TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६८

आचारकाण्डः - अध्यायः १६८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६८
निदानं समाप्तम् ।
धन्वन्तरिरुवाच ।
सर्वरोगहरं सिद्धं योगसारं वदाम्यहम् ।
शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे ॥१॥

कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् ।
चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥२॥

उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् ।
वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥३॥

उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् ।
तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥४॥

विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये ।
ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥५॥

स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् ।
नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥६॥

अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः ।
कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥७॥

देहपारुष्यसंकोचतोदविष्टम्भकादयः ।
तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥८॥

श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् ।
वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥९॥

दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः ।
कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥१०॥

हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः ।
देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥११॥

स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् ।
कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥१२॥

हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् ।
सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥१३॥

दोषधातुमलाधारो देहिनां देह उच्यते ।
तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥१४॥

वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥१५॥

वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली ।
पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥१६॥

मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः ।
गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥१७॥

कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः ।
कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥१८॥

कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् ।
एत एव विपर्यस्ताः शमायैषां प्रयोजिताः ।
भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥१९॥

चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः ।
अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥२०॥

दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः ।
पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥२१॥

रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम् ।
रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम् ॥२२॥

शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते ।
रसानां द्विविधः पाको कटुरेव च ॥२३॥

भिषग्भेषजरोगार्तपरिचारकसम्पदः ।
चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये ॥२४॥

देशकालवयोवह्निसाम्यप्रकृतिभेषजम् ।
देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत् ॥२५॥

बहूदकनगोऽनूपः कफमारुतकोपवान् ।
जाङ्गलोऽपरशाखी च रक्तपित्तगदोत्तरः ॥२५*१॥

संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः ।
बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते ॥२६॥

कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः ।
क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः ॥२७॥

कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम् ।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥२८॥

स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम् ।
अविकारी महोत्साहो महासाहसिको नरः ॥२९॥

पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि ।
श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते ॥३०॥

गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः ।
वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात् ॥३१॥

कृशो रूक्षोऽल्पकेशश्च चलचित्तो नरः स्थितः ।
बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः ॥३२॥

अकालपलितो गौरः प्रस्वेदी कोपनो बुधः ।
स्वप्नेऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥३३॥

स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः ।
स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः ॥३४॥

संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः ।
दोषस्येतरसद्भावेऽप्यधिका प्रकृतिः स्मृताः ॥३५॥

मन्दस्तीक्ष्णोऽथ विषमः समश्चैति चतुर्विधाः ।
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥३६॥

समस्य पालनं कार्यं विषमे वातनिग्रहः ।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥३७॥

प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम् ।
आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम् ॥३८॥

आमाद्विषूचिका चैव हृदालस्यादयस्तथा ।
वचालवणतोयेन छर्दनं तत्र कारयेत् ॥३९॥

शुक्राभावो भ्रमो मूर्छा तर्षोऽम्लात्संप्रवर्तते ।
अपक्वं तत्र शीताम्बुपानं वातनिषेवणम् ॥४०॥

गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान् ।
तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम् ॥४१॥

शूलगुल्मौ च विण्मूत्रस्थानविष्टम्भसूचकौ ।
विधेयं स्वेदनं तत्र पानीयं लवणोदकम् ॥४२॥

आममम्लं च विष्टब्धं कफपित्तानिलैः क्रमात् ।
आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ॥४३॥

दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णविनाशनम् ।
अहितान्नै रोगराशिरहितान्नं ततस्त्यजेत् ॥४४॥

उष्णाम्बु वानुपानं च माक्षिकैः पाचनं भवेत् ।
करीरदधिमत्स्यैश्च प्रायः क्षीरं विरुध्यते ॥४५॥

बिल्वः शोणा च गम्भारी पाटला गणिकारिका ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥४६॥

शालपर्णो पृश्रिपर्णो बृहतीद्वयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥४७॥

उभयं दशसूलं स्यात्सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥४८॥

एतैस्तैलानि सर्पोषि प्रलेपादलकां जयेत् ।
क्वाथाच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् ॥४९॥

स्नेहञ्च तत्समं क्षीरं कल्कश्च स्नेहपादकः ।
संवर्तितौषधैः पाको बस्तौ पाने भवेत्समः ।
खरोऽभ्यङ्गे मृदुर्नस्ये पाकोऽपि संप्रकल्पयेत् ॥५०॥

स्थूलदेहन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता ।
आरोग्यमिति तं विद्यादायुष्मन्तमुपाचरेत् ॥५१॥

यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक् ।
भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत् ॥५२॥

गुल्फजानुललाटं च हनुर्गण्डस्तथैव च ।
भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् ॥५३॥

वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी ।
कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत् ॥५४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यकशास्त्रपरिभाषा नामाष्टषष्ट्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.8630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fraternal twins

  • द्व्यंडजद्विबीज जुळे 
  • न./अ.व. द्विबीज जुळी 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.