TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४३

आचारकाण्डः - अध्यायः १४३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १४३
ब्रह्मोवाच ।
रामायणमतो वक्ष्ये श्रुतं पापविनाशनम् ।
विष्णुनाभ्यब्जतो ब्रह्मा मरीचिस्तत्सुतोऽभवत् ॥१॥

मरीचेः कश्यपस्तस्माद्रविस्तस्मान्मनुः स्मृतः ।
मनोरिक्ष्वाकुरस्याभूद्वंशे राजा रघुः स्मृतः ॥२॥

रघोरजस्ततो जातो राजा दशरथो बली ।
तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः ॥३॥

कौसल्यायाम भूद्रामो भरतः कैकयीसुतः ।
सुतौ लक्ष्मणशक्षुघ्नौ सुमित्रायां बभूवतुः ॥४॥

रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् ।
अस्त्रग्रामं ततो यक्षीं ताटकां प्रजघान ह ॥५॥

विशावमित्रस्य यज्ञे वै सुबाहुं न्यवधीद्बली ।
जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥६॥

ऊर्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् ।
शत्रुघ्नो वै कीर्तिमतीं कुशध्वजसुते उभे ॥७॥

पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः ।
युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥८॥

गतयोर्नृपवर्योऽसौ राज्यं दातुं समुद्यतः ।
स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा ॥९॥

चतुर्दशसमावासो वनेरामस्य वाञ्छितः ।
रामः पितृहितार्थञ्च लक्ष्मणेन च सीतया ॥१०॥

राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः ।
रथं त्यक्त्वा प्रयागञ्च चित्रकूटगिरिं गतः ॥११॥

रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः ।
संस्कृत्य भरतश्चागाद्राममाह बलान्वितः ॥१२॥

अयोध्यान्तु समागत्य राज्यं कुरु महामते ।
स नैच्छत्पादुके दत्त्वा राज्याय भरताय तु ॥१३॥

विसर्जितोऽथ भरतो रामराज्यमपालयत् ।
नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥१४॥

रामोऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ ।
नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥१५॥

तत्र शूर्पणखा नाम राक्षसी चात्तुमागता ।
निकृत्य कर्णो नासे च रामेणाथापवारिता ॥१६॥

तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा ।
चतुर्दशसहस्रेण रक्षसान्तु बलेन च ॥१७॥

रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान् ।
राक्षस्या प्रेरितोऽभ्यागाद्रावणो हरणाय हि ॥१८॥

मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् ।
सीतया प्रेरितो रामो मारीचं निजघान ह ॥१९॥

म्रियमाणः स च प्राह हा सीते ! लक्ष्मणोति च ।
सीतोक्तो लक्ष्मणोऽथागाद्रामश्चानुददर्श तम् ॥२०॥

उवाच राक्षसी माया नूनं सीता हृतेति सः ।
रावणोऽन्तरमासाद्य ह्यङ्केनादाय जानकीम् ॥२१॥

जटायुषं विनिर्भिद्य ययौ लङ्कां ततो बली ।
अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥२२॥

आगत्य रामः सून्याञ्च पर्णशालां ददर्श ह ।
शोकं कृत्वाथ जानक्या मार्गणं कृतवान्प्रभुः ॥२३॥

जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् ।
गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥२४॥

सप्त तालान्विनिर्भिद्य शरेणानतपर्वणा ।
वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥२५॥

सुग्रीवं कृतवान्राम ऋश्यमूके स्वयं स्थितः ।
सुग्रीवः प्रेषयामास वानरान्पर्वतोपमान् ॥२६॥

सीताया मार्गणं कर्तुं पूर्वाद्याशासु सोत्सवान् ।
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥२७॥

दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् ।
वनानि पर्वतान्द्वीपान्नदीनां पुलिनानि च ॥२८॥

जानकीन्ते ह्यपश्यन्तो मरणे कृतनिश्चयाः ।
सम्पातिवचनाज्ज्ञात्वा हनूमान्कपिकुञ्जरः ॥२९॥

शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् ।
अपश्यज्जानकीं तत्र ह्यशोकवनिकास्थिताम् ॥३०॥

भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा ।
भव भार्येति वदता चिन्तयन्तीञ्च राघवम् ॥३१॥

अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् ।
रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥३२॥

स्वाभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति ।
तच्छ्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते ॥३३॥

यथा रामो नयेच्छीघ्रं तथा वाच्यं त्वया कपे ।
तथेत्युक्त्वा तु हनुमान्वनं दिव्यं बभञ्ज ह ॥३४॥

हत्वाक्षं राक्षसांश्चान्यान्बन्धनं स्वयमागतः ।
सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥३५॥

रामदूतोऽस्मि हनुमान्देहि रामाय मैथिलीम् ।
एतच्छ्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥३६॥

कपिर्ज्वलितलाङ्गूलो लङ्कां देहेऽ महाबलः ।
दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥३७॥

जग्ध्वा फलं मधुवने दृष्टा सीतत्यवेदयत् ।
वेणीरत्नञ्च रामाय रामो लङ्कापुर्री ययौ ॥३८॥

ससुग्रीवः स हनुमान्सांगदश्च सलक्ष्मणः ।
विभीषणोऽपि सम्प्राप्तः शरणं राघवं प्रति ॥३९॥

लङ्कैश्वर्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् ।
रामो नलेन सेतुञ्च कृत्वाब्धौ चोत्ततार तम् ॥४०॥

सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्शह ।
अथ ते वानरा वीरा नीलाङ्गदनलादयः ॥४१॥

धूम्रधूम्राक्षवीरेन्द्रा जाम्बवत्प्रमुखास्तदा ।
मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे ॥४२॥

राक्षसांश्च महाकायान्कालाञ्जनचयोपमान् ।
रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् ॥४३॥

विद्युज्जिह्वञ्च धूम्राक्षं देवान्तकनरान्त कौ ।
महोदरमहापार्श्वावतिकायं महाबलम् ॥४४॥

कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् ।
प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥४५॥

रावणिं लक्ष्मणोऽच्छिन्त ह्यस्त्राद्यै राघवो बली ।
निकृत्य बाहुचक्राणि रावणन्तु न्यपातयन् ॥४६॥

सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः ।
सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥४७॥

तत्र राज्यं चकाराथ पुत्त्रवत्पालयन्प्रजाः ।
दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥४८॥

पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः ।
पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥४९॥

एकादशसहस्राणि रामो राज्यमकारयत् ।
शत्रुघ्नो लवणं जघ्ने शैलूषं भतस्ततः ॥५०॥

अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिञ्च रक्षसाम् ।
स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥५१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site