संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७५

आचारकाण्डः - अध्यायः ७५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः ॥
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूजयतमं पृथिव्याम् ॥१॥

वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति ॥
नीलं पुनः खलु सितं परुषं विभिन्नं व्याध्यादिदोषकरणेन च तद्विभाति ॥२॥

स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः ॥
त्रासव्रणव्यालविवर्जिताश्च कर्केतनास्ते परमं पवित्राः ॥३॥

पात्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम् ॥
रोगप्रणाशनकरं कलिनाशनं तदायुष्करं कुलकरं च सुखप्रदं च ॥४॥

एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये ॥
ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपिते भवन्ति ॥५॥

एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः ॥
तेजोऽतिदीप्ति कुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥६॥

कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम् ॥
तस्योत्तमस्य मणि शास्त्रविदां महिम्ना तुल्यं तु मूल्यमुदितं तुलितस्य कार्य्यम् ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP