संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७४

आचारकाण्डः - अध्यायः ७४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


 ॥ सूत उवाच ॥
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः ॥
प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः ॥१॥

आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु ॥
कौकण्टकनामा स्यात्स एव यदि लोहितापीतः ॥२॥

आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः ॥
आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः ॥३॥

अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् ॥
अपि चेन्द्रनीलसंज्ञः स एव कथितः सुनीलः सन् ॥४॥

मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नसारविदा ॥
धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति ॥५॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP