संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १९९

आचारकाण्डः - अध्यायः १९९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


भैरव उवाच ।
अथ चूडामणिं वक्ष्ये शुभाशुभविशुद्धये ।
सूर्यं देवीं गणं सोम स्मृत्वा तु विलिखेन्नरः ॥१॥

त्रिरेखा गोमूर्त्रिकाभा अथवा प्रश्रवाक्यतः ।
दिशस्थानप्रसूतो वा ध्वजादीन्गणयेत्क्रमात् ॥२॥

ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरदन्तिनौ ।
ध्वाङ्क्षश्च अष्टमो ज्ञेयो नाम मन्त्रैश्च तान्न्यसेत् ॥३॥

ध्वजस्थाने ध्वजं दृष्ट्वा राज्यचिन्ताधनादिकम् ।
ध्वजस्थाने स्थितो धूम्रो धातुचिन्ता च लाभकृत् ॥४॥

ध्वजस्थाने स्थिते सिंहे धनलाभादिकं भवेत् ।
स्थिते शुनिध्वजस्थाने दासीचिन्तासुखादिकम् ॥५॥

ध्वजस्थाने वृषं दृष्ट्वा स्थानचिन्ता च लाभकम् ।
ध्वजस्थाने खरं दृष्ट्वा दुः खक्लेशादिकं भवेत् ॥६॥

ध्वजस्थाने गजं दृष्ट्वा स्थानचिन्ताजयादिकम् ।
ध्वजस्थाने तथा ध्वाङ्क्षे क्लेशचिन्ता धनक्षयः ॥७॥

धूम्रस्थाने ध्वजं दृष्ट्वा पूर्वं दुः खं ततो धनम् ।
धूम्रे धूम्रं तथा दृष्ट्वा कलिदुः खादिकं भवेत् ॥८॥

धूम्रस्थाने स्थिते सिंहे मनश्चिन्ताधनादिकम् ।
धूम्रस्थाने शुनि स्थिते जयलाभादिकं भवेत् ॥९॥

धूम्रस्थाने वृषं दृष्ट्वा नारीगोऽश्वधनादिकम् ।
धूम्रस्थाने खरं दृष्ट्वा व्याधिश्चापि धनक्षयः ॥१०॥

धूम्रस्थाने गजे दृष्टे राज्यलाभजयादिकम् ।
धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनम् ॥११॥

सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशेत् ।
सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनादिकम् ॥१२॥

सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः ।
कौलेयके सिंहगते स्त्रीचिन्ता ग्रामलाभकम् ॥१३॥

सिंह स्थाने वृषं दृष्ट्वा गृहक्षेत्रार्थलाभकम् ।
सिंहस्थाने गजं दृष्ट्वा ग्रामस्वामित्वमेव च ॥१४॥

सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखादिकम् ।
सिंहस्थानेस्थिते ध्वाङ्क्षे कन्याधान्यगुणादिकम् ॥१५॥

शुनः स्थाने ध्वजं दृष्ट्वा स्थानचिन्तासुखादिकम् ।
शुनः स्थाने स्थिते धूम्रे कलहं कार्यनाशनम् ॥१६॥

शुनः स्थान स्थिते सिंहे कार्यासिद्धिर्भविष्यति ।
स्थिते शुनि शुनः स्थाने धननाशो भविष्यति ॥१७॥

शुनः स्थाने वृषं दृष्ट्वा रोगी रोगाद्वि मुच्यते ।
शुनः स्थाने खरं दृष्ट्वा कलहस्य भयं भवेत् ॥१८॥

शुनः स्थाने गजं दृष्ट्वा पुत्रभार्यासमागमः ।
श्वस्थाने च स्थिते ध्वाङ्क्षे पीडास्यात्कुलनाशनम् ॥१९॥

वृषस्थाने ध्वजं दृष्ट्वा राजपूजासुखादिकम् ।
वृषस्थाने स्थिते धूम्रे राजपूजासुखादिकम् ॥२०॥

वृषस्थाने स्थिते सिंहे सौभाग्यञ्च धनादिकम् ।
स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः ॥२१॥

वृषस्थाने वृषं दृष्ट्वा कीर्तितुष्टिसुखादिकम् ।
वृषस्थाने खरं दृष्ट्वा महालाभादिकं भवेत् ॥२२॥

वृषस्थाने गजं दृष्ट्वा स्त्रीगजादिसमागमः ।
वृषस्थाने स्थिते ध्वाङ्क्षे स्थानमानसमागमः ॥२३॥

खरस्थाने ध्वजं दृष्ट्वा रोगशोकादिकं भवेत् ।
खरस्थाने स्थिते धूम्रे तस्करादिभयं भवेत् ॥२४॥

खरस्थाने स्थिते सिंहे पूजाश्रीविजयादिकम् ।
स्थिते शुनिखरस्थाने सन्तापधननाशनम् ॥२५॥

खरस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः ।
खरस्थाने खरं दृष्ट्वा दुः खीपीडादि निर्दिशेत् ॥२६॥

खरस्थाने गजं दृष्ट्वा सुखपुत्त्रादिकं भवेत् ।
खरस्थाने स्थिते ध्वाङ्क्षे कलहो व्याधिरेव च ॥२७॥

गजस्थाने ध्वजं दृष्ट्वा स्त्रीजयश्रीसुखादिकम् ।
गजस्थानेस्थिते धूम्रे धनधान्यसमागमः ॥२८॥

गजस्थाने स्थिते सिंहे जयसिद्धिसमागमः ।
स्थिते शुनि गजस्थाने आरोग्यं सुखसम्पदः ॥२९॥

गजस्थाने वृषं दृष्ट्वा राजमानधनादिकम् ।
गजस्थाने खरं दृष्ट्वा पूर्वं दुः खं ततः सुखम् ॥३०॥

गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम् ।
गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥३१॥

ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति ।
ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥३२॥

ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च ।
ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥३३॥

ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम् ।
ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥३४॥

ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत् ।
ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥३५॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनवत्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP