TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६६

आचारकाण्डः - अध्यायः १६६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६६
धन्वन्तरिरुवाच ।
वातव्याधिनिदानं ते वक्ष्ये सुश्रुत तच्छृणु ।
सर्वथानर्थकथने विघ्न एव च कारणम् ॥१॥

अदृष्टदुष्टपवनशरीरमविशेषतः ।
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः ॥२॥

स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः ।
तद्वदुक्तं च यत्नेन यतितव्यमतः सदा ॥३॥

तस्योक्ते दोषविज्ञाने कर्म प्राकृतवैकृतम् ।
समासव्यासतो दोषभेदानामवधार्य च ॥४॥

प्रत्येकं पञ्चधा वीरो व्यापारश्चेह वैकृतः ।
तस्योच्यते विभागेन सनिदानं सलक्षणम् ॥५॥

धातुक्षयकरैर्वायुः क्रुद्धो नातिनिषेव्यते ।
चतुः स्नोतोऽवकाशेषु भूयस्तान्येव पूरयेत् ॥६॥

तेभ्यस्तु दोषपूर्णेभ्यः प्रच्छाद्य विवरं ततः ।
तव वायुः सकृत्क्रुद्धः शूलानाहान्त्रकूजनम् ॥७॥

मलरोधं स्वरभ्रंशं दृष्टिपृष्ठकटिग्रहम् ।
करोत्येव पुनः काये कृच्छ्रानन्यानुपद्रवान् ॥८॥

आमाशयोत्थवमथुश्वासकासविषूचिकाः ।
कण्डूपरोधघर्मादिव्याधीनूर्ध्वञ्च नाभितः ॥९॥

श्रोत्रादीन्द्रियबाधां च त्वचि स्फोटनरूक्षताम् ।
चक्रेतीव्ररुजाश्वासगरामयविवर्णताः ॥१०॥

अन्त्रस्यान्तञ्च विष्टम्भमरुचिं कृशतां भ्रमम् ।
मांसमेदोगतग्रन्थिं चर्मादावुपकर्कशम् ॥११॥

गुर्वङ्गन्तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा ।
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रञ्च लक्षयेत् ॥१२॥

मज्जस्थोऽस्थिषु चास्थैर्यमस्वप्नं यत्तदा रुजाम् ।
शुक्रस्य शीघ्रमुत्सङ्गसर्गान्विकृतिमेव वा ॥१३॥

तत्तद्गर्भस्थशुक्रस्थः शिरस्याध्मानरिक्ताता ।
तत्र स्थानस्थितः कुर्यात्क्रुद्धः श्वयथुकृच्छ्रताम् ॥१४॥

जलपूर्णदृतिस्पर्शं शोषं सन्धिगतोऽनिलः ।
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ॥१५॥

स्तम्भनाक्षेपणं स्वप्नः सन्धिभञ्जनकम्पनम् ।
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः ।
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपणः स्मृतः ॥१६॥

अधः प्रतिहतो वायुर्व्रजेदूर्ध्वं यदा पुनः ।
तदावष्टभ्य हृदयं शिरः शङ्खौ च पीडयेत् ॥१७॥

सक्षिपेत्परितो गात्रं हनुं वा चास्य नामयत् ।
कृच्छ्रादुच्छ्वसितं चापि निमीलन्नयनद्वयम् ॥१८॥

कपोत इव कूजेच्च निः संगः सोपतन्त्रकः ।
स एव वामनासायां युक्तस्तु मरुता हृदि ॥१९॥

प्राप्नोति च मुहुः स्वास्थ्यं मुहुरस्वास्थ्यवान्भवेत् ।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो मतः ॥२०॥

स्वेदस्तम्भं तदा तस्य वायुश्छिन्नतनुर्यदा ।
व्याप्नोति सकलं देहं यत्र चायाम्यते पुनः ॥२१॥

अन्तर्धान्तुगतश्चैव वेगस्तम्भं च नेत्रयोः ।
करोति जृम्भां सदनं दशनानां हतोद्यमम् ॥२२॥

पार्श्वयोर्वेदनां बाह्यां हनुपृष्ठसिरोग्रहम् ।
देहस्य बहिरायामं पृष्ठतो हृदये शिरः ॥२३॥

उरश्चोत्क्षिप्यते तत्र स्कन्धो वा नाम्यते तदा ।
दन्तेष्वास्ये च वैवर्ण्यं ह्यस्वेदस्तत्र गात्रतः ॥२४॥

बाह्यायामं हनुस्तम्भं ब्रवते वातरोगिणम् ।
विण्मूत्रमसृजं प्राप्य ससमीरसमीरणाः? ॥२५॥

आयच्छन्ति तनोर्देषाः सर्वमापादमस्तकम् ।
तिष्ठतः पाण्डुमात्रस्य व्रणायामः सुवर्धितः ॥२६॥

गात्रवेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपणेन तत् ।
जिह्वाविलेखनादुष्णभक्षणादतिमानतः ॥२७॥

कुपितो हनुमूलस्थः स्तम्भयित्वानिलो हनुम् ।
करोति विवृतास्यत्वमथवा संवृतास्यताम् ॥२८॥

हनस्तम्भः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् ।
वाग्वादिनी शिरास्तम्भो जिह्वां स्तम्भयतेऽनिलः ॥२९॥

जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ।
शिरसा भारहरणादतिहास्यप्रभाषणात् ॥३०॥

विषमादुपधानाच्च कठिनानां च चर्वणात् ।
वायुर्विवर्धते तैश्च वातूलैरूर्ध्वमास्थितः ॥३१॥

वक्रीकरोति वक्त्रं च ह्युच्चैर्हसितमीक्षितम् ।
ततोऽस्य कुरुते मृद्वीं वाक्शक्तिं स्तब्धनेत्रताम् ॥३२॥

दन्तचालं स्वरभ्रंशः श्रुतिहानीक्षितग्रहौ ।
गन्धाज्ञानं स्मृतिध्वंसस्त्रासः श्वासश्च जायते ॥३३॥

निष्ठीवः पार्श्वतोदश्च ह्येकस्याक्ष्णो निमीलनम् ।
जत्रोरूर्ध्वं रुजस्तीव्राः शरीरार्धधरोऽपि वा ॥३४॥

तमाहुरर्दितं केचिदेकाङ्गमथ चापरे ।
रक्तमाश्रित्य च शिराः कुर्यान्मूर्धधराः शिराः? ॥३५॥

रूक्षः सवेदनः कृष्णः सोऽसाध्यः स्याच्छिरोग्रहः ।
तनुं गृहीत्वा वायुश्च स्नायुस्तथैव च ॥३६॥

पक्षमन्यतरं हन्ति पक्षाघातः स उच्यते ।
कृत्स्नस्य कायस्यार्धं स्यादकर्मण्यमचेतनम् ॥३७॥

एकाङ्गरोगतां केचिदन्ये कक्षरुजां विदुः ।
सर्वाङ्गरोधः स्तम्भश्च सर्वकायाश्रितेऽनिले ॥३८॥

शुद्धवातकृतः पक्षः कृच्छ्रसाध्यतमो मतः ।
कृच्छ्रश्चान्येन संसृष्टो विवृद्धः क्षयहेतुकः ॥३९॥

आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः ।
असाध्य एव सर्वो हि भवेद्दण्डापतानकः ॥४०॥

अंसमूलोत्थितो वायुः शिराः संकुच्य तत्रगः ।
बहिः प्रस्यन्दितहरं जनयत्येव बाहुकम् ॥४१॥

तलं प्रत्यङ्गुलीनां यः कण्डरा बाहुपृष्ठतः ।
बाह्वोः कर्मक्षयकरी विपूची वेति सोच्यते ॥४२॥

वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षैपेद्यदा ।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥४३॥

कम्पते गमनारम्भे खञ्जन्निव च गच्छति ।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥४४॥

शीतोष्णद्रवसंसुष्कगुरुस्निग्धैश्च सेवितैः ।
जीर्णाजीर्णे तथायासक्षोभस्निग्धप्रजागरैः ॥४५॥

श्लेष्मभेदः समये परमत्यर्थसंचितम् ।
अभिभूयेतरं दोषं शरीरं प्रतिपद्यते ॥४६॥

सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तम्भितेन तत् ।
तदास्थि स्नाति तेनोरोस्तथा शीतानिलेन तु ॥४७॥

श्यामाङ्गमङ्गस्तैमित्यतन्द्रामूर्छारुचिज्वरैः ।
तमूरुस्तम्भमित्याह बाह्यवातमथापरे ॥४८॥

वातशोणितसंशोथो जानुमध्ये महारुजः ।
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलक्रोष्टुकशीर्षवत् ॥४९॥

रुक्पादविषमन्यस्ते श्रमाद्वा जायते यदा ।
वातेन गुल्फमाक्षित्य तमाहुर्वातकण्टकम् ॥५०॥

पार्ष्णिप्रत्यङ्गुलीनाभौ कण्ठे वा मारुतार्दिते ।
सतिक्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥५१॥

हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ।
पादहर्षः स विज्ञेयः कफमारुतकोपजः ॥५२॥

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ।
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् ॥५३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातव्याधिनिदानं नाम षटूषष्ट्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धुपी

  • पु. १ धूप जाळणारा ; धुपाटणें धरणारा . २ धूप वगैरे सुगंधी पदार्थाची व्यापारी , दुकानदार . ' हडपी , बारी व्यवहारी । जलप्राशक धूवा फुलारी । ' - भारा . अयोध्या . ८ . ४४ . 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.