TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७२

आचारकाण्डः - अध्यायः १७२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १७२
धन्वन्तरिरुवाच ।
स्त्रीरोगादिचिकित्सां च वक्ष्ये सुश्रुत तच्छृणु ।
योनिव्यापत्सु भूयिष्टं शस्यते कर्म वातजित् ॥१॥

वचोपकुञ्चिकाजातीकृष्णावासकसैन्धवम् ।
अजमोदायवक्षारं चित्रकं शर्करान्वितम् ॥२॥

पिष्ट्वालोड्य जलाद्यैश्च खादयेद्धृतभर्जितम् ।
योनिपार्श्वार्तिहृद्रोगगुल्मार्शो विनिवर्तयेत् ॥३॥

बदरीपत्रसंलेपाद्योनिर्भिन्ना प्रशाम्यति ।
लोध्रतुम्बीफलालेपाद्योनेर्दार्ढ्यं करोति च ॥४॥

पञ्चपल्लवपिष्टाह्वमालतीकुसुमैर्घृतम् ।
रविपक्वमसृग्धारं योनिगन्धविनाशनम् ॥५॥

सकाञ्जिकं जपापुष्पपुष्पं ज्योतिष्मतीदलम् ।
दूर्वापिष्टं च संप्राश्य चित्रकं शर्करान्वितम् ॥६॥

धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत् ।
सदुग्धा लक्ष्मणा पीता नस्याद्वा पुत्रदा ऋतौ ॥७॥

दुग्धस्यार्धाढकं चाज्यमश्वगन्धा च पुत्रदा ।
वन्ध्या पुत्रं लभेत्पीत्वा घृतेन व्योपकेसरम् ॥८॥

कुशकाशोरुचृकानां मृलैर्गोक्षुरकस्य च ।
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥९॥

पाठालाङ्गलिसिंहाम्यमयूरकूटजैः पृथक् ।
नाभिबस्ति भगालेपात्सुखं नारी प्रसूयते ॥१०॥

सूताया हृच्छिरोबस्तिशूलमर्कन्द (क्वल्ल) संज्ञितम् ।
यवक्षारं पिबेत्तत्र मस्तु कोष्णोदकेन वा ॥११॥

दशमूलीकृतः क्ताथः साज्यः मूतिरुजापहः ।
शातिलण्डुलचूर्णं तु सदुग्धं दुग्धकृद्भवेत् ॥१२॥

विदारी कन्दस्वरसं मूलं कार्पासजं तथा ।
धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूपरसाशिनी ॥१३॥

कुष्ठा वचाभया ब्राह्मी मधुरा क्षौद्रसर्पिषा ।
वर्णायुः कान्तिजननं लेह्यं वालम्य दापयेत् ॥१४॥

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिवेत् ।
स्वेदनं नाग्निशोफार्ते मृदा स्यादग्नितप्तया ॥१५॥

लेहो मुस्तविपायाश्च वमिकासज्वरे पिबेत् ।
सुस्तशुण्ठीविषाविल्वकूटजैरतिसारनुत ॥१६॥

मधु व्योषं मातुलुङ्गं हिक्काच्छर्दिनिवारणम् ।
कुष्ठेन्द्रयवसिद्धार्था निशा दूर्वा च कुष्ठजित् ॥१७॥

महामुण्जितिकोजीच्यकाथैः स्नानं ग्रहापहम् ।
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥१८॥

शङ्खाब्जबीजरुद्राक्षवचालौहादिधारणम् ।
ओं कं टं यं गं वैनतेयाय नमः ।
ओं हों हां हः मन्त्रेण शान्तिर्वालानां मार्जनाद्वलिदानतः ।
ओं ह्रीं बालम्रहाद्वलिं गृह्णीत वालं मुञ्चत स्वाहा ॥१९॥

तण्डुलाद्भिः शिरीपस्य पलं पीतं विषापहम् ।
तण्डुलाद्भिश्च वर्षाभ्वाः शुक्लायाः सर्पदंशनुत् ॥२०॥

दध्याज्यं तण्डुलीयं च गृहधृमो निशा तथा ।
पिष्टं पानं तथा क्षौद्रं सिन्धृत्थस्य विपान्तकम् ॥२१॥

अङ्कोटमूलनिष्क्वाथः साज्यः पीतो विषान्तकः ।
यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥२२॥

सिन्दूत्यरार्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया सेव्या रसायनगुणौषिणा ॥२३॥

ज्वरस्यान्तेऽभयां चैकां प्रभुङ्क्ते द्वे विभीतके ।
भुक्त्वा मध्वाज्यधात्रीणां चतुष्कं शतवर्षकृत् ॥२४॥

पीताश्वगन्धा पयसा घृतेनाशेपरोगनुत् ।
मण्डूकपर्ण्याः स्वरसो विदार्याश्चामृतोपमः ॥२५॥

तिलधात्रीभृङ्गराजौ जग्ध्वा वर्षशती भवेत् ।
त्रिकटु त्रिफला वह्निर्गुडूची च शतावरी ॥२६॥

विडङ्गलोहचूर्णं तु मधुना सह रोगनुत् ।
त्रिफला च कणा शुण्ठी गुडूची च शतावरी ॥२७॥

विडङ्गभृङ्गराजादि भावितं सर्वरोगनुत् ।
चूर्णं विदार्या मध्वाज्यं लीढ्वा दश स्त्रियो व्रजेत् ॥२८॥

घृतं शतावरीकल्कैः क्षीरैर्दशगुणैः पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं वा जारकं विदुः ॥२९॥

प्रतिमर्षोऽवपीडश्च नस्यं प्रवपनं तथा ।
शिरोविरेचनं चेति पञ्चकर्म च कथ्यते ॥३०॥

मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः ।
अग्निसेवामधुक्षीरविकृतीः परिपेवयेत् ॥३१॥

स्त्रीयुक्तः शिशिरे तद्वद्वसन्ते न दिवा स्वपेत् ।
त्यजेद्वर्षासु स्वप्नादीञ्छरदिन्दोश्च रश्मयः ॥३२॥

पथ्यानि शालयो मुद्रा वर्षाम्भः क्वथितं पयः ।
निम्वातसीकुसुम्भानां शिग्रुसर्षपयोस्तथा ॥३३॥

ज्योतिष्मतीमूलकानां तैलानि च हरन्ति हि ।
कृमिकुष्ठप्रमेहांश्च वातश्लेष्मशिरोरुजः ॥३४॥

दाडिमामलकीकोलकरमर्द्पियालकम् ।
जम्बीरं नागग्गं च आम्रातककपिन्थकम् ॥३५॥

पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणिच ।
जलं जीमूतकेक्ष्वाकुकुटजाकृतबन्धनम् ॥३६॥

धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी ।
पूर्वाह्ने वमनायेते मदनेन्द्रयवी वचा ॥३७॥

मृदुकोष्टश्च पित्तेन खरो वातकफाश्रयात् ।
मध्यमः समदोषे स्यात्त्रिवृत्तिते विरेचनम् ॥३८॥

शर्करामधुसंयुक्तं सैन्धवं नगरं त्रिवृत् ।
हरीतकीविहङ्गानि गोमूत्रेण विरेचनम् ॥३९॥

एरण्डतैलं त्रिफलाक्वाथश्च द्विगुणस्तथा ।
वातोल्बणेषु दोषेषु भोजयित्वाथ वामयेत् ॥४०॥

वंशादिनेत्रं कुर्वीत पडष्टद्वादशाङ्गुलम् ।
कर्कन्धृफलवच्छिद्रं वस्तिरुत्तानशायिने ॥४१॥

निरूहदानेऽपि विधिरयमेवमुदीरितः ।
अर्धत्रिपट्पले मात्रा लघुमध्योत्तमः क्रमात् ॥४२॥

पथ्याक्षवात्र्योकद्विचतुर्भाग रुगर्दनाः ।
शतवर्यसृताभृङ्गसिन्धुवारादिभाविताः ॥४३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्त्रीरोगचिकित्सादिकयनं नाम द्विसप्तत्युत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:09.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुरगी मरे, बच्चे-बचडे दाणादाण

  • ( हिं.) कोंबडी मेली म्हणजे तिच्या पिल्लांची त्रेधा वाताहात उडते 
  • तसा पुढारी मेल्यावर सैनिकांची दाणादाण होते. " ‘ मुरगी मरी बचडे दाणादाण ’ तैसे जिकडील तिकडे पळाले. " -भाब. १०२. -भाब १५. 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site