संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १३५

आचारकाण्डः - अध्यायः १३५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत् ।
देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः ॥१॥

(ति वीरनवमीव्रतम्) ।
ब्रह्मोवाच ।
चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत् ।
आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः ॥२॥

(इति दमनकनवमीव्रतम्) ।
ब्रह्मोवाच ।
दशम्यामेकभक्ताशी समान्ते दशधेनुदः ।
दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत् ॥३॥

(इति दिग्दशमीव्रतम्) ब्रह्मोवाच ।
एकादश्यामृषिपूजा कार्या सर्वोपकारिका ।
धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते ॥४॥

मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः ।
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ॥५॥

चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः ।
अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा ॥६॥

दमनाख्या दिग्दशमी नवम्येकादशी तथा ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऋष्येकादशीव्रतं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP