादिभिः सार्द्धं दृष्ट्वा ह्यादिगदाधरम् ॥३४॥

कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः ॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात् ॥३५॥

कामान्संप्राप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥
राज्यार्थो राज्यमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् ॥३६॥

सर्वार्थी सर्वमाप्नोति संपूज्यादिगदाधरम् ॥
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी ॥३७॥

वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् ॥
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः ॥३८॥

ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम् ॥
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी ॥३९॥

तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः ॥
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः ॥४०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः ॥८६॥ (इति गयामाहात्म्यं समाप्तम्) ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:03.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कात्रींत धरणें

  • कात्रीच्या दोन पात्त्यांत वस्‍तु धरतात त्‍याप्रमाणें अडचणीत आणणें 
  • पेचात धरणें 
  • दोहो बाजूंनी न सुटका होईल असे अडकविणें. 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.