संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ११६

आचारकाण्डः - अध्यायः ११६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः ॥१॥

एकभक्तेन नक्तेन उपवासफलादिना ।
ददाति धनधान्यादि पुत्रराज्यजयादिकम् ॥२॥

वैश्वानरः प्रतिपदि कुबेरः पूजितोर्ऽथदः ।
पोष्य ब्रह्मो प्रतिपद्यर्चितः श्रिस्तथाश्विनी ॥३॥

द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः ।
तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः ॥४॥

चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः ।
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोर्ऽथदः ॥५॥

दुर्गाष्टम्यां नवम्यां च मातरोऽथ दिशोर्ऽथदाः ।
दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत् ॥६॥

द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोर्ऽथदाः ॥७॥

अमावास्यां पूजनीया वारा वै भास्करादयः ।
नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः ॥८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP