TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ११२

आचारकाण्डः - अध्यायः ११२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ११२
सूत उवाच ।
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ।
नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥१॥

भृत्ये परिक्षणं वक्ष्ये यस्ययस्य हि यो गुणः ।
तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥२॥

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा ॥३॥

कुलशीलगुणोपेतः सत्यधर्मपरायणः ।
रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥४॥

मूल्यरूपपरीक्षाकृद्भवे द्रत्नपरीक्षकः ।
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥५॥

इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥६॥

मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः ।
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥७॥

बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः ।
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥८॥

समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः ।
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥९॥

पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः ।
शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥१०॥

आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
आयुः शीलगुणोपेतो वैद्य एव विधीयते ॥११॥

वेदवेदाङ्गतत्त्वज्ञो जपहमपरायणः ।
आशीर्वादपरो नित्यमेष राजपुरोहित ॥१२॥

लेखकः पाठकश्चैव गणकः प्रतिरोधकः ।
आलस्ययुक्तश्चैद्राजा कर्म संवर्जयेत्सदा ॥१३॥

द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम् ।
खलस्याहेश्च वदनमपकाराय केवलम् ॥१४॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१५॥

अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते ।
विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥१६॥

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥१७॥

शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ।
प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥१८॥

निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः ।
सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥१९॥

क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः ।
दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः ।
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥२०॥

सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च ।
दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥२१॥

षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः ।
पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥२२॥

मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः ।
अयशश्चार्थनाशश्च नरके चैव पातनम् ॥२३॥

यत्किञ्चित्कुरुते कर्म शुभं वा यादि वाशुभम् ।
तेन स्म वर्धते राजा सूक्ष्मतो भृत्यकार्यतः ॥२४॥

तस्माद्भूमीश्वरः प्राज्ञं धर्मकामार्थसाधने ।
नियोज येद्धिसततं गोब्राह्मणहिताय वै ॥२५॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पत्युक्त नीतिप्तारे द्वादशोत्तरकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:05.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

precise levelling

  • सूक्ष्म समतलन 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site