संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६३

आचारकाण्डः - अध्यायः १६३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तीररुवाच ।
विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु ।
स्याद्विसर्पो विघातात्तु दोषैर्दुष्टैश्च शोथवत् ॥१॥

अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमात् ।
यथात्तरञ्च दुः साध्यस्तत्र दोषो यथायथम् ॥२॥

प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः ।
देहे शीघ्रं विशन्तीह तेऽन्तरे हि स्थिता बहिः ॥३॥

तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्तनात् ।
आशु चाग्निबलभ्रंशादतो बाह्यं विसर्पयेत् ॥४॥

तत्र वातात्स वीसर्पो वातज्वरसमव्यथः ।
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् ॥५॥

पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ।
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ॥६॥

सन्निपातसमुत्थाश्च सर्वलिङ्गसमन्विताः ।
स्वदोषलिङ्गैश्चीयन्ते सर्वैः स्फोटैरुपेक्षिताः ।
तेऽपि स्वेदान्विमुञ्चति बिभ्रतो व्रणलक्षणम् ॥७॥

वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः ।
गन्थिभेदाग्निसदनतमकारोचकैर्युतः ॥८॥

करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् ।
यंयं देशं विसर्पश्च विसर्पति भवेत्ससः ॥९॥

शान्ताङ्गारासितो नीलो रक्तो वासु च चीयते ।
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ॥१०॥

मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः ।
व्यथतेऽङ्गं हरेत्संज्ञां निद्राञ्च श्वासमीरयेत् ॥११॥

हिक्काञ्च स गतोऽवस्थामीदृशीं लभते नरः ।
क्वचिन्मर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥१२॥

चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् ।
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥१३॥

कफेन रुद्धः पवनो भित्त्वातं बहुधा कफम् ।
रक्तं वा वृद्धरक्तस्य त्वक्छिरास्नायुमांसगम् ॥१४॥

दूषयित्वा तु दीर्घानुवृत्तस्थूलखरात्मिकाम् ।
ग्रन्थीनां कुरुते मालां सरक्तान्तीव्ररुग्ज्वराम् ॥१५॥

श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः ।
मोहवैवर्ण्यमूर्छाङ्गभङ्गग्निसदनैर्युताम् ।
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥१६॥

कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ।
अङ्गावसादविक्षेंपौ प्रलापारोचकभ्रमाः ॥१७॥

मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ।
आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥१८॥

प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ।
पीडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः ॥१९॥

स्निध्नोऽसितो मेचकाभो मलिनः शोथवान्गुरुः ।
गम्भीरपाकः प्रायोष्मस्पृष्टः क्लिन्नोंऽवदीर्यते ॥२०॥

पक्ववच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः ।
सर्वगो लक्षणैः सर्वेः सर्वगत्वक्समर्पणः ।
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥२१॥

बाह्यहेतोः क्षतात्क्रुद्ध्वः सरक्तं पित्तमीरयन् ।
वीसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम् ॥२२॥

स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ।
पथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः ॥२३॥

असाध्याः कृतसर्वोत्थाः सर्वे चाक्रान्तमर्मणः ।
शीर्णस्नायुशिरामांसाः क्लिन्नाश्चशवगन्धयः ॥२४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वीसर्पनिदानं नाम त्रिपष्ट्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP