संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १२०

आचारकाण्डः - अध्यायः १२०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
रम्भातृतीयां वक्ष्य च सौभग्यश्रीसुतादिदाम् ।
मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः ॥१॥

गौरीं यजेद्विल्वपत्रैः कुशोदककरस्ततः ।
कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत् ॥२॥

कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत् ।
माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः ॥३॥

गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत् ।
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः ॥४॥

विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः ।
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥५॥

वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः ।
ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः ।
लवङ्गाशो भवेदेव आषाढे माधवीं यजेत् ॥६॥

तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः ।
औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम् ॥७॥

दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत् ।
पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः ॥८॥

राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम् ।
प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत् ॥९॥

जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् ।
घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत् ॥१०॥

उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम् ।
वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः ।
गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात् ॥११॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP